RBSE Solutions for Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम्

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम् सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम् pdf Download करे| RBSE solutions for Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम् notes will help you.

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम्

RBSE Class 9 Sanskrit सरसा Chapter 15 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि

RBSE Class 9 Sanskrit सरसा Chapter 15 वस्तुनिष्ठप्रश्नाः

दत्तेषु विकल्पेषु उचितविकल्पस्य क्रमांक कोष्ठके लिखत।

प्रश्न 1.
हनुमती यस्याः कृते ‘प्रशस्तव्या’ इति विशेषणस्य प्रयोग विहितः
(क) राक्षस्याः कृते
(ख) सीतायाः कृते
(ग) अशोकवाटिकायाः कृते
(घ) गङ्गायाः कृते
उत्तराणि:
(ख) सीतायाः कृते

प्रश्न 2.
गुणाभिरामो यो वर्तते?
(क) रामः
(ख) हनुमान्
(ग) रावणः
(घ) लक्ष्मण:
उत्तराणि:
(क) रामः

प्रश्न 3.
हनुमतानुसारं यः गुरुविनीतः वर्तते
(क) मेघनादः
(ख) हनुमान्
(ग) रावणः
(घ) लक्ष्मणः
उत्तराणि:
(घ) लक्ष्मणः

प्रश्न 4.
मैथिलराजस्य वास्तविक नाम किम् आसीत्?
(क) जनकः
(ख) पुण्यराज:
(ग) मिथिलापतिः
(घ) मिथिलेशः
उत्तराणि:
(क) जनकः

प्रश्न 5.
हलमुखाक्षते क्षेत्रे मेदिनी भित्वा का उत्थिता?
(क) वसुधा
(ख) राक्षसी
(ग) गङ्गा
(घ) सीता
उत्तराणि:
(घ) सीता

प्रश्न 6.
हनुमतानुसारं को हि दुरतिक्रमः?
(क) रावण:
(ख) रामः,
(ग) कालः
(घ) जनकः
उत्तराणि:
(ग) कालः

प्रश्न 7.
रामायणास्य रचयिता कोऽस्ति?
(क) तुलसीदासः
(ख) वाल्मीकिः
(ग) प्रचेतस्
(घ) जनकः
उत्तराणि:
(ख) वाल्मीकिः

RBSE Class 9 Sanskrit सरसा Chapter 15 अतिलघूत्तरात्मकप्रश्नाः

प्रत्येकं एकवाक्यात्मकम् उत्तर प्रदेयम्।

प्रश्न 1.
जलदागमे गङ्गा इव का अत्यर्थं न क्षुभ्यते?
उत्तरम्:
जलदागमे गङ्गा इव सीता अत्यर्थं न क्षुभ्यते।

प्रश्न 2.
विराधस्य राक्षसस्य विनाशः केन कृतः?
उत्तरम्:
विराधस्य राक्षसस्य विनाशः रामेण कृतः।

प्रश्न 3.
केन कारणेन सीता रामेण सह वनं गता?
उत्तरम्:
भर्तृस्नेहबलात्कृता सीता रामेण सह वनं गता।

प्रश्न 4.
राघवः पिपासितः प्रपाम् इव कां द्रष्टुम् इच्छति?
उत्तरम्:
राघवः पिपासितः प्रपाम् एव सीतां द्रष्टुम् इच्छति।

प्रश्न 5.
सीतायाः पुनः लाभात् नूनं प्रीतिम् कः एष्यति?
उत्तरम्:
सीतायाः पुनः लाभात् नूनं रामः प्रीतिम् एष्यति।

प्रश्न 6.
एकस्थहृदया सीता नूनं कम् एव अनुपश्यति?
उत्तरम्:
एकस्य हृदया सीता नून रामम् एव अनुपश्यति।

प्रश्न 7.
सीता केन कारणेन स्वदेहं धारयति?
उत्तरम्:
बन्धुजनेन समागमाकांक्षिणी स्वदेहं धारयति।

RBSE Class 9 Sanskrit सरसा Chapter 15 लघूत्तरात्मकप्रश्नाः

प्रश्न 1.
अस्य पाठस्य संग्रहः कुतो विहितः?
उत्तरम्:
अस्य पाठस्य संग्रहः वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् विहितः।

प्रश्न 2.
किं कृत्वा हरिपुङ्गवः पुनः चिन्तापरः अभवत्?
उत्तरम्:
प्रशस्तव्यां सीतां प्रशस्य हरिपुङ्गवः पुनः चिन्तापरः अभवत्।

प्रश्न 3.
कस्मात् कारणात् राघवः सीताम् अर्हति?
उत्तरम्:
तुल्यशीलवयोवृतां तुल्याभिजनलक्षणाम् सीतां राघवः अर्हति।

प्रश्न 4.
विशाललोचनायाः सीतायाः कृते रामः कान् हतवान्?
उत्तरम्:
विशालाक्ष्याः सीतायाः कृते रम: महाबलं: बाली कबंध च हतवान्।।

प्रश्न 5.
सीता वने स्वजीवनं कथं जीवति?
उत्तरम्:
सीता सर्वभोगान् परित्यज्य भर्तृदृढ़वता सती वने जीवति।

प्रश्न 6.
अस्मिन् पाठे रामस्य कृते कानि कानि विशेषणानि प्रयुक्तानि सन्ति?
उत्तरम्:
अस्मिन् पाठे रामस्य कृतेः-गुणाभिरामं, धीमतः च विशेषणानि प्रयुक्तानि सन्ति।

प्रश्न 7.
पाठेऽस्मिन् सीतायाः के के गुणाः वर्णिताः सन्ति
उत्तरम्:
पाठेऽस्मिन् सीतायाः शीलं, भर्तृदृढ़व्रतां कामभोगैः परित्यक्तां च गुणी: वर्णिताः सन्ति।

प्रश्न 8.
सीतायाः उत्पत्तिः कथं सञ्जाता?
उत्तरम्:
क्षेत्रे हलमुखक्षते मेदिनी भित्वा सीतायाः उत्पत्तिः सञ्जाता।

प्रश्न 9.
पाठानुसारं रामेण कानि कानि कार्याणि विहितानि सन्ति? हात?
उत्तरम्:
पाठानुसारं रामेण वने वालीवधं कबन्धस्य वधं युद्धे राक्षसस्य: विराधस्य वधं च कार्याणि विहितानि सन्ति।

RBSE Class 9 Sanskrit सरसा Chapter 15 निबन्धात्मकप्रश्नाः

प्रश्न 1.
पाठानुसारं सीतायाः चरित्र-चित्रणं कुरुत।
उत्तरम्:
राजा जनकस्य पुत्री, सीता अस्माकं समाजे भारतीय नारीणां आदर्शरूपा अस्ति। सुशीलसम्पन्ना कर्तव्यपरायणा च आसीत्। स्वभर्तृदृढ़ व्रत निर्वाहार्थं सर्वान् त्यक्त्वा सा रामेण सह वनं गतवती। यदा रावणः हरणं कृत्वा ताम्, लंकायां अशोकवाटिकायां आनीतवान् तदापि सा स्वधर्मं शीलं चारित्र्यं च रक्षितवती। रामे तस्याः अनन्य प्रेम विश्वासः च आसीत्। सा स्वबन्धुजनान् पुनः द्रष्टुम् स्वदेहं धारयति स्म। अशोकवाटिकायां सा राक्षसीभिः प्रतिदिनं रावणस्य अपारवैभवविषये शृणोति स्म किन्तु सा रामेऽनन्यनिष्ठावती सती संयमितं जीवनं यापयति स्म।

प्रश्न 2.
रामसीतयोः तुल्यगुणान् स्वकल्पनया विशदीकुर्वन्तु।
उत्तरम्:
अयोध्यानरेशः दशरथस्य पुत्र अस्ति। सीता मैथिलराज जनकस्य सुता अस्ति। रामः गुणाभिरामैः सीताऽपि सुलक्षणा। रामः स्वभावेन विनम्र: सीता शीलसम्पन्ना अस्ति। राम: धीमतः सीता तस्य व्यवसायज्ञा रामः पितुः आज्ञां पालयितुं वनं गतवान् सीतापि स्वधर्म-निर्वाहार्थं रामेण सह वनं गतवती। रामस्य सीतां प्रति अनन्य प्रेम आसीत् सीताऽपि रामे अनन्य निष्ठावती। रामः जितेन्द्रियः सीताऽपि वने संयमितं जीवनं यापयति स्म। रामः सर्वसुखान् त्यक्त्वा वनं गतवान् सीताऽपि तेन सह विरक्ता सती वने निवसति स्म। रामः सीतां शोधयितुं वने वने भ्रमति सीता अशोकवाटिकां निवसन् स्वहृदये राममेव पश्यति। रामः पिपासितः प्रपाम् इव सीतां द्रष्टुम् इच्छति सीताऽपि तत्समागमकांक्षिणी स्वदेहं धारयति।

प्रश्न 3.
अस्य पाठस्य स्वशब्दैः सारं लिखत।
उत्तरम्:
प्रस्तुतः पाठः वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संग्रहीतः। यदा सीता रामेण सह वनं गतवती तदा सो रावणेन हृता। सः लङ्कायां अशोकवाटिकां रावणः ताम् (सीताम्) आनीतवान्। तत्र स्थिता सीता भयंकर राक्षसीभिः परिवृता अनेकान् कष्टान् भुञ्जन्ती कृशकाया सञ्जाता। तस्मिन् समये रामः सीतां शोधयितुं हनुमन्तं प्रेषितवान्। हनुमान् सीता शोधयन् लङ्कां गतः अशोकवाटिकायां दु:खी सीतां च दृष्टवान्। सः अशोकवृक्षे तिष्ठन् सीतायां विषये मनसि यम् चिन्तयति तदैव अस्मिन् पाठे वर्णितः।

सः सीतायाः रामस्य च गुणान् प्रशस्य चिन्तयति यत् साक्षात् लक्षमीस्वरूपा सीता गङ्गायाः इव गंभीरा अस्ति। सा निश्चित रूपेण शीलवयव्यवहारभिः रामं अर्हति। सर्वसुखान् त्यक्त्वा स्वधर्म पालयितुं एषा वने निवसति स्म। अत्रापि (अशोकवाटिकायां अपि) ऐषा दृढ़विश्वासेन राघवमेव पश्यति। स्व चरित्रशीलयो: रक्षां कृत्वा संयमितं जीवनं यापयति। एतादृशां सीतां पुनः लब्ध्वा राघवः निश्चितमेव प्रीतिं एष्यति इति।

प्रश्न 4.
हनुमत्विषये भवन्तः किं जानन्ति?
उत्तरम्:
हनुमान् रामस्य अनन्यभक्तः आसीत्। तस्य मातुः नाम अंजना पितुः नाम केसरी च आसीत्। सः पवन पुत्र अपि कथ्यते। सः बाल्यकालादेव वीर्यवान् आसीत्। रामे तस्य दृढ़भक्ति आसीत्। रामाज्ञया सः सीतां अन्वेष्टुं लंकायां गतवान्। युद्धसमये यदा लक्ष्मणमूर्छितो जातः तदा हनुमान तस्य कृते संजीवनीम् आनीतवान्। युद्धसमाप्तो सेः रामेण सह अयोध्यां गतवान्। तत्रापि सः नित्यं रामस्य सेवा अंकरोत्। हनुमतः प्रत्येकचेष्टा रामप्रीत्यर्थं एव अभवत्। श्रीरामः तत्सेवया प्रसन्नोभवत् तम् ‘चिरंजीवीभव’ इति वरं दत्तवान्। अतः हनुमतः गणना सप्तचिरंजीविषु भवति।।

प्रश्न 5.
अस्य श्लोकस्य संक्षिप्ता व्याख्या करणीया।
इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः।
रावणेन प्रमथितां प्रपामिव पिपासितः॥
उत्तरम्:
अस्मिन् पद्ये सीतां प्राप्तुम् रामस्य स्थितिं वर्णयन् कवि कथयति–गुणसम्पन्नां दशाननेन सम्पीडितां इमां सीतां तु यथा पिपासित: मनुष्यः जलप्राप्तुम् इच्छति तथैव शोकाकुलः राम: सीतां द्रष्टुम् इच्छां करोति इति।

RBSE Class 9 Sanskrit सरसा Chapter 15 अन्य महत्वपूर्ण प्रश्नोत्तराणि

अधोलिखित प्रश्नान् संस्कृत भाषया पूर्णवाक्येन उत्तरत –

प्रश्न 1.
किमवलोक्य हनुमान् दुःखितोऽभवत्।
उत्तरम्:
गुरुविनीतस्य रामस्य मान्या लक्ष्मणस्य गुरु प्रिया अपि एवं दुःखिता इत्यवलोक्य हनुमान् दु:खी अभवत्।

प्रश्न 2.
सीता जलदागमे कथं न क्षुभ्यते?
उत्तरम्:
रामस्य लक्ष्मणस्य च व्यवसायज्ञा देवी सीता जलदागमेगङ्गा इव न क्षुभ्यते।।

प्रश्न 3.
सीतायाः कृते किमपि युक्तम्?
उत्तरम्:
यदि सीतायाः कृते रामः समुद्रान्तां मेदिनीं जगत् च अपि परिवर्तयेत् तर्हि युक्तमेव।

प्रश्न 4.
सीतायाः तुलना केन् सह कृता?
उत्तरम्:
सीतायाः तुलना त्रिलोकस्य राज्येन सह कृता।

प्रश्न 5.
सीता-त्रिलोक्या राज्ययोः कः श्रेष्ठतरः?
उत्तरम्:
सीता-त्रैलोक्यराज्ययोः सीता एव श्रेष्ठतरः।

प्रश्न 6.
सीता कस्य पुत्री आसीत्?
उत्तरम्:
सीता धर्मशीलस्य मैथिलराजस्य जनकस्य पुत्री आसीत्।।

प्रश्न 7.
सीता कुतः जाता?
उत्तरम्:
सीता मेदिनी विभक्ता उत्थिता (जाता)।

प्रश्न 8.
जनकः कस्य प्रदेशस्य नृपः आसीत्?
उत्तरम्:
जनक: मिथिलायाः नृपः आसीत्।

प्रश्न 9.
सीता का परित्यज्य वनं गता?
उत्तरम्:
सीता सर्वान् भोगान् परित्यज्य निर्जनं वनं गता।

प्रश्न 10.
सीता कस्मात् वनं गता?
उत्तरम्:
सीता भर्तृस्नेहाबलात् कृता वनं गता।

स्थूलाक्षरपदानि आधृत्य प्रश्न-निर्माणं कुरुत –

प्रश्न 1.
एकस्य हृदया सीता राममेवानुपश्यति।
उत्तरम्:
एकस्य हृदया सीता कस्यमेवानुपश्यति।

प्रश्न 2.
शीलसम्पन्नां सीतां राघवः द्रष्टुम् इच्छति।
उत्तरम्:
राघवः कां द्रष्टुम् इच्छति?

प्रश्न 3.
सीताया कृते युक्तम् एव।
उत्तरम्:
कस्याः कृते युक्तम् एव।

प्रश्न 4.
अस्या हेतोः विशालाक्ष्या हतो बाली महाबलः।
उत्तरम्:
कस्याः हेतो महाबल: बाली हत:?

प्रश्न 5.
कालो हि दुरतिक्रमः।
उत्तरम्:
कः दुरतिक्रम:?

पाठ परिचय

प्रस्तुत पाठ वाल्मीकि रचित रामायण के सुन्दरकाण्ड से संगृहीत है। अशोकवाटिका में स्थित सीता भयंकर राक्षसियों से घिरी हुई विविध कष्टों को सहन करती हुई किस प्रकार चरित्र और शील की रक्षा करके संयमित जीवन व्यतीत करती थीं। अशोक वृक्ष पर बैठे हुए राम के भक्त हनुमान यह सब देखते हुए मन में सोचते हैं। वही प्रसंग यह है।

मूलपाठ, अन्वय, शब्दार्थ, हिन्दी – अनुवाद एवं सप्रसंग संस्कृत व्याख्या

1. प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः।
गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्॥

अन्वयः – प्रशस्तव्यां तां सीतां तु प्रशस्य गुणाभिरामं रामं च (प्रशस्य) हरिपुङ्गवः पुनः चिन्तापरः अभवत्।

शब्दार्थाः – प्रशस्तव्यां = प्रशंसनीयां (प्रशंसा करने योग्य)। तां सीतां = अमूम् सीतां (उस सीता को)। तु = तो। प्रशस्य = प्रशसां कृत्वा (प्रशंसा करके)। गुणाभिरामं = गुणैः अभिरामं (गुणों से शोभायमान)। रामं च = राम को (प्रशस्य = स्तुत्य (प्रशंसा करके)। हरिपुङ्गवः = वानरश्रेष्ठ: हनुमान् (हनुमान्)। पुनः = पुनः। चिन्तापरः = चिन्तामग्नः (चिन्तामग्न, विचारमग्न)। अभवत् = जातः (हो गये)।

हिन्दी – अनुवाद – प्रशंसा करने योग्य उस सीता की प्रशंसा करके और गुणों से शोभायमान (सुन्दर) श्रीराम की प्रशंसा करके हनुमान फिर विचारमग्न हो गये। सप्रसंग संस्कृत व्याख्याः – प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य सीता – चरित्रम्” इति पाठात् उद्धृतः। मूलरूपेण अयं पाठ: वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये माता सीतायाः चरित्र वर्णनं कुर्वन् कविः कथयति – प्रशंसनीयां अमूम् सीतां तु प्रशंसा कृत्वा गुणैः शोभायमानं रामं च प्रशस्य वानरश्रेष्ठः हनुमानः चिन्तामग्नः जातः।

♦ व्याकरणिक – बिन्दवः –

1. चिन्तापरोऽअभवत् = चिन्तापरः + अभवत् = विसर्ग सन्धि।
2. पुनश्च = पुनः + चा

2. मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया।
यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः॥

अन्वयः – गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया मान्या सीता हि यदि दुःखार्ता (तर्हि) कालः हि दुरतिक्रमः (अस्ति)।

शब्दार्थाः—गुरुविनीतस्य = गुरुभिः अधीतस्य (गुरुजनों से पढ़े हुए)। लक्ष्मणस्य = सुमित्रानन्दनस्य (लक्ष्मण के)। गुरुप्रिया= अग्रजप्रिया (बड़े भाई (राम) की प्रिया)। मान्या = माननीया (आदरणीया)। सीताहि = सीता ही। दुःखार्ता =। दुःखैः त्रस्ता भवति (दुख से पीड़ित होती है।)। तर्हि = तब तो। कालः = समय: (समय)। हि = निश्चित रूपेण (निश्चित रूप से)। दुरतिक्रमः = अनतिक्रमणीयः (अतिक्रमण न करने योग्य)। अस्ति = है।

हिन्दी – अनुवाद – गुरुजनों द्वारा शिक्षित लक्ष्मण के बड़े भाई (राम) की प्रिया आदरणीया सीता ही यदि दु:खों से पीड़ित होती है। तब तो समय निश्चित रूप से अतिक्रमण न
करने योग्य है।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य ‘सीता – चरित्रम्’ इति पाठात् उद्धतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये अशोकवाटिकायां सीतां दृष्ट्वा पवनपुत्रो हनुमान: चिन्तयति यत् – गुरुभिः अधीतस्य सुमित्रानन्दन – लक्ष्मणस्य अग्रजप्रिया (भ्रातृजाया) माननीय सीता हि यदि दुःखैस्त्रस्ता भवति तर्हि समयः निश्चितरूपेण अनतिक्रमणीयः अस्ति।

♦ व्याकरणिक – बिन्दवः –

1. गुरुविनीतस्य = गुरुभिः विनीतः तस्य च = तृतीया तत्पुरुष।
2. गुरुप्रिया = गुरोः प्रिया = पष्ठी तत्पुरुषः।

3. रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः।
नात्यर्थं क्षुभ्यते देवी गङ्गेव, जलदागमे॥

अन्वयः – रामस्य धीमतः लक्ष्मणस्य च व्यवसायज्ञा (सा) देवी जलदागमे गङ्गा इव अत्यर्थं न क्षुभ्यते।

शब्दार्थाः – रामस्य = राम की। धीमतः = बुद्धिमान् (बुद्धिमान)। लक्ष्मणस्य च = तस्य अनुज लक्ष्मणस्य च (और उनके छोटे भाई लक्ष्मण के)। व्यवसायज्ञा = पराक्रमं ज्ञा (पराक्रम को जानने वाली)। देवी = (सा) सीता (वह) सीता)। जलदागमे = वर्षाऋत्वागमे (वर्षा ऋतु के आने पर)। गङ्गा इव = गङ्गा सदृश (गंगा के समान)। अत्यर्थं = अत्यधिकं (अधिक)। न क्षुभ्यते = विचलिता न भवति (दु:खी नहीं होती)।

हिन्दी – अनुवाद – बुद्धिमान् राम और लक्ष्मण के पराक्रम को जानने वाली सीता वर्षा ऋतु के आने पर गंगा के समान अधिक विचलित नहीं होती हैं।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य ‘सीता – चरित्रम्’ इति पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये सीताविषये हनुमान चिन्तयति यत् रामस्य बुद्धिमतः तस्य अनुजस्य लक्ष्मणस्य च पराक्रमं अभि या देवी सीता यथा गङ्गा वर्षाऋत्वागमे क्षुब्धा ने भवति तथैव (साऽपि) संकट समये बहु विचलिता न भवति।

♦ व्याकरणिक – बिन्दवः –

1. नात्यर्थं = न + इति + अर्थम् = यण् सन्धि।
2. जलदागमे = जलद + आगमे = दीर्घ सन्धि।

4. तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।
राघवोऽर्हति वैदेहीं तं चेयमसितेलक्षणा॥

अन्वयः – तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् वैदेही राघवः अर्हति तं च इयम् (सीता) असितेक्षणा (अर्हति)।

शब्दार्थाः – तुल्यशीलवयोवृत्तां = समानशीलवयो व्यवहारयुक्ती (समान स्वभाव, आयु और व्यवहार युक्त)। तुल्याभिजनलक्षणाम् = समान कुल चिह्न युक्ता (समान कुल, लक्षणों से युक्त)। वैदेहीं = जानकी (सीता के लिए)। राघवः = राम अर्हति = अनुकूलं अस्ति (उपयुक्त हैं)। तं च = रामं च, अमुम् च (राम के लिए, उसके लिए)। इयम् = सीता, जानकी (यह सीता, जानकी)। असितेक्षणा = श्यामल नयना (काले नेत्रों वाली)। अर्हति = उपयुक्तां अस्ति (उचित है।)।

हिन्दी – अनुवाद – समान स्वभाव, आयु और आचरण से युक्त समान कुल के लक्षणों से युक्त सीता के लिए राम उपयुक्त हैं और उन राम के लिए काले नेत्रों वाली सीता उपयुक्त हैं (सही हैं।)

सप्रसंग संस्कृत व्याख्या – प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘सीता – चरित्रम्’ इति पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये सीता – रामयोः विषये पवनपुत्र हनुमानः चिन्तयति – यथा समानशीलवयो व्यवहारयुक्ता समान कुल चिह्न युक्ता जानकी प्रति रामः अनुकूलः अस्ति तथैव अमम् च। श्यामलनयना जानकी। उपयुक्ता अस्ति। अतः राम – सीता च परस्परौ अनुकूलौ स्तः इति।

♦ व्याकरणिक – बिन्दवः –

1. चेयमसितेक्षणा = च + इयमसितेक्षणा गुण सन्धि।
2. राघवोऽर्हति = राघवः + अर्हति = विसर्ग सन्धि।

5. अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः।
रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥

अन्वयः – अस्याः विशालाक्ष्याः हेतोः (रामेण) महाबलः वाली हतः वीर्ये रावणप्रतिम: कबन्ध च निपातितः।

शब्दार्थाः – अस्याः = इस। विशालक्ष्या = विशालनयनयुक्ता सीतायाः (विशाल नेत्रों वाली सीता के)। हेतोः = अर्थम् (लिए)। रामेण = (राम के द्वारा)। महाबलः = शक्तिमान् (शक्तिशाली)। वाली = बाली। हतः = मारा गया। वीर्ये = पराक्रमे (पराक्रमे)। रावणप्रतिमः = दशाननसमः (रावण के समान)। कबन्धः = कबन्ध नाम्नः राक्षसोऽपि (कबन्ध नामक राक्षस भी)। निपातितः = मार दिया गया।

हिन्दी – अनुवाद – इस विशाल नेत्रों वाली (सीता) के लिए शक्तिशाली बाली मारा गया। पराक्रम में रावण के समान (पराक्रमी) कबन्ध भी मार दिया गया।

सप्रसंग संस्कृत व्याख्याः – प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तककस्य सीता – चरित्रम्’ इति पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्यांशे सीतायाः चरितं रामस्य पराक्रमं च वर्णितः अस्ति। अस्याः विशालनयनयुक्तासीतायाः अर्थम् रामेण शक्तिमान् वाली हतः तथैव पराक्रमे दशाननसम: कबन्धनाम्नः राक्षसोऽपि निपातितः।

♦ व्याकरणिक – बिन्दवः –

1. हतः – हन् + क्त प्रत्यय।
2. कबन्धश्च = कबन्धः + च – विसर्ग सन्धि।

6. विराधश्च हतः संख्ये राक्षसो भीमविक्रमः।
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥

अन्वयः – वने विक्रम्य महेन्द्रेण शम्बरः इव रामेण संख्ये भीमविक्रमः राक्षस: विराधः च हतः।

शब्दार्थाः – वने = अरण्ये (वन में)। विक्रम्य = पराक्रम्य (पराक्रम करके)। महेन्द्रेण = सुरेन्द्रेण (इन्द्र द्वारा)। शम्बरः इव = शम्बर के समान। रामेण = दशरथ सुतेन (राम के द्वारा)। संख्ये = युद्धक्षेत्रे (युद्ध क्षेत्र में)। भीमविक्रमः = महाविक्रमः (महापराक्रमी)। राक्षसः = असुरः (राक्षस)। विराधः च = (और विरोध)। हतः = मारा गया।

हिन्दी – अनुवाद – वन में पराक्रम करके इन्द्र द्वारा शम्बर के समान राम के द्वारा युद्ध क्षेत्र में महापराक्रमी राक्षस विराध (भी) मारा गया।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा पाठ्य – पुस्तकस्य ‘सीता – चरित्रम्’ इति पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलिते अस्मिन् पद्यांशे रामस्य पराक्रमः वर्णितः यत् यथा अरण्ये पराक्रम्य सुरेन्द्रेण शम्बर: हतः तथैव दशरथसुतरामेण युद्धक्षेत्रे असुरः विराध: हतः।

♦ व्याकरणिक – बिन्दवः –

1. हतः = हन् + क्त प्रत्यय।
2. विक्रम्य = वि + क्रम् + ल्यप् प्रत्यय।

7. यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्।
अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥

अन्वयः – अस्याः कृते यदि राम: समुद्रान्तां मेदिनीं जगत् च अपि परिवर्तयेत् युक्तम् एव इति मे मतिः।

शब्दार्था: – अस्याः = सीतायाः (सीता के)। कृते = अर्थे (लिए)। यदि = (यदि)। रामः = (राम)। समुद्रान्तां = वरुण पर्यन्तां (सागरपर्यन्त)। मेदिनीं = अवनिं (भूमि को)। जगत् च = संसारं च (और संसार को)। अपि = (भी)। परिवर्तयेत् = (पलट देते)। युक्तम् एव = उचितं एवं (ठीक ही होता)। इति = ऐसा। मे = मम (मेरा)। मतिः = अभिमत: (विचार है, मानना है।)।

हिन्दी – अनुवाद – इसके (सीता के) लिए यदि राम सागरपर्यन्त भूमि को और (इस) संसार को भी पलट देते तो उचित ही होता ऐसा मेरा अभिमत है।

सप्रसंग संस्कृत व्याख्याः – प्रस्तुतपद्यांशः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य ‘सीता – चरित्रम् पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये शोकाकुलां सीतां दृष्ट्वा पवनपुत्रो हनुमान स्वगतं चिन्तयति यत् सीतायाः अर्थे यदि रामः वरुणालयपर्यन्तां सम्पूर्णी अवनिं संसारम् च अपि परिवर्तयेत् तदपि उचितम् एव इति मम अभिमतः (अस्ति)।

♦ व्याकरणिक – बिन्दवः –

1. जगच्चापि = जगत् + च + अपि हल तथा दीर्घ सन्धि।
2. युक्तमित्येव = युक्तम् + इति + एव = यण् सन्धि।

8. राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्॥

अन्वयः – त्रिषु लोकेषु राज्यं वा जनकात्मजा सीता वा सकलं त्रैलोक्यराज्यं सीतायाः कलाम् अपि न आप्नुयात्।

शब्दार्थाः – त्रिषु लोकेषु = तीनों लोकों में। राज्यं = राज्य को। वा = अथवा (अथवा)। जनकात्मजा = जनकपुत्री (सीता)। सीता = जानकी (जानकी)। वा = अथवा (अथवा)। सकलं = सपूर्णं (सम्पूर्ण)। त्रैलोक्यराज्यं = त्रयाणाम् लोकानां राज्यं (तीनों लोकों का राज्य)। सीतायाः = जनकसुतायाः (सीता की)। कलाम् अपि = एक कला को भी। न आप्नुयात् = प्राप्तुम् न शक्नोति (प्राप्त नहीं कर सकता)।

हिन्दी – अनुवाद – तीनों लोकों का राज्य अथवा जनक पुत्री सीता अथवा सम्पूर्ण त्रिलोकी का राज्य सीता की एक कला को भी प्राप्त नहीं कर सकता।

सप्रसंग संस्कृत व्याख्याः – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य सीता – चरित्रम्’ इति पाठात् उद्धतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये सीतायाः गुणान्। वर्णयन् पवनपुत्रो हनुमान् चिन्तयति यत् – सीता अतुल्या अस्ति। त्रिषु लोकेषु राज्यं अथवा जनकपुत्री सीता अथवा सम्पूर्ण त्रयाणां लोकानां राज्यं सीतायाः एकोऽपि कलां प्राप्तुम् न शक्नोति।

9. इयं सा धर्मशीलस्य जनकस्य महात्मनः।
सुता मैथिलराजस्य सीता भर्तृदृढव्रता॥

अन्वयः – धर्मशीलस्य मैथिलराजस्य महात्मन: जनकस्य सुता भर्तृदृढव्रता इयं सा सीता।

शब्दार्थाः – धर्मशीलस्य = धर्मपरायणस्य (धर्मशील, धर्मपरायण)। मैथिलराजस्य = विदेहराजस्य (मिथिला के राजा)। महात्मनः = पुण्यात्मनः (महात्मा, पुण्यात्मा)। जनकस्य = जनक की। सुता = आत्मजा, (पुत्री)। भर्तृदृढव्रती = पति दृढ़व्रता (पतिव्रत धर्म में दृढ़)। इयं = यह। सा सीता = अमूम् सीता (वह सीता है।)।

हिन्दी – अनुवाद – धर्मशील मिथिला के राजा महात्मा जनक की पुत्री पतिव्रता धर्म में दृढ़ यह वह (वही) सीता है।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य सीता – चरित्रम्’ पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये सीतायाः गुणान् वर्णयन् कथयति यत् – धर्मपरायणस्य विदेहराजस्य महात्मनः जनकस्य पुत्री पतिदृढव्रती इयं असौ सीता अस्ति। सा स्वगुणैः एव प्रसिद्धा इति।

♦ व्याकरणिक – बिन्दवः –

1. महात्मा = महान् च असौ ” आत्मा – कर्मधारय।
2. भर्तृदृढव्रता = भर्तरि दृढ़े व्रतं यस्याः सा – बहुव्रीहि समास।

10. उत्थिता मेदिनीं भित्वा क्षेत्रे हलमुखक्षता।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥

अन्वयः – हलमुखक्षते क्षेत्रे पद्मरेणुनिभैः शुभैः केदारपांसुभिः कीर्णी मेदिनी भित्वा (सीता) उत्थिता।

शब्दार्थाः – हलमुखक्षते = हलमुखात् क्षता (हल के मुख से क्षत)। क्षेत्रे = कृषिभूमौ (खेत में)। पद्मरेणुनिभैः = पद्मपरागसदृशा (कमल के पराग के समान)। शुभैः == मनौरमैः (सुन्दर)। केदारपांसुभिः = केदार रेणुभिः (क्यारी की धूल से)। कीर्णा = व्याप्तां (व्याप्त)। मेदिनीं = अवनिं (भूमि को)। भित्वा = (भेदकर)। उत्थिता = प्रकटवती (प्रकट हुई)।

हिन्दी – अनुवाद – हल के मुख से क्षत होकर कमल के पराग के समान सुन्दर क्यारी की धूल से व्याप्त भूमि को भेदकर (सीता) प्रकट हुई थी।

सप्रसंग संस्कृत व्याख्या – प्रस्तुतश्लोकः अस्माकं ‘सरसा पाठ्य – पुस्तकस्य ‘सीता – चरित्रम्’ पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्यांशे सीतायाः जन्म – वर्णनम् अस्ति। हलमुखात् क्षता कृषिभूमौ पद्मपरागसदृशा मनोरमैः केदाररेणुभिः व्याप्त अवनि भित्वा सीता प्रकटवती।

♦ व्याकरणिक – बिन्दवः –

1. भित्वा = भिद् + क्त्वा।
2. हलमुखक्षते = हलस्य मुखेन क्षतं (षष्ठी तत्पुरुष)।

11. सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता।
अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम्॥

अन्वयः – भर्तृस्नेहबलात्कृता (सीता) सर्वान् भोगान् परित्यज्य कष्टानि अचिन्तयित्वा निर्जनं वनं प्रविष्टा।

शब्दार्थाः – भर्तृस्नेहबलात्कृता = भर्तृस्नेहबलेन प्रवृत्ती (पति के प्रेमरूपी बल से प्रवृत्त हुई)। सर्वान् भोगान् =सर्वसुखान् (सभी सुखों को)। परित्यज्य = . संत्यज्य (त्यागकर)। कष्टानि = दुःखानि (दु:खों को, कष्टों को)। अचिन्तयित्वा = विचारं न कृत्वा (विचार न करके)। निर्जनं = जनरहितं (निर्जन)। वनं = अरण्यं (वन में)। प्रविष्टा = गतवती (चली गयी।)।

हिन्दी – अनुवाद – पति के प्रेमबल से प्रवृत्त (सीता) सभी भोगों को त्यागकर, कष्टों का विचार न करके निर्जन वन में चली गयी।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य ‘सीता – चरित्रम्’ पाठात् उद्धृतः। मूलरूपेण अयं पाठ: वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्यांशे सीतायाः गुणान्। वर्णयन् कविः कथयति भर्तृस्नेहबलेन प्रवृत्ती (सीता) राजभवनस्य सर्वसुखान् परित्यज्य वनस्य दुःखानि च विचारं न कृत्वा जनरहितं वनं गतवती।

♦ व्याकरणिक – बिन्दवः –

1. अचिन्तयित्वा = न चिन्तु + क्त्वा।
2. परित्यज्य = परि + त्यज् + ल्यप्।

12. इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः।
रावणेन प्रमथितां प्रपामिव पिपासितः॥

अन्वयः – शीलसम्पन्नां रावणेन प्रमथितां इमां तु राघवः पिपासितः प्रपाम् इव द्रष्टुम् इच्छति।

शब्दार्था: – शीलसम्पन्नां = गुण सम्पन्न (गुणों से युक्त, शील सम्पन्न)। रावणेन = दशाननेन (रावण द्वारा)। प्रमथितां = सम्पीडितां (पीडित की गई)। इमां तु = सीतां तु (इस सीता को तो) राघवः = रामः (राम)। पिपासितः = (प्यासे मनुष्य की भाँति)। प्रपाम् इव = जलस्थलं इवे (जल के स्थान (प्याऊ) के समान)। द्रष्टुम् = देखने की। इच्छति = इच्छां करोति (इच्छा करता है।)

हिन्दी – अनुवाद – रावण द्वारा पीड़ित की गई इस शीलसम्पन्न सीता को तो राम प्यासे मनुष्य के प्याऊ के समान देखना चाहते हैं।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य ‘सीता – चरित्रम्’ पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये सीतां प्राप्तुम् रामस्य स्थितिं वर्णयन् कवि कथयति गुणसम्पन्नां दशाननेन सम्पीडितां इमां सीतां तु यथा पिपासितः मनुष्यः जलप्राप्तुम् इच्छति तथैव शोकाकुलः रामः सीतां द्रष्टुम् इच्छां करोति इति।

♦ व्याकरणिक – बिन्दवः –

1. शीलसम्पन्नाम् = शीलेन सम्पन्नाम् तृतीया तत्पुरुष समास
2. द्रष्टुम् = दृश् + तुमुन्।

13. अस्यां नूनं पुनर्लाभाद् राघवः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥

अन्वयः – राज्यपरिभ्रष्ट: राजा पुनः मेदिनीं प्राप्य इव राघवः अस्याः पुन: लाभात् नूनं प्रीतिम् एष्यति। शब्दार्थाः – राज्यपरिभ्रष्टः = राज्यात् च्युत (राज्य से च्युत)। राजा = नृपः (राजा)। पुनः मेदिनीं = पुनः अवनिं (पुनः पृथ्वी को)। प्राप्य इव = संप्राप्य इव (प्राप्त करके प्रसन्न हुए के समान)। राघवः = रामः (राम)। अस्याः = सीतायाः (इस सीता के)। पुनः लाभात् = पुनः प्राप्तौ (पुनः प्राप्ति होने से)। नूनं = निश्चयेन (निश्चित रूप से)। प्रीतिं = प्रसन्नतां (प्रसन्नता को)। एष्यति = प्राप्तं करिष्यति (प्राप्त करेंगे)।

हिन्दी – अनुवाद – राज्य से च्युत राजा के पुन: पृथ्वी को प्राप्त कर प्रसन्न हुए के समान राम सीता के पुनः प्राप्त होने पर निश्चय ही प्रसन्नता को प्राप्त करेंगे। सप्रसंग संस्कृत व्याख्या – प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘सीता – चरित्रम् पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना. विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः अस्मिन् पद्ये पवनपुत्रो हनुमान्। रामस्य मनोभावान् चिन्तयति – यथा राज्यात् च्युतः नृपः पुनः मेदिनीं प्राप्य प्रसन्नो भवति तथैव राघवः सीतां पुनः प्राप्य निश्चितरूपेण प्रसन्नं भविष्यति इति।

♦ व्याकरणिक – बिन्दवः –

1. राज्यपरिभ्रष्टः = राज्यात् परिभ्रष्टः पञ्चमी तत्पुरुष।
2. प्राप्य = प्र + आप् + ल्यप्।

14. कामभोगैः परित्यक्ता हीना बन्धुजनेन च।
धारयत्यात्मनो देहं तत्समागमकांक्षिणी।

अन्वयः – कामभोगैः परित्यक्ता बन्धुजनेन च हीना (इयं सीता) तत्समागमकांक्षिणी आत्मनः देहं धारयति।

शब्दार्था: – कामभोगैः = विषय भोगैः (विषय भोगों से)। परित्यक्ता = विरक्ता, रहिता (विरक्त या रहित)। बन्धुजनेन च = कुटुम्बजनेन च (और परिवारी जनों से)। हीना = बिछुड़ी। इयं सीता = यह सीता। तत्समागमकांक्षिणी = तत्मेलनमकांक्षिणी (उनसे मिलने की इच्छा वाला)। आत्मनः। = स्वयं के। देहं = शरीरं (शरीर को)। धारयति = धारणं करोति (धारण कर रही है।)।

हिन्दी – अनुवाद – विषय भोगों से रहित बंधुजनों से बिछुड़ी हुई उनसे मिलने की आकांक्षा रखने वाली सीता अपने शरीर को धारण कर रही है।

सप्रसंग संस्कृत व्याख्या – प्रस्तुत श्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य सीता – चरित्रम् पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना, विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः अस्ति। अस्मिन् श्लोके सीतायाः गुणान् वर्णयन् कविः कथयति – विषयभोगैः विरक्ता कुटुम्बजनेन चे हीना इयं सीता तत्मेलनम् कांक्षिणी। आत्मनः शरीरं धारणं करोति इति एव।

♦ व्याकरणिक – बिन्दवः –

1. परित्यक्ता = परि + त्यज् + क्त।
2. तत्समागमकांक्षिणी = तस्य समागमः, तस्य कांक्षिणी इति – षष्ठी तत्पुरुष।

15. नैषा पश्यति राक्षस्यो नेमान् पुष्पफलट्ठमान्।
एकस्थहृदया नूनं राममेवानुपश्यति।

अन्वयः – न एषा (सीता) राक्षस्यः पश्यति न इमान् पुष्पफलट्ठमान्, (पश्यति) एकस्थ हृदया नूनं रामं एव अनुपश्यति।

शब्दार्था: – नएषा = न इयम् (न तो यह सीता)। राक्षस्यः = राक्षसियों को। पश्यति = देखती है। न इमान् = न एतानि (न इन)। पुष्पफलदुमान् = कुसुमफलवृक्षान् (फूल – फल वाले वृक्षों को)। एकस्थहृदया = एकस्थ अन्तसा (एक में स्थित हृदय वाली)। नूनं = निश्चयमेव (निश्चय ही)। रामम् एव = राघवम् एव (राम को ही)। अनुपश्यति = (देखती है।)

हिन्दी – अनुवाद – न तो यह सीता राक्षसियों को देखती हैं न ही इन फूल फल वाले वृक्षों को.(देखती हैं)। एक में स्थित हृदय वाली (सीता) निश्चय ही राम को ही देखती हैं। सप्रसंग

संस्कृत व्याख्या – प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्य – पुस्तकस्य सीता – चरित्रम् पाठात् उद्धृतः। मूलरूपेण अयं वाल्मीकिना विरचितस्य रामायणस्य सुन्दरकाण्डात् संकलितः। अस्मिन् पद्ये सीतायाः गुणान् वर्णयन् कथयति न इयम् (सीता) अशोकवाटिकां राक्षस्य: पश्यति न एतानि कुसुमफलवृक्षान् (पश्यति) एकस्थ अन्तसा निश्चयमेव राघवमेव अनुपश्यति इति।

♦ व्याकरणिक – बिन्दवः –

1. रामम् + एवं = रामवेव (व्यञ्जन सन्धि)
2. नैषा = न + एषा (वृद्धि संधि)

महत्वपूर्ण बिन्दु

महर्षि वाल्मीकि के जन्म का नाम रत्नाकर था। बचपन में परिवार से अलग होकर वे दस्यु (डाकू) बन गये। नारद के उपदेश से राम नाम का घोर जप करते हुए वे अपने को ही भूल गये। (ऐसी अवस्था में जप करते हुए उनका शरीर मिट्टी से आच्छादित (ढक) जाने के कारण मृदामय हो गया। फिर वे वाल्मीकि हुए इसलिए उन्हें वाल्मीकि कहा जाता है। राम भरत की माता कैकयी और पिता दशरथ की आज्ञा से चौदह वर्ष पर्यन्त वन को चले गये। सीता भी उनके साथ चली गयी। भाई के भक्त लक्ष्मण भी उन दोनों की सेवा के लिए राज्य का सुख त्यागकर वन में चले गये। अशोक वाटिका नन्दन वन के समान उस समय का विख्यात उपवन (बगीचा) था। वहाँ पर विभिन्न प्रकार के वृक्ष – लता और पौधों के साथ महल आदि बहुत प्रकार के साधन थे।

All Chapter RBSE Solutions For Class 9 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 9 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 9 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published.