RBSE Solutions for Class 9 Sanskrit सरसा Chapter 3 सुभाषितानि

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 9 Sanskrit सरसा Chapter 3 सुभाषितानि सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 9 Sanskrit सरसा Chapter 3 सुभाषितानि pdf Download करे| RBSE solutions for Class 9 Sanskrit सरसा Chapter 3 सुभाषितानि notes will help you.

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 3 सुभाषितानि

RBSE Class 9 Sanskrit सरसा Chapter 3 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि

RBSE Class 9 Sanskrit सरसा Chapter 3 वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
वित्तस्य गतयः भवन्ति
(क) तिस्रः
(ख) चतस्रः
(ग) सप्त
(घ) द्वे।
उत्तराणि:
(क) तिस्रः

प्रश्न 2.
विद्वान् पूज्यते
(क) स्वदेशे
(ख) स्वगृहे
(ग) सर्वत्र
(घ) स्वराज्ये
उत्तराणि:
(ग) सर्वत्र

प्रश्न 3.
परोपकाराय वहन्ति
(क) वृक्षाः
(ख) गावः
(ग) नद्यः
(घ) शरीरम्।
उत्तराणि:
(ग) नद्यः

प्रश्न 4.
धीमतां कालः गच्छति
(क) व्यसनेन
(ख) कलहेन
(ग) निद्रया
(घ) काव्यशास्त्रविनोदेन
उत्तराणि:
(घ) काव्यशास्त्रविनोदेन

RBSE Class 9 Sanskrit सरसा Chapter 3 लघूत्तरात्मकप्रश्नाः

(क) उद्यमेन कानि सिध्यन्ति?
उत्तरम्:
उद्यमेन कार्याणि सिध्यन्ति।

(ख) मूर्खाणां कालः कथं गच्छति?
उत्तरम्:
मूर्खाणां काल: व्यसनेन निद्रया कलहेन वा गच्छति।

(ग) निर्गन्धाः किंशुकाः इव के न शोभन्ते?
उत्तरम्:
विद्या-हीनाः जनाः निर्गन्धाः किंशुकाः इव न शोभन्ते।

RBSE Class 9 Sanskrit सरसा Chapter 3 निबन्धात्मक-प्रश्नाः

प्रश्न 1.
वित्तस्य तिस्रो गतयः काः सन्ति?
उत्तरम्:
कविः भर्तृहरिः धनस्य त्रिविधं उपभोगं वर्णयति अर्थात् धनस्य त्रय उपयोगाः भवन्ति-परोपकाराय व्ययं उपभोगः विनाशः च। यः जनः न तु परोपकाराय ददाति न च स्वयम् उपभोगं करोति तस्य धनस्य तृतीया स्थितिः भवति अर्थात् क्षयः जायते।

प्रश्न 2.
परिश्रमस्य महत्त्वं किम् अस्ति?
उत्तरम्:
परिश्रमस्य महत्वं प्रतिपादयन् कविः कथयति यत् परिश्रमेण एव सर्वाणि कार्यणि सिद्धयन्ति। परिश्रमेण बिना कोऽपि कार्यं न सिद्धति। यथा सुप्तस्य सिंहस्य मुखे मृगः कदापि न प्रविशति।

प्रश्न 3.
विद्यायाः महत्वं किमस्ति?
उत्तरम्:
कविः विद्यायाः महत्वं प्रतिपादयन् कथयति यत् सौन्दर्येण युवावस्थया च परिपूर्णाः विशालकुले उत्पन्नाः अपि विद्याहीनाः तथैव न सुशोभिताः भवन्ति यथा गन्धरहितानि किंशुक-पुष्पाणि न शोभन्ते।

प्रश्न 4.
परोपकार विषये पञ्च पंक्तयः लिखन्तु।
उत्तरम्:

  1. परेषाम् उपकारः परोपकारः भवति।
  2. प्रकृतिः परोपकारे एव निरतः।
  3. वृक्षाः परोपकाराय फलन्ति।
  4. गाव: परोपकाराय दुहन्ति।
  5. परोपकाराय एव नद्य: वहन्ति। अतोऽस्माभिः अपि परोपकारः करणीयः।

प्रश्न 5.
उदारचरितानां विषये पञ्च पंक्तयः लिखन्तु।
उत्तरम्:

  1. स्वार्थिनः जनाः स्वार्थेन स्वविषये एव चिन्तयन्ति।
  2. ते निज-परयोः भेदं कुर्वन्ति।
  3. एषः मम एषः अपरस्य इति तेषां भावना भवति यावत् उदारचरिता: विशालहृदयाः भवन्ति।
  4. तेषां मनसि न कोऽपि भेदभावः भवति।
  5. तेषां तु इयं सम्पूर्णा वसुधा एव कुटुम्बकम् भवति। सर्वान् मानवान् सः आत्मीयान् मनुते।

निम्नांकितपद्यानां संस्कृतभाषया व्याख्या करणीयाउत्तरम् –

(क) दानं भोगो …………………. गतिर्भवति। संस्कृत व्याख्या – श्लोकः अयम् अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य सुभाषितानि’ इति पाठात् उद्धृतः। अस्य श्लोकस्य माध्यमेन कविः भर्तृहरिः धनस्य त्रिविधम् उपयोगं वर्णयति। धनस्य त्रयः उपयोगाः भवन्ति। परोपकाराय प्रदानं व्ययं वा, उपभोगः, विनाशः क्षयो वा। यः जनः न तु परोपकाराय ददाति वितरति वा, न च स्वयम् उपभोगं करोति, तस्य धनस्य तृतीया गतिः भवति अर्थात् क्षय: जायते।

(ख) विद्वत्वं च ………………… सर्वत्र पूज्यते। संस्कृतव्याख्या-श्लोकोऽयम् अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य ‘सुभाषितानि’ इति पाठात् उद्धृतः। अस्य श्लोकस्य माध्यमेन कवि: वैदुष्यं नृपत्वात् श्रेष्ठतरं प्रतिपादयति कविः कथयति -“विद्वता प्राज्ञता वा भूपतित्वं च कदापि सदृशौ नैव भवतः यतः नृपस्तु स्वस्य राज्ये एव आद्रियते परञ्च प्राज्ञस्तु सर्वेषु स्थानेषु एव पूज्यते।

(ग) गुरुशुश्रूषया ……………… साधनम्। संस्कृतव्याख्या-अयं श्लोकः अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य ‘सुभाषितानि’ इति पाठात् उद्धृतः। अस्य श्लोकस्य माध्यमेन कविः विद्याप्राप्तेः (अर्जनस्य) त्रीणि साधनानि कथयति यत् ज्ञानम् आचार्यस्य सेवया, पर्याप्त वित्तेन अथवा ज्ञानं ज्ञानेन एव लभ्यते। अस्य प्राप्ते: तुरीयः मार्गः न वर्तते।

(घ) परोपकाराय ……………………………… शरीरम् संस्कृतव्याख्या-श्लोकः अयम् अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य ‘सुभाषितानि’ इति पाठात् उद्धृतः। अनेन श्लोकेन कविः प्रकृतेः परोपकार-प्रवृत्तिं प्रतिपादयन् मानवम् अपि परोपकारं प्रति प्रेरयति। कवि कथयति-तरव: अन्येषां हिताय फलन्ति। सरितः परमार्थाय एवं प्रवहन्ति। धेनवः अन्येषां हिताय दुग्धं यच्छन्ति। तथैव एषः देहः अपि अन्येषाम् उपकारार्थम् एव जाता।

निम्नाङ्कितपद्यानां हिन्दीभाषया अनुवादं कुरुत –

(क) उद्यमेन हि ……………… मृगाः
उत्तरम्:
हिन्दी-अनुवाद – परिश्रम से ही कार्य सिद्ध होते हैं। मन में इच्छा (मात्र) करने से नहीं। क्योंकि सोते हुए सिंह के मुँह में मृग (जानवर स्वयं) प्रवेश नहीं करते।।

(ख) काव्यशास्त्रविनोदेन …………………… कलहेन वा।
उत्तरम्:
हिन्दी-अनुवाद – बुद्धिमान लोगों का समय साहित्य या काव्यशास्त्र आदि के (अध्ययन) से, व्यतीत होता है तथा मूख का समय बुरी आदतों में, सोते रहने में अथवा लड़ाई-झगड़े में (व्यतीत) होता है।

(ग) रूप-यौवन …………………… किंशुकाः।
उत्तरम्:
हिन्दी-अनुवाद – सुन्दरता और जवानी से युक्त महान कुल में उत्पन्न विद्या से रहित (मनुष्य) गन्धहीन टेसू की तरह सुशोभित नहीं होते।

रिक्तस्थानानि पूरयत –

(क) उदारचरितानान्तु…………. कुटुम्बकम्।
(ख) काव्यशास्त्रविनोदेन …………………… धीमताम्।
(ग) परोपकाराय ………….. शरीरम्
(घ) मनुष्यरूपेण ……………. चरन्ति।
उत्तराणि:
(क) वसुधैव
(ख) कालो गच्छति
(ग) इदम्
(घ) मृगाः।

अधोलिखितेषु पदेषु शब्दविभक्तिवचनानां निर्देशं कुरुत
उत्तरम्:
      पदम्        शब्दः     विभक्तिः       वचनम्
(क) उद्यमेन    उद्यम     तृतीया        एकवचनम्।
(ख) पशूनाम्    पशु       षष्ठा           बहुवचनम्।
(ग) वृक्षाः        वृक्ष        प्रथमा         बहुवचनम्
(घ) मृगाः        मृग        प्रथमा         बहुवचनम्

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) कार्याणि उद्यमेन सिध्यन्ति।
(ख) विद्वान् सर्वत्र पूज्यते।
(ग) मनुष्यरूपेण मृगाश्चरन्ति।
उत्तरम्:
(क) कार्याणि केन सिध्यन्ति।
(ख) कः सर्वत्र पूज्यते।
(ग) मनुष्यरूपेण के चरन्ति?

‘क’ खण्डं ‘ख’ खण्डेन सह योजयत –

 क-खण्डः          ख-खण्डः
(क) उद्यमेन        (i) गच्छन्ति
(ख) परोपकाराय (ii) चरन्ति
(ग) मृगाः           (iii) सिध्यन्ति
(घ) कालः          (iv) फलन्ति
उत्तरम्:
(क) – (iii)
(ख) – (iv)
(ग) – (ii)
(घ) – (i)

अधोलिखितपदेषु परिवर्तनं कुरुत –

(क) भवन्ति – लृट् लकारः
(ख) गच्छति – लड्. लकारः
(ग) चरन्ति – लोट् लकार:
(घ) सिध्यन्ति – लङ्लकारः
उत्तरम्:
(क) भविष्यन्ति,
(ख) अगच्छत्,
(ग) चरन्तु,
(घ) असिध्यन्

RBSE Class 9 Sanskrit सरसा Chapter 3 अन्य महत्वपूर्ण प्रश्नोत्तराणि

अधोलिखित प्रश्नान् संस्कृतभाषया पूर्णवाक्येन उत्तरत –

प्रश्न 1.
सुप्तस्य सिंहस्य मुखे केन प्रविशन्ति?
उत्तरम्:
सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति।

प्रश्न 2.
उदारचरितानाम् वसुधा कीदृशी भवति?
उत्तरम्:
उदारचरितानां वसुधा कुटुम्बकम् इव भवति।

प्रश्न 3.
वित्तस्य कति गतयः भवन्ति?
उत्तरम्:
वित्तस्य तिस्रः गतयः भवन्ति।

प्रश्न 4.
वित्तस्य तृतीया गतिः का भवति?
उत्तरम्:
वित्तस्य तृतीया गतिः नाशः भवति।

प्रश्न 5.
निद्रया कलहेन च केषां कालं याति?
उत्तरम्:
निद्रया कलहेन च मूर्खाणां कालं याति।

प्रश्न 6.
राजा कुत्र पूज्यते?
उत्तरम्:
राजा स्वदेशे एव पूज्यते।

प्रश्न 7.
सर्वत्र कः पूज्यते?
उत्तरम्:
सर्वत्र विद्वान् पूज्यते।

प्रश्न 8.
विद्या प्राप्तेः कति साधनानि सन्ति?
उत्तरम्:
विद्याप्राप्तेः त्रीणिसाधनानि सन्ति।

प्रश्न 9.
विद्या-प्राप्तेः प्रथमं साधन किम्?
उत्तरम्:
गुरुशुश्रूषा विद्या-प्राप्ते: प्रथमं साधनम्।

प्रश्न 10.
किमर्थम् इदम् शरीरम्?
उत्तरम्:
परोपकारार्थम् इदं शरीरम्।

स्थूलपदमाधृत्य प्रश्न-निर्माणं कुरुत –

प्रश्न 1.
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति।
उत्तरमु:
कस्य तृतीया गतिर्भवति?

प्रश्न 2.
व्यसनेने मूर्खाणां कालः गच्छति।
उत्तरम्:
केन मूर्खाणाम् कालः गच्छति?

प्रश्न 3.
विद्वान् सर्वत्र पूज्यते।
उत्तरम्:
क: सर्वत्र पूज्यते?

प्रश्न 4.
विद्याहीनाः न शोभन्ते।
उत्तरम्:
के न शोभन्ते?

प्रश्न 5.
गुरु-शुश्रूषया विद्या प्राप्यते।
उत्तरम्:
गुरु-शुश्रूषया का प्राप्यते?

पाठ- परिचय

‘सुभाषितानि’ अच्छी तरह सुन्दर कहे हुए अर्थात् सूक्त होते हैं। यह सुभाषित ही नीति वाक्य, सूक्ति, सुभाषण, सब प्रकार से उपयुक्त कथन भी कहा जाता है। इनमें जीवन के प्रेरकतत्त्व निहित होते हैं। इस पाठ में कुछ सुभाषित चुनकर दी गई हैं। इनसे अनायास ही सरलता से जीवनोपयोगी गुण विकसित होते हैं।

मूलपाठ, अन्वय, शब्दार्थ, हिन्दी- अनुवाद

♦ सप्रसङ्ग संस्कृतव्याख्या

1. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

अन्वयः- कार्याणि उद्यमेन हि सिध्यन्ति न मनोरथैः। सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति।

शब्दार्था:- कार्याणि = कर्तव्यानि करणीयानि (करने योग्य काम अर्थात् कार्य)। उद्यमेन = परिश्रमेण, श्रमेण प्रयत्नेन (परिश्रम से)। सिध्यन्ति = सम्भवन्ति (सिद्ध होते हैं।)। न मनोरथैः= न मनोऽभिलाषैः (मन में इच्छा करने से नहीं)। हि = यतः (क्योंकि)। सुप्तस्य = शयितस्य, शयनास्य (सोते हुए)। सिंहस्य = केशरिणः, (शेर के) मुखे = आनने, आस्ये (मुँह में)। मृगाः = पशवः, हरिणाः (हरिण आदि वन्यपशु)। न प्रविशन्ति = नायान्ति, प्रवेशं न कुर्वन्ति (नहीं आते, प्रवेश नहीं करते हैं)।

हिन्दी- अनुवाद- परिश्रम से ही कार्य सिद्ध होते हैं न कि मन में मात्र अभिलाषा करने से। क्योंकि सोते हुए सिंह के मुँह में (कोई) पशु प्रवेश नहीं करता। सप्रसङ्ग संस्कृतव्याख्या- – श्लोकोऽयम् अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘सुभाषितानि इति पाठात् उद्धृतः। अस्मिन् श्लोके कविः उद्यमस्य महत्त्वं वर्णयन् कथयति- करणीयानि कर्माणि परिश्रमेण प्रयत्नेन वा एव सिद्धाः भवन्ति। मनसः अभिलाषैः न भवन्ति। यतः शयितस्य केशरिणः (अपि) आनने हरिणादयः पशवः न आयान्ति प्रवेशं वा कुर्वन्ति।

♦ व्याकरणिक- बिन्दवः-

1. मनोरथैः- मन: + रथैः (विसर्ग उत्व)।
2. सुप्तस्य- सुप् + क्त प्रत्यय। पष्ठी विभक्ति एकवचनम्।
2. अयं निजः परो वेति, गणना लघुचेतसाम्।
उदार चरितानान्तु वसुधैव कुटुम्बकम्॥

अन्वयः- अयं निजः परो वा इति गणना लघुचेतसाम् भवति। उदारचरितानाम् तु वसुधा एव कुटुम्बकम् भवति।

शब्दार्था:- अयम् = एषः (यह)। निजः = स्वकीयः (अपना)। परः = परकीयः अन्यः (पराया)। इति = ऐसा। गणना = चिन्तनं, विचारम् (गिनती, विचार, सोच)। लघुचेतसाम् = संकुचितमनसाम् (छोटी सोच रखने वालोंका/की)। उदारचरितानाम्- विशालहृदयानाम् (बड़ी सोच रखने वालों की)। वसुधा एव = वसुंधरा एवं (पृथ्वी, विश्व ही)। कुटुम्बकम् = परिवारः (परिवार)।

हिन्दी- अनुवाद- यह अपना है, यह पराया है ऐसी गणना अर्थात् विचार (तो) छोटी सोच वालों का होता है। बड़ी सोच रखने वालों के लिए तो सारी धरती (संसार) ही परिवार है। सप्रसंग संस्कृतव्याख्याः- – अयं श्लोकः अस्माकं ‘सरसा इति पाठ्य- पुस्तकस्य ‘सुभाषितानि इति पाठात् उद्धृतः अस्ति। अस्मिन् श्लोके कविः भारतीयानां औदार्य प्रतिपादयति। सः कथयति- एषः (जन:) स्वकीयः आत्मीयः वी एषः च परकीयः इति विचारः तु संकुचितमनसां (जनानां भवति) विशालहृदयानां (मानवानां तु) वसुन्धरा अर्थात् अखिल विश्व एवं परिवारः भवति।

♦ व्याकरणिक- बिन्दवः-

1. परोवेति = परः + वा + इति = विसर्ग उत्व तथा गुण सन्धि।
2. गणना – गण् + ल्युट् + टाए।
3. दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति॥

अन्वयः- वित्तस्य तिस्रः गतयः भवन्ति- दानम, भोगः, नाशः (च)। यः न (तु) ददाति न (च) भुङ्क्ते तस्य तृतीया गतिः भवति।)

शब्दार्था:- वित्तस्य = धनस्य (धन की)। गतयः = उपभोगानाम् स्थितयः (गतियाँ)। भवन्ति = वर्तन्ते (होती हैं)। दानम् = परोपकाराय प्रदानम् (दान)। भोगः = उपयोगः (उपभोग) नाशः = क्षयः, विनाशः (नाश)। यः = यो जनः (जो व्यक्ति)। न ददाति = दानं न करोति; (दान नहीं करताहै।) न (च) = नैव (और नहीं)। भुङ्क्ते = उपभोगं करोति (भोगता नहीं है।) तस्य वित्तस्य = उसके धन की। तृतीया गतिः = नाशः तृतीयः परिणामः (तीसरी गति अर्थात् नाश)। भवति = वर्तते। जायते = (होती है)।

हिन्दी- अनुवाद- धन की तीन, गतियाँ होती हैं- दान, उपभोग और नाश। जो व्यक्ति न तो दान करता है और न ही उपभोग करता है, उसके धन की तीसरी गति अर्थात् नाश होता सप्रसङ्ग संस्कृत- व्याख्या- श्लोकोऽयम् अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य सुभाषितानि ‘इति पाठात् उद्धृतः अस्ति। अस्य श्लोकस्य माध्यमेन कविः भर्तृहरिः धनस्य त्रिविधं उपभोगं वर्णयति- धनस्य त्रयः उपयोगाः भवन्ति- परोपकाराय प्रदानं व्ययं वा, उपभोगः विनाशः क्षयो वा। यः जनः न तु परोपकाराय ददाति वितरति वा, न च स्वयम् उपभोगं करोति- तस्य धनस्य तृतीया स्थितिः भवति अर्थात् क्षयः जायते।

♦ व्याकरणिक बिन्दवः-

1. नाशस्तिस्त्रो गतयः = नाशः + तिस्त्रः + गतयः = (विसर्ग सत्व, विसर्ग उत्व)।
4. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।

अन्वयः- धीमताम् कालः काव्यशास्त्रविनोदेन गच्छति। मूर्खाणां च व्यसनेन निद्रया कलहेन वा।

शब्दार्थाः- धीमताम् = बुद्धिमताम्, विदुषाम् वा (बुद्धिमानों, अथवा विद्वानों का)। कालः = समयः (समय)। काव्यशास्त्र = काव्यानां शास्त्राणां च, (काव्य और शास्त्रों के)। विनोदेन = आमोदेन, मनोरञ्जनेन, (मनोविनोद से)। गच्छति = याति, व्यतीयते (व्यतीत होता है)। मूर्खाणाम् = अज्ञानिनाम् (मूख का)। व्यसनेन = दुर्व्यसनेन, दुराचरणेन, द्यूतादिभिः प्रवृत्त्याभिः (गलत आदतों, कार्यों से)। निद्रया = शयताः, प्रमादेन, आलस्येन (सोते रहने में)। कलहेन = विवादेन, (झगड़े/लड़ाई में/विवाद में)। वा = अथवा (अथवा)।

हिन्दी- अनुवाद- बुद्धिमान् लोगों का समय सत्साहित्य या काव्य शास्त्र आदि के अध्ययन में व्यतीत होता है तथा मूख अर्थात् अज्ञानियों का समय बुरी आदतों में, सोते रहने में तथा लड़ाई- झगड़े में व्यतीत होता है। सप्रसंग संस्कृतव्याख्याः- अयं श्लोकः अस्माकं ‘सरसा इति पाठ्य- पुस्तकस्य सुभाषितानि इति पाठात् उद्धृतः अस्ति। श्लोकेन अनेन कविः सज्जनानां दुर्जनानां च स्वभावस्य भेदम् उद्दिश्य कथयति- “बुद्धिमताम् विदुषां वा समय: साहित्यग्रन्थानाम् अध्ययनेन मनोरञ्जनेन वा व्यतीयते यावत्। अज्ञानिनां समयः द्यूतादिभिः व्यसनैः शयता विवादेन वा याति।”

♦ व्याकरणिक- बिन्दवः-

1. काव्यशास्त्रविनोदेन = काव्यशास्त्राणाम् विनोदेन = षष्ठी तत्पुरुष, काव्यशास्त्रैः विनोदैः = तृतीया। तत्पुरुषः।
5. विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥

अन्वयः- विद्वत्वं च नृपत्वं च तुल्यं कदाचन नैव। राजा स्वदेशे एव पूज्यते विद्वान् सर्वत्र एव पूज्यते।

शब्दार्था:- विद्वत्वं = विद्वत्ता, वैदुष्यम्, प्राज्ञत्वम् (विद्वान् होना)। नृपत्वं = राजत्वं, भूपतित्वं, (राजा होना)। कदाचन = कदाचिद् (कभी)। तुल्यम् = सदृशम्, समानम्, समः (समान)। यतः = हि (क्योंकि)। राजा = नृपः (राजा)। स्वदेशे एव= स्वस्य राज्ये एव (अपने राज्य में ही)। पूज्यते = अते (पूजा जाता है)। परञ्च = परन्तु (लेकिन)। विद्वान् = प्राज्ञः, पण्डितः (विद्वान्)। सर्वत्र एव = सर्वेषु स्थानेषु एव पूज्यते (सब जगह पूजा जाता है)।

हिन्दी- अनुवाद- विद्वान् होना और राजा होना कभी समान नहीं। (क्योंकि) राजा अपने राज्य में पूजा जाता है जबकि विद्वान् तो सब जगह पूजा जाता है। सप्रसंग संस्कृतव्याख्या- – श्लोकोऽयम् अस्माकं ‘सरसा इति पाठ्य- पुस्तकस्य ‘सुभाषितानि’ इति पाठात् उद्धृतः। श्लोकेऽस्मिन् कविः वैदुष्यं नृपत्वात् श्रेष्ठतरं प्रतिपादयति। कविः कथयति- विद्वत्वं प्राज्ञत्वं वा भूपतित्वं च कदापि सदृशौ न एव भवतः। यतः नृपस्तु स्वस्य राज्ये एव आद्रियते यावत् (परञ्च) प्राज्ञस्तु सर्वेषु स्थानेषु एव पूज्यते।

♦ व्याकरणिक- बिन्दवः-

1. विद्वत्वम् = विद्वत् + त्व (प्रत्यय)
2. नृपत्वम् = नृप + त्व (प्रत्यय)।
6. रूप- यौवन- सम्पन्नाः विशाल- कुल- सम्भवाः।
विद्या- हीनाः न शोभन्ते निर्गन्धा इव किंशुकाः॥

अन्वयः- रूप- यौवन- सम्पन्नाः, विशाल- कुल- सम्भवाः। विद्या- हीना: (जना:) निर्गन्धाः किंशुकाः इव न शोभन्ते। शब्दार्थाः- रूपम् = सौन्दर्यम् (सुन्दरता)। यौवनं च = युवावस्था च (और जवामी से)। सम्पन्नाः = परिपूर्णाः, युताः (भरपूर, युक्त) विशाल- महान्, वृहद् (विशाल, बड़े)। कुल = परिवारे, वंशे (कुल में)। सम्भवाः = प्रादुर्भूताः, उत्पन्नाः, उद्भूताः, जाताः (पैदा हुए)। विद्याहीनाः = विद्यारहिताः, अशिक्षिताः (अज्ञानी, अशिक्षित, अनपढ़)। न शोभन्ते = न सुशोभिताः भवन्ति (शोभा नहीं देते)। निर्गन्धाः = गन्धः विहीनाः (बिना खुशबू के)। किंशुकाः = पलास (टेसू)। इव = यथा (जैसे, जिस प्रकार)।

हिन्दी- अनुवाद- सुन्दरता और जवानी से युक्त होते हुए महान कुल में पैदा हुए अज्ञानी लोग उसी प्रकार शोभा नहीं देते जिस प्रकार बिना खुशबू के टेसू के फूल शोभा नहीं देते हैं। सप्रसङ्ग संस्कृतव्याख्या- अयं श्लोकः अस्माकं ‘सरसा इति पाठ्य- पुस्तकस्य ‘सुभाषितानि’ इति पाठात् उद्धृतः अस्ति। अनेन श्लोकेन कवि: विद्यायाः महत्त्वं प्रतिपादयन् कथयति- “सौन्दर्येण युवावस्थया च परिपूर्णाः वृहत्वंशे उत्पन्नाः चापि विद्या रहिताः तथैव न सुशोभिताः भवन्ति यथा गन्ध- विहीनाः किंशुकाः (किंशुकपुष्पाणि) न शोभन्ते।”

♦ व्याकरणिक- बिन्दवः-

1. रूप- यौवन- सम्पन्नाः = रूपेण यौवनेन च सम्पन्ना:- तृतीया तत्पुरुषः रूपम् च यौवनं च (द्वन्द्व:)
2. विशाल- कुलः = विशालः च असौ कुलः (कर्मधारयः)।
7. गुरु- शुश्रूषया विद्या प्रभूतेन धनेन वा।
अथवा विद्यया विद्या चतुर्थं नैव साधनम्॥

अन्वयः- विद्या गुरु- शुश्रूषया वा, प्रभूतेन धनेन, अथवा विद्या विद्यया (लभ्यते) चतुर्थं साधनम् नैव।

शब्दार्थाः- विद्या = ज्ञानम् (ज्ञान, शिक्षा)। गुरु- शुश्रूषया = आचार्यस्य, शिक्षकस्य सेवया (गुरु की सेवा से)। प्रभूतेन = पर्याप्तेन (अधिक, पर्याप्त)। धनेन = वित्तेन, धनव्ययेन (धन खर्च करने से)। विद्यया = ज्ञानेन, (लभ्यते = प्राप्यते (प्राप्त होती है।)। चतुर्थं = तुरीयं (चौथा)। साधनम् नैव = उपायम्, प्राप्ते: मार्ग (उपाय, प्राप्ति का साधन नहीं)।

हिन्दी- अनुवाद- विद्या या ज्ञान गुरु की सेवा से, पर्याप्त धन से तथा विद्या से विद्या (प्राप्त की जाती है) चौथा कोई साधन या उपाय नहीं है। सप्रसङ्ग संस्कृतव्याख्या- अयं श्लोकः अस्माकं ‘सरसा इति पाठ्य- पुस्तकस्य सुभाषितानि’ इति पाठात् उद्धृतः अस्ति। श्लोकस्य अस्य माध्यमेन कविः विद्या- प्राप्ते: त्रीणि साधनानि कथयति यत् ज्ञानं आचार्यस्य सेवया, पर्याप्तवित्तेन, अथवा ज्ञानं ज्ञानेन एव लभ्यते। अस्य प्राप्ते: तुरीयः मार्गः ने वर्तते।

♦ व्याकरणिक- बिन्दवः-

1. गुरु- शुश्रूषया = गुरोः शुश्रूषया (षष्ठी तत्पुरुष)।
2. नैव = न + एव = वृद्धि सन्धि।
8. परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥

अन्वयः- वृक्षाः परोपकाराय फलन्ति, नद्यः परोपकाराय वहन्ति। गाव: परोपकाराय दुहन्ति, (तथैव) इदम् शरीरम् अपि परोपकारार्थम् एव अस्ति।

शब्दार्थाः- वृक्षाः = तरवः (पेड़)। परोपकाराय = अन्येषां हिताय (दूसरों का भली करने के लिए)। फलन्ति = फलानि उत्पादयन्ति (फल पैदा करते हैं)। नद्यः = सरितः (नदियाँ)। वहन्ति = प्रवहन्ति, प्रवाहिताः भवन्ति। (बहती हैं)। गावः = धेनवः (गायें)। दुहन्ति = दुग्धं यच्छन्ति (दूध देती हैं।)। तथैव = तेनैव प्रकारेण (उसी प्रकार से)। इदम् = एतद् (यह)। शरीरम् = देहः (शरीर)। जातम् = पैदा हुआ है।

हिन्दी- अनुवाद- पेड़ दूसरों का भला करने के लिए फल पैदा करते हैं। नदियाँ परमार्थ के लिए ही बहती हैं। गायें दूसरों का भला करने के लिए दूध देती हैं। उसी प्रकार यह शरीर भी परमार्थ अर्थात् दूसरों के हित के लिए ही हुआ है। सप्रसंग संस्कृतव्याख्या- अयम् श्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘सुभाषितानि इति पाठात् उद्धृतः। अनेन श्लोकेन कविः प्रकृते: परोपकार- प्रवृत्तिं प्रतिपादयन् मानवम् अपि परोपकारम् प्रति प्रेरयति। कविः कथयति- “तरवः अन्येषां हिताय फलिताः भवन्ति। सरितः परमार्थाय एव प्रवहन्ति। धेनवः अन्येषां हिताय दुग्धं यच्छन्ति। (तथैव) एषः देहः अपि अन्येषाम् उपकारार्थम् एव जातः।”

♦ व्याकरणिक- बिन्दवः-

1. परोपकाराय = पर + उपकाराय (गुण सन्धिः), परेषाम् उपकाराय (षष्ठी तत्पुरुष समास:)।
2. गावः = गो शब्दस्य प्रथमा बहुवचनं पदम्।
9. येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः।
ते मृत्युलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति॥

अन्वयः- येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणोः न धर्मः। ते मृत्युलोके भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति।

शब्दार्थाः- न विद्या = ने ज्ञानम्, न शिक्षा (न विद्या है)। न तपः = ने तपस्या (न तपस्या करते हैं)। न दानम् = न पेरभ्यः ददति, न दानं कुर्वन्ति (न दान करते हैं)। न ज्ञानम् = न बोधः, न ज्ञानवन्तः सन्ति (न ज्ञानवन्त हैं)। न शीलं = न सदाचारम् आचरन्ति (न सदाचारी हैं)। न गुणः = न गुणवन्तः सन्ति (न गुणवान् हैं)। न धर्मः = न च धर्मम् अनुसरन्ति (और न धर्म का अनुसरण करते हैं)। ते (मनुष्याः) = अमी (मानवा:)। मृत्युलोके = मर्त्यलोके, संसारे (संसार में)। भुवि = धरायाम् (धरती पर)। भारभूताः = गुरुत्व युताः (बोझ बने हुए)। मनुष्यरूपेण = मानव शरीरेण (मानव शरीर में), मृगाः = पशवः (पशु)। चरन्ति = विचरन्ते (विचरण, आचरण करते हैं)।

हिन्दी- अनुवाद- जिन लोगों के पास न विद्या है, न तपस्या करते हैं, न दान करते हैं, न ज्ञानवान हैं, न सदाचारी हैं, न गुणवान हैं, न धर्म का अनुसरण करते हैं, वे लोग संसार में धरती पर बोझ बने हुए मानवशरीर धारण किए हुए (मानो) पशु ही विचरण करते हैं। सप्रसङ्ग संस्कृतव्याख्या- अयं श्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘सुभाषितानि इति पाठात् उद्धृतः। अस्मिन् श्लोके कविः ज्ञान- गुणादिविहीनं मनुष्यं पशुतुल्यं मन्यमानः कथयति- “येषां जनानां न शिक्षा, न तपस्या अस्ति, ये न दानं कुर्वन्ति, न ज्ञानवन्तः भवन्ति, न सदाचरणम् आचरन्ति न गुणवन्तः सन्ति, न च धर्मम् अनुसरन्ति अमी मानवा: मर्त्यलोके (संसारे) धरायां भारेण युताः (सन्तः) एवं मानवरूपेण शरीरेण वा पशवः एव विचरन्ति।”

♦ व्याकरणिक- बिन्दवः-

1. विद्या = विद् + ल्यप् + टाए।
2. दानम् = दा + ल्युट् नपुंसकलिंग एकवचनम्।
10. साहित्य- संगीत- कला- विहीनः साक्षात्पशुः पुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानः, तद्भागधेयं परमं पशूनाम्॥

अन्वयः- साहित्य- सङ्गीत- कला- विहीनः, साक्षात् पशुः – पुच्छविषाणहीनः। तृणं न खादन् अपि जीवमानः तत् पशूनाम् परमं भागधेयम्।

शब्दार्थाः- साहित्यं = काव्यम् (साहित्य)। संगीतं = गायनम्, सङ्गीतम् (संगीत)। पुच्छ = लाङ्ग्लम्, बालधि: (पूछ)। विषाण = शृङ्ग (सींग)। हीनः = विहीनः, रहित:- वंचित: (रहित)। साक्षात् = प्रत्यक्षम् (साक्षात्)। पशुः = मृगः, जन्तु (जानवर)। तृणं न खादन्नपि = असौ घासं न अदन् अपि (वह घास नहीं खाता हुआ भी) जीवमानः = जीवितः (जीवित रहता है)। तद् तु = अदः तु (वह तो)। पशूनाम् = प्राणिनाम्, मृगाणाम्, जन्तूनाम् (पशुओं का)। परमम् = महत्, अत्यधिकम् (बहुत अधिक)। भागधेयम् = सौभाग्यम् (सौभाग्य) है।

हिन्दी- अनुवाद- साहित्य संगीत (गीत, वाद्य नृत्य) और कला से रहित (मनुष्य) बिना पूँछ सींग का साक्षात् जानवर है। (वह) घास नहीं खाता हुआ भी जीवित रहता है वह तो पशुओं
का बहुत अधिक सौभाग्य है। . सप्रसङ्ग संस्कृतव्याख्या- अयं श्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘सुभाषितानि’ इति पाठात् उधृतः अस्ति। अस्य श्लोकस्य माध्यमेन कवि: गुणहीनमानवं पशुवत् मन्यते। सः कथयति काव्य, सङ्गीत- कला- रहितः मानवः लाङ्गल- शृङ्गरहितः मृगः इव अस्ति। असौ घासमपि न अदन्नपि जीवनं धारयति, अदस्तु मृगाणां महत् सौभाग्यम् अस्ति।

♦ व्याकरणक- बिन्दवः-

1. साहित्यम् = हितेन सहितम् (अव्ययीभाव समासः)।
2. कलाविहीनः = कलायाः विहीन। (पञ्चमी तत्पुरुष:)।

All Chapter RBSE Solutions For Class 9 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 9 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 9 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published.