RBSE Solutions for Class 9 Sanskrit सरसा Chapter 6 गीतामृतम्

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 9 Sanskrit सरसा Chapter 6 गीतामृतम् सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 9 Sanskrit सरसा Chapter 6 गीतामृतम् pdf Download करे| RBSE solutions for Class 9 Sanskrit सरसा Chapter 6 गीतामृतम् notes will help you.

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 6 गीतामृतम्

RBSE Class 9 Sanskrit सरसा Chapter 6 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि

RBSE Class 9 Sanskrit सरसा Chapter 6 वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
भगवद्गीता महाभारतस्य कस्मिन् पर्वणि प्राप्यते
(क) वन-पर्वणि
(ख) उद्योग-पर्वणि
(ग) भीष्म-पर्वणि
(घ) द्रोण-पर्वणि
उत्तराणि:
(ग) भीष्म-पर्वणि

प्रश्न 2.
कस्मात् सम्मोहः भवति
(क) कामात्
(ख) क्रोधात्
(ग) लोभात्
(घ) मदात्।
उत्तराणि:
(ख) क्रोधात्

प्रश्न 3.
भूतानि कस्मात् भवन्ति
(क) अन्नात्
(ख) यज्ञात्
(ग) पर्जन्यात्
(घ) दानात्।
उत्तराणि:
(क) अन्नात्

प्रश्न 4.
कौरवाणां पाण्डवानां च मध्ये युद्धं कुत्र अभवत्
(क) हस्तिनापुरे
(ख) पाटलिपुत्रे
(ग) इन्द्रप्रस्थे
(घ) कुरुक्षेत्रे।
उत्तराणि:
(घ) कुरुक्षेत्रे।

RBSE Class 9 Sanskrit सरसा Chapter 6 लघूत्तरात्मक प्रश्नाः

(क) योगः किम् उच्यते?
(ख) बुद्धिनाशात् किम् भवति?
(ग) पर्जन्यः कस्मात् भवति?
(घ) कौन्तेयः भारतः, धनञ्जयः च कस्य पर्यायाः सन्ति?
उत्तरम्:
(क) योगः समत्वम् उच्यते।
(ख) बुद्धिनाशात् प्रणश्यति।
(ग) पर्जन्यः यज्ञात् भवति।
(घ) कौन्तेयः भारतः, धनञ्जयः च अर्जुनस्य पर्यायाः सन्ति।

3. अधोलिखितश्लोकयोः हिन्दीभाषायाम् अनुवादः करणीयः।

(क) वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।।
अनुवाद – जिस प्रकार मनुष्य फटे-पुराने कपड़ों को छोड़कर नये दूसरे (कपड़ों) को धारण करता है, उसी प्रकारे देही (आत्मा) (भी) जीर्ण (जर्जर) शरीरों को छोड़कर नये अन्य (दूसरे) शरीरों को प्राप्त करती है।

(ख) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि।
अनुवाद – (हे अर्जुन) तुम्हारा अधिकार (केवल) कर्म में ही है। फलों (फल की प्राप्ति) में कभी नहीं। (अतः तुम) कर्म। के फल का कारण मत बनो (और) तुम्हारी आसक्ति कर्म न करने में (भी) न हो।

4. सन्धि-विच्छेदं कुरुत|
उत्तरम्:
(क) आगमापायिनोऽनित्यास्तांस्तितिक्षस्व = आगमापायिनः + अनित्याः + तान् + तितिक्षस्व।
(ख) शाश्वतोऽयम् = शाश्वतः + अयम्।
(ग) अपरिहार्येऽथे = अपरिहार्ये + अर्थे।
(घ) नरोऽपराणि = नरः + अपराणि।

5. प्रकृतिप्रत्ययविभागं कुरुत –
उत्तरम्:
(क) भूत्वा = भू + क्त्वा
(ख) शोचितुम् = शुच् + तुमुन्
(ग) त्यक्त्वा = त्यज् + क्त्वा
(घ) भूतः = भू + क्त
(ङ) हन्यमाने = हन् + शानच्
(च) विहाय = वि + हा + ल्यप्

6. अधोलिखितश्लोकस्य संस्कृतभाषायाम् व्याख्या क्रियताम् –
क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशा-बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥
उत्तरम्:
व्याख्या – प्रस्तुते श्लोके इदम् वर्णितम् यत् क्रोधः मनुष्यस्य अजेय शत्रुः अस्ति। अयम् नरस्य जीवनम् विनश्यति। कुरुक्षेत्रे कौरवपाण्डवानाम् युद्धम् प्राचलत्। तयोः मध्ये ईष्र्यायाः क्रोधस्य च ज्वाला प्रज्वलिता आसीत्। श्रीकृष्णः अर्जुनम् उपादेशयत् यत् “क्रोधात् अज्ञानता भवति। विवेकः नष्टः भवति। तस्मात् स्मरणशक्त्याः लोपः भवति। स्मरणशक्त्याम् लोपे जाते बुद्धेः विनाशः भवति। एवम् बुद्धेः नाशात् प्राणानाम् अपि विनाशः भवति। अत्रस्मिन् श्लोके कविना क्रोधम्, मोहम्, स्मृतिविभ्रमम्, बुद्धेः अभावम् च शारीरिकम् विकारम् कथ्यते।

7. अधोलिखितपदेषु धातु-लकार-पुरुष-वचनानां निर्देशं कुरुत –
(क) गृह्णाति (ख) अर्हसि (ग) अवाप्स्यसि (घ) संभवामि (ङ) सृजामि।
उत्तरम्:
RBSE Solutions for Class 9 Sanskrit सरसा Chapter 6 गीतामृतम् 1

8. क-खण्डस्य ख-खण्डेन सह मेलनं कुरुत।
RBSE Solutions for Class 9 Sanskrit सरसा Chapter 6 गीतामृतम् 2
उत्तरम्:
RBSE Solutions for Class 9 Sanskrit सरसा Chapter 6 गीतामृतम् 3

9. अधोलिखितानि अव्ययपदानि प्रयुज्य संस्कृत भाषया वाक्यरचनां कुरुत।
उत्तरम्
(क) यदा – यदा त्वम् गमिष्यसि तदा अहम् पठिष्यामि।
(ख) तदा – यदा बालकः रोदिष्यति तदा माता तम् दुग्धम्। दास्यति।
(ग) कदा – रामः प्रयागम् कदा गमिष्यति?
(घ) यथा – यथा त्वम् अध्ययने प्रवीणो असि तथैव मोहन: अपि क्रीडायाम् प्रवीणः अस्ति।
(ङ) कदाचन – कर्माणि एव मनुष्यस्य अधिकारः फलेषु न कदाचन।

RBSE Class 9 Sanskrit सरसा Chapter 6 अन्य महत्वपूर्ण प्रश्नोत्तराणि

अधोलिखित प्रश्नान् संस्कृत भाषया पूर्णवाक्येन उत्तरत –

प्रश्न 1.
कस्य जन्म ध्रुवम्?
उत्तरम्:
मृतस्य जन्म ध्रुवम्।

प्रश्न 2.
कस्मिन् शोचितुं न अर्हसि?
उत्तरम्:
अपरिहार्ये अर्थे न शोचितुमर्हसि।

प्रश्न 3.
मानवस्याधिकार कस्मिन्नास्ति?
उत्तरम्:
कर्मणि एव मानवस्य अधिकारः भवति।

प्रश्न 4.
फलेच्छायाः विषये गीता किं कथयति?
उत्तरम्:
फलप्राप्ति: मानवस्याधिकारक्षेत्रे नास्ति।

प्रश्न 5.
योगः किम् उच्यते?
उत्तरम् समत्वं योग उच्यते।

प्रश्न 6.
सम्मोहः कस्मात् जायते?
उत्तरम्:
सम्मोहः क्रोधात् जायते।

प्रश्न 7.
सम्मोहात् किं भवति?
उत्तरम्:
सम्मोहात् स्मृतिविभ्रमः भवति।

प्रश्न 8.
बुद्धिनाशः कथं भवति?
उत्तरम्:
बुद्धिनाशः स्मृतिभ्रंशात् भवति।

प्रश्न 9.
बुद्धिनाशात् किं भवति?
उत्तरम्:
बुद्धिनाशात् मानवः नश्यति।

प्रश्न 10.
यज्ञः कस्मात् उद्भवति?
उत्तरम्:
यज्ञः कर्मणः उद्भवति।

स्थूलपदान् आधृत्य प्रश्ननिर्माणं कुरुत –

प्रश्न 1.
अहं साधूनां परित्राणाय अवतरामि।
उत्तरम्:
अहं केषां परित्राणाय अवतरामि?

प्रश्न 2.
श्रीकृष्णः धर्मसंस्थापनार्थाय सम्भवति।
उत्तरम्:
श्रीकृष्णः केन प्रयोजनेन सम्भवति?

प्रश्न 3.
अन्नाद् भवन्ति भूतानि।
उत्तरम्:
कस्मात् भवन्ति भूतानि?

प्रश्न 4.
पर्जन्यात् अन्नम् सम्भवति।
उत्तरम्:
प र्जन्यात् किं सम्भवति?

प्रश्न 5.
यज्ञात् पर्जन्यः भवति।
उत्तरम्:
पर्जन्य: कस्मात् भवति?

पाठ परिचय

प्रस्तुत पाठ वेदव्यास रचित श्रीमद्भगवद्गीता से लिया गया है। यह भगवद्गीता महाभारत (नामक) ग्रन्थ के भीष्म पर्व में प्राप्त होती है। कर्मयोग गीता का मूलभूत उपदेश है। निष्काम कर्म का उपदेश इस पाठ में संकलित है। मूलपाठ, अन्वय, शब्दार्थ, हिन्दी अनुवाद एवं।

सप्रसङ्ग संस्कृत व्याख्या

1. मात्रास्पर्शास्तु कौन्तेय! शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तस्तितिक्षस्व भारत।

अन्वयः-(हे) कौन्तेय ! शीतोष्णसुखदुःखदाः मात्रास्पर्शाः तु आगमापायिनः अनित्याः। (हे) भारत! तान् तितिक्षस्व।

शब्दार्थाः-मात्रास्पर्शाः = इन्द्रियैः सह विषयसंयोग: (इन्द्रियों के साथ विषयों का संयोग)। कौन्तेय! = हे कुन्तीपुत्र (हे अर्जुन)। आगमापायिनः = (अनित्यः, विनाशी)। अनित्याः = विनाशशीला: (विनाश को प्राप्त होने वाले)। तान् = तान् तितिक्षस्व = सहस्व (सहन करो)।

हिन्दी-अनुवाद-हे कौन्तेय! शीत, गर्मी, सुख (और) दु:ख को देने वाले इन्द्रिय और विषयों के संयोग तो विनाशशील हैं। हे भारत! (अर्थात् अर्जुन) (तू) उनको सहन कर। सप्रसङ्ग संस्कृत-व्याख्या-प्रस्तुत श्लोकः अस्माकम्। ‘सरसा’ इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ नाम्नः पाठात् उद्धृतः अस्ति। अस्ये रचनाकार: महाकवि वेदव्यासः अस्ति। महाभारत काले युद्ध-क्षेत्रे अर्जुनः युद्धाय तत्परान् गुरुजनान्, मातुलान्, भ्रातृन् च दृष्ट्वा मोहग्रस्तः अभवत्। तदा सारथिः श्रीकृष्णः तम् उपदेशयत् अकथयत् च-हे कुन्तीपुत्र अर्जुन। त्वम् मोहगतिम् मा गमय। अस्मिन् परिवर्तनशील संसारे सर्वे विषयविकाराः, द्वन्द्वाः च अनित्याः सन्ति। त्वम् तान् सहस्व। प्रकृतिप्रदत्ता: सर्वे शीतोष्णसुखदुखदाः आगमापायिनः अनित्याः च सन्ति। एवम् त्वम् सर्वकारकेषु समो भव।

♦ व्याकरणिक-बिन्दवः-

1. शीतोष्णसुखदुखदाः = शीतश्च, उष्णश्च, सुखश्च, दुखश्च च (द्वन्द्व समासः) तेषाम् दातारः इति।
2. तितिक्षस्व = तिज् धातुः लोट् लकार मध्यमपुरुष एकवचन तितिक्षस्व = रूप-इति सिध्यते।

2. न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥

अन्वयः-अयं (आत्मा) कदाचित् न जायते वा न म्रियते वा न (अयम्) भूत्वा भूयः भविता, अयम् अजः, नित्यः शाश्वतः, पुराण: शरीरे हन्यमाने न हन्यते।

शब्दार्थाः—जायते = उत्पद्यते (पैदा होता है)। म्रियते = हन्यते (मरता है)। भविता = संभाविता (होने वाला)। अजः = न जायते (अजन्मा)। शाश्वतः = सनातनः (शाश्वत)। कदाचिन् = कदाचन (कभी)। हन्यमाने = म्रियमाणे (मरी हुई)। भूयः = पुनः (फिर)। पुराणः = प्राचीन: पुरातन (पुराना)। अयम् = एषः (यह)।

हिन्दी-अनुवाद-यह (आत्मा) न कभी पैदा होती है अथवा (न) मरती है, न (यह) पुन: (पैदा) होकर (पुनः) पैदा होने वाली है। यह अजन्मा, नित्य, शाश्वत, पुरातन (है) (तथा) शरीर के मारे जाने पर भी यह मारी नहीं जाती। सप्रसङ्ग संस्कृत-व्याख्या-प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य गीतामृतम्’ नाम्नः पाठात् उद्धृतः अस्ति। अस्य रचयिता महाकविः वेदव्यासः अस्ति। प्रस्तुत पद्ये कविः ‘आत्मतत्वम् अजः शाश्वतः, नित्यः, पुराणः इति कथयति। तद्नुसारेण आत्मा अविकारी अस्ति। अस्मिन् श्लोके महाकविः वेदव्यासः कथयति यत् अस्माकम् शरीरे विराजमानः अयम् आत्मा परमात्मनः अंशः अस्ति। अयम् जन्ममृत्योः चक्रात् पृथक् अस्ति। आत्मा अजन्मा अस्ति अर्थात् अस्मिन् संसारे अयम् कदापि जन्म न गृह्णाति। अस्य विनाशः न भवति। विनाशः तु शरीरस्य एव भवति। अयम्-आत्मसत्ता-तु सदैव अपरिवर्तनीयः एकरसः भवति। तथा च अयम् आत्मा सृष्टे: प्रारब्धात् एव अस्तित्वयुक्तः अस्ति। अस्मिन् हन्यमाने अर्थात् परिवर्तनशीले शरीरे कदापि न क्षीणो भवति। कवेः अनुसारेण इदम् शरीरम् एव जन्म गृह्णाति मृत्युम् आप्नोति च।

♦ व्याकरणिक-बिन्दवः-

1. जायते = जन् धातो: आत्म०-इति जायते लट्लकार प्रथम पुरुषस्य एकवचने सिध्यते।
2. म्रियते = ‘मृ’ धातोः आत्मनेपदी रूप-म्रियते लट्लकार प्रथमपुरुषस्य एकवचने सिध्यते।

3. वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही ॥

अन्वयः-यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृहणाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति।

शब्दार्था:-जीर्णानि = जर्जराणि (पुराने)। वासांसि = वस्त्राणि (वस्त्रों को)। विहाय = परित्यज्य (त्याग कर)। संयाति = प्राप्नोति (प्राप्त होता है)। देही = जीवात्मा (जीवात्मा)। अपराणि = अन्यानि (दूसरे)। यथा = यादृशम् (जैसे)। तथा = तादृशम् (वैसे)। शरीराणि = देहानि (शरीर)। नरः = मनुष्यः (मानव)। गृह्णाति = धारयति ( धारण करता है)। नवानि = नूतनानि (नये)।

हिन्दी-अनुवाद-जैसे मनुष्य जर्जर ‘ (पुराने) वस्त्रों को छोड़कर अन्य नये (वस्त्रों) को धारण करता है, उसी प्रकार जीवात्मा जर्जर शरीरों को त्यागकर दूसरे नये (शरीरों) को धारण करती है। सप्रसङ्ग संस्कृत-व्याख्याः-प्रस्तुतः श्लोकः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य गीतामृतम्’ नाम्नः शीर्षकात् अवतरितः अस्ति। अस्मिन् श्लोके कविः कथयति यत् अयम् जीवात्मा भूयो-भूयो जन्म गृह्णाति भूयो-भूयो मृत्युं प्राप्नोति च। मूलत: अयम् श्लोकः महाभारतात् उद्धृतः अस्ति। अस्मिन् श्लोके वेदव्यासः जीवात्मनः नित्यतां शरीरस्य अनित्यतां च अवर्णयत्। तद्नुसारेण येन प्रकारेण मनुष्य: जर्जराणि वस्त्राणि परित्यज्य नवानि अन्यानि वस्त्राणि धारयति, तेनैव प्रकारेण पार्थिवशरीरे वर्तमान: जीवात्मा अपि पार्थिव शरीरे क्षीणे जाते अपराणि नवानि शरीराणि धारयति।

♦ व्याकरणिक-बिन्दवः-

1. ‘गृह्णाति’-ग्रह् धातो: लट्लकारस्य प्रथम पुरुषस्य एकवचने गृह्णाति-इति पदम् सिध्यते।
2. संयाति-सम् + या-परस्मैपदी–संयाति इति सिध्यते।
4. जातस्य हि ध्रुवो मृत्युधुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥

अन्वयः-हि जातस्य ध्रुवः मृत्युः च मृतस्य ध्रुवं जन्म, तस्मात् त्वम् अपरिहार्ये अर्थे शोचितुं न अर्हसि।

शब्दार्था:-ध्रुवः = निश्चित: (निश्चित)। अपरिहार्ये = निरुपाये (उपायविहीन)। शोचितुम् = चिन्तितुम् (चिंता करने के लिये)। मृत्युः = अवसानः जीवनस्य (जीवन के अन्त)। जातस्य = लब्धजीवनस्य (पैदा हुए की)। अर्हसि = योग्योऽसि (योग्य हो)। हि = यतः (क्योंकि)। तस्मात् = अतएव, अस्मात् कारणात् (इस कारण से)।

हिन्दी-अनुवाद क्योंकि पैदा हुए की मृत्यु निश्चित (है) और मरे हुए का जन्म निश्चित (है)। इसलिये तुम उपाय विहीन अर्थ के विषय में शोक करने योग्य नहीं हो। सप्रसङ्ग संस्कृत-व्याख्या-प्रस्तुतश्लोकः अस्माकम् ‘सरसा’ इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ नाम्नः पाठात् उद्धृतः अस्ति। अस्य रचयिता महाकविः वेदव्यासः अस्ति। अस्मिन् । पद्ये कथितं यत् जातस्य मृत्युः मृतस्य च जन्म ध्रुवम् अस्ति। धर्मक्षेत्रे कुरुक्षेत्रे कुन्तीपुत्रोर्जुनः युद्धाय प्रवृत्तान् सुहृदजनान्। दृष्ट्वा मोहग्रस्तः अभवत्। युद्धे सम्भावी विनाशं आकल्य अर्जुनः शोकातुरः अभवत्। तदा योगेश्वरः श्रीकृष्णः तम् प्रति उपदिशन् कथयति यत् हे कौन्तेय! अस्मिन् परिवर्तनशीलसंसारे जातस्य जीवस्य मृत्युः निश्चित: मृतस्य जीवस्य च जन्म अपि सुनिश्चितं अस्ति। एतदर्थ त्वम् शोकं कर्तुम् न अर्हसि।

♦ व्याकरणिक-बिन्दवः-

1. शोचितुम्-शुच् + तुमुन् प्रत्यय।
2. अर्हसि = अधातो लट्लकार मध्य पुरुष एकवचने रूपं सिध्यते।

5. सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥

अन्वयः-सुखदु:खे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व, एवं (कुर्वन्तं) पापम् न अवाप्स्यसि।

शब्दार्थाः-सुखः = आमोदः (प्रसन्नता भरा भाव)। दुःख = कष्टः (कष्ट)। लाभः = प्राप्तिः (प्राप्ति)। अलाभः = हानिः (नुकसान)। पराजयः = हारः (हारे जाना)। एवम् = ईदृशम् (इस प्रकार)। पापम् = दोषम् (दोष, कलंक)। समे = तुल्ये (समान)। युज्यस्व = उद्योगं कुरुष्व (प्रयत्न करो)। अवाप्स्यसि = लप्स्यसि, प्राप्स्यसि (प्राप्त करोगें)।

हिन्दी-अनुवाद- सुख-दु:ख, लाभ-हांनि, जय-पराजय में समान बनकर; तत्पश्चात् युद्ध के लिये प्रयत्न करो। इस प्रकार (तुम) पाप को प्राप्त नहीं होओगे। सप्रसङ्ग संस्कृत-व्याख्याः- उपर्युक्तः श्लोकः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ नाम्नः शीर्षकात् उद्धृतः अस्ति। अस्मिन् श्लोके कविना वर्णित: यत् मनुष्यः अनेकेषु द्वन्द्वेषु समो भूत्वा वर्तयेत्। युद्ध क्षेत्रे श्रीकृष्णः अर्जुनम् प्रति उपदिशति यत् हे भारत! त्वम् मोहं न प्राप्नुहि। सुखे-दुखे च, हिते-अहिते च, जये-पराजये चे समरसो भूत्वा युद्धम् कुरुष्व। यतः अस्मिन् संसारे सर्वकार्याणां कारणम् पृथक्-पृथक् अस्ति। अतो त्वम् निर्मोही भूत्वा अस्मिन् धर्म-युद्धे युज्यस्व। एवम् कुर्वन् त्वम् पापम् ने लप्स्यसि।

♦ व्याकरणिक-बिन्दवः-

1. सुख-दुखे = सुखं च दुखं च; लाभालाभौ = लाभं च अलाभं च; जयाजयौ = जयः च पराजयः च = द्वन्द्व समासः।
2. युज्यस्व = युज् धातोः, मध्यमपुरुष एकवचने – युज्यस्व रूपं सिध्यते।

6. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥

अन्वयः-ते कर्मणि एव अधिकारः फलेषु कदाचन मा, कर्मफलहेतुः मां भूः, ते अकर्मणि संग: मा अस्तु।

शब्दार्थाः-कर्मणि एव = आचरणे एव (आचरण में ही)। ते = तव (तुम्हारा)। फलेषु = परिणामेषु (परिणाम में)। हेतुः = कारण: (निमित्त)। अकर्मणि = अनाचरणे (काम नकरने में)। कदाचन = कदाचित् (कभी)। मा = नैव (नहीं)। भूः = भवेः (हो)। संगः = प्रीतिः (आसक्ति)।

हिन्दी-अनुवाद-कर्म में ही तुम्हारा अधिकार है, फलों में कभी नहीं। कर्म के फल का कारण मत बनो। कर्म न करने में तुम्हारी आसक्ति न हो।

सप्रसङ्ग संस्कृत-व्याख्याः-प्रस्तुतपद्यांशः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ नाम्नः पाठात् उद्धृतोऽस्ति। अस्मिन् पद्ये कविना कथितः यत् नरस्य अधिकारः एकमात्रकर्मसंचालने एव अस्ति। धार्मिके युद्धक्षेत्रे सारथिः भगवान् श्रीकृष्णः तम् अर्जुनम् अशिक्षयत् यत् हे कौन्तेय! “तव अधिकार:! एकमात्र कर्मणि एव अस्ति। कर्मणः फले कदापि न। कार्यं कर्तुम् त्वम् समर्थोऽसि, परन्तु तस्य फलप्राप्ति विषये ते किञ्चिन्मात्र अधिकारः न अस्ति। अनेन सह एव कर्मणः अप्रतिपादने तव आसक्तिः न भवेत्।”

♦ व्याकरणिक बिन्दवः-

1.’अस्तु’ अस् धातोः लोट् लकारे प्रथमपुरुष एकवचने ‘अस्तु’ इति रूपं सिध्यते।
2. कर्मण्येवाधिकारस्ते-कर्मणि + एव + अधिकारः + ते। (यण, दीर्घ तथा विसर्ग सत्व सन्धि)।

7. योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जयः।
सिद्धयसिद्धयोः समो भूत्वी समत्वं योग उच्यते॥

अन्वयः-धनञ्जय! सङ्गं त्यक्त्वा सिद्ध्यसिद्धयोः समो भूत्वी योगस्थः (सन्) कर्माणि कुरु, समत्वं योगः उच्यते। शब्दार्था:-योग = संग्रह: (जोड़ना, संग्रह करना)। संगम् = आसक्तिः (लगाव)। त्यक्त्वा = परित्यज्य (छोड़कर)। समो = समानता, समत्वम् (समान)। योगस्थः = एकाग्र भूत्वा (एकाग्र होकर)। कुरु = आचर (आचरण करो)। धनञ्जय! = अर्जुन! (हे अर्जुन)। समत्वम् = समता, निज-परभावस्यशून्यत्वम् (समता)। उच्यते = कथ्यते (कहा जाता है)।

हिन्दी-अनुवाद-हे धनञ्जय! आसक्ति को छोड़कर सफलता (और) असफलता में समान होकर योग में स्थित (हुए की तरह) कर्मों को करो। (क्योंकि) समता (का भाव ही) योग कहा जाता है।

सप्रसङ्ग संस्कृत-व्याख्याः- प्रस्तुत पद्यांशः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ इति शीर्षकात् उद्धतः अस्ति। प्रस्तुत पद्यांशे एकाग्रचित्त भूत्वा सिद्ध्यसिद्धयोः समानी भूत्वा कर्म कर्तुम् कथितः। अयम् गीतामृतं शीर्षकं महाभारतस्य भीष्मपर्वणः गृहीतः अस्ति। अस्मिन् श्लोके अर्जुनम् प्रति श्रीकृष्णः निष्काम-कर्मयोगस्य उपदेशम् प्रदत्तवान्। सेनयोः उभयोः मध्येस्थितः कुन्ती-पुत्रः अर्जुनः मोह-ग्रस्तो अभवत्। सः युद्धात् विरत: निराशो भूत्वा रथस्य पृष्ठभागे अवस्थितः। सारथिः केशवः तम् अकथयत्-हे पार्थ! “त्वम् मोहग्रस्तो निराशो वा मा भूः’। “अस्मिन् मृत्युलोके कर्माणाम् द्वन्द्वः अति गम्भीरो अस्ति।” “सिद्ध्यसिद्ध्योः समानी भूत्वा त्वम् कर्म कुरु अर्थात् युद्धाय युज्यस्व।” आसक्तिम् परित्यज्य उत्तिष्ठ। योगिनाम् इव युद्धम् कुरु। यतः अस्मिन् संसारे न कोऽपि निजः न कोऽपि परो वा। अयमेव भावः योगः कथ्यते।

♦ व्याकरणिक बिन्दवः-

1. कुरु = कृ धातोः लोट्लकारे मध्यम पुरुष एकवचने ‘कुरु’ इतिपदं सिध्यते।
2. भूत्वा = भू + क्त्वा।

8. क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥

अन्वयः-क्रोधात् सम्मोहः भवति। सम्मोहात् स्मृतिविभ्रम: (भवति) स्मृतिभ्रंशात् बुद्धिनाशः (जायते) बुद्धिनाशात् प्रणश्यति।

शब्दार्थाः-सम्मोहः = मूढ़भावः (विवेकहीन)। प्रणश्यति = प्रकर्षेण नश्यति (नष्ट हो जाता है)। क्रोधात् = आक्रोधात् (क्रोध से)। सम्मोहात् = मूढ़भावात् (मूढ़ भाव से)। स्मृतिविभ्रमः = स्मरणशक्तेः भ्रान्ति (स्मरणशक्ति की भ्रान्ति पैदा होना)। स्मृतिभ्रंशात् = स्मरणशक्त्याः विनाशात् (स्मरण शक्ति के विनाश से)। बुद्धिनाशः = चिन्तनशक्त्या: ह्रासः (चिन्तन शक्ति का विनाश)।

हिन्दी-अनुवाद-क्रोध से अविवेक (पैदा) होता है, अविवेक से स्मरण शक्ति भ्रान्त (होती है), स्मरणशक्ति की भ्रान्ति से चिन्तन शक्ति नष्ट (हो जाती है)। चिन्तनशक्ति के नष्ट होने से प्राणों का नाश हो जाता है। अर्थात् मनुष्य स्वयं नष्ट हो जाता है।

सप्रसङ्ग संस्कृत-व्याख्याः-प्रस्तुत पद्यांशः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ शीर्षकात् अवतरितः अस्ति। अस्मिन् श्लोके वर्णित: यत् क्रोधः एव सर्वविनाशानाम् कारणम् अस्ति। अस्मिन् पद्यखण्डे श्रीकृष्णः अकथयत्, “हे पार्थ! मनुष्यः क्रोधी न भवेत्। हि क्रोधः सर्वपापानाम् अनिष्टानाम् च कारणम् भवति। क्रोधेन हृदये अविवेको जायते। अविवेकात् स्मरण शक्तिः विनश्यति। स्मरणशक्त्याम् विनष्टे जाते चिन्तनशक्तिः लुप्तः भवति। चिन्तनशक्त्याम् लुप्ते जाते प्राणानाम् विनाशः भवति।

♦ व्याकरणिक-बिन्दवः-

1. भवति = भ्वादिगण, परस्मैपदी ‘भू’ धातोः लट्लकारे प्रथम पुरुष एकवचने भवति इति रूपं सिध्यते।
2. क्रोधात् = क्रुध् + घञ् इति क्रोधः, पंचमी विभक्ति एकवचने क्रोधात् इति रूपं सिध्यते।

9. अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥

अन्वयः-भूतानि अन्नात् भवन्ति, अन्नसम्भवः पर्जन्यात्, पर्जन्यः यज्ञात्, भवति यज्ञः कर्मसमुद्भवः।

शब्दार्थाः-भूतानि = प्राणिनः (समस्त प्राणी, जीव)। पर्जन्यात् = वृष्टेः (वर्षा से, बादल से)। अन्नसम्भवः = प्राशोत्पन्नः (भोजन, आहार पैदा होता है)। यज्ञात् = हवनात् (हवन से, आहुति से)। भवति = सम्पादयति (सम्पादित होता है)। कर्मसमुद्भवः = आचरणेन उत्पन्नः (आचरण से उत्पन्न)।

हिन्दी-अनुवाद-समस्त प्राणी अन्न (भोजन-आहार) से (पैदा) होते हैं, अन्न ( भोजन सामग्री) वर्षा से (पैदा होता है), वर्षा यज्ञ (हवन आदि) से (और) यज्ञ कर्म (सत् आचरण) से पैदा होते हैं।

सप्रसङ्ग संस्कृत-व्याख्याः-प्रस्तुत श्लोकः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य गीतामृतम्’ नाम्नः पाठात् अवतरितोऽस्ति। प्रस्तुत पद्यखण्डे महाकविः कथयति यत् अन्नमात्रेण एव इयं सकला सृष्टिः संचालिता स्थिरा चास्ति। धर्मक्षेत्रे कुरुक्षेत्रे सारथिः श्रीकृष्णः अर्जुनम् सङ्केतमकरोत् यत् अस्याः सम्पूर्ण सृष्टे: आधारः अन्नम् एव अस्ति। समस्त प्राणिनाम् उत्पत्ति: अन्नात् एव भवति। अन्न: वृष्टे: सम्भवति वृष्टिः च मेघात् भवति। पर्जन्य: यज्ञात् भवति। अत्र यज्ञस्य तात्पर्यः सत्कर्मणायुक्त: कार्य: सत्कर्मणः अभावेन प्राकृतिक शक्तयः मानवानाम् सहयोगम् न कुर्वन्ति।

♦ व्याकरणिक-बिन्दवः-

1. उद्भवः = (पु०) (उद् + भू + अप्) इति = उत्पत्ति।
2. सम्भवः = सम् + भू + अपादाने अप्—इति = उत्पन्न।

10. यदा यदा हि धर्मस्य ग्लानिर्भवति भारत!
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥

अन्वयः-भारत! यदा यदा धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानं भवति, तदा तदा हि अहम् आत्मानम् सृजामि।

शब्दार्था:-भारत! = हे भरतपुत्र! (हे अर्जुन!)। अभ्युत्थानम् = वृद्धिः, उत्थानम् (बढ़ जाना)। ग्लानिः = हानि, क्षतिः नाश।’ धर्मस्य = नैतिक-धार्मिक व्यवस्थायाः (नैतिक और धार्मिक व्यवस्था का)। भवति = सम्मुखं आयाति जायते (सामने आता है)। तदा = तर्हि (तब)। हि = निश्चित रूपेण यतः, एव (निश्चित रूप से क्योंकि)। सृजामि = रचयामि अवतरामि (रचता हूँ)। यदा-यदा = कालान्तरे-यथाक्रमेण समयेन (समय के अन्तराल में, समय के बीतने के साथ)। आत्मानम् = निज स्वरूपम् (अपने स्वरूप को)। अहम् = निर्गुणः ब्रह्म (निराकार ब्रह्म)।

हिन्दी-अनुवाद-हे भरतवंशी (अर्जुन) जब-जब धर्म की हानि (विनाश) (और) अधर्म की वृद्धि होती है, तब-तब मैं निश्चित् रूप से अपने स्वरूप को रचता हूँ।

सप्रसङ्ग संस्कृत-व्याख्या-प्रस्तुतः श्लोकः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ नाम्नः पाठात् उद्धृतः अस्ति। अस्मिन् श्लोके वर्णितं यत् यदा नैतिक मूल्यानाम् पतनं भवति तदा परमात्मा निज स्वरूपम् मानवीयरूपे प्रकटयति। धर्म क्षेत्रे कुरुक्षेत्रे भगवान् श्रीकृष्णः कुन्तीपुत्रं अर्जुनं अकथयत्, “हे अर्जुन त्वम् चिन्ताम् मा कुरु। अहम् निर्विकारो ब्रह्म-अस्मि। सूक्ष्मरूपेण अहम् सर्वत्रविराजमानो अस्मि यदा अहम् कालान्तरे धार्मिकव्यवस्थायाः पतनं अनैतिककार्याणाम् विकासं च पश्यामि, तदा त्वरितमेव (अहम्) निजं निराकारं स्वरूपं मनुष्यशरीरे स्थापयामि।

♦ व्याकरणिक-बिन्दवः-

1. सृजामि = तुदादिगणस्य परस्मैपदी सृज् धातोः लटलकारे उत्तम पुरुष एकवचने सृजामि-इति रूपं सिध्यते।
2. अभ्युत्थानं = (अभि + उद् + स्था + ल्युट्) इति नपु० अभ्युत्थानम् रूपं सिध्यते।

11. परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।

अन्वयः-साधूनां परित्राणाय च दुष्कृताम् विनाशाय धर्मसंस्थापनार्थाय युगे-युगे सम्भवामि।

शब्दार्थाः-परित्राणाय = परिरक्षणाय (रक्षा के लिये, उद्धार के लिये)। दुष्ताम् = दुर्जनानाम् (दूषित कर्म करने वालों का)। संभवामि = आविर्भवामि (प्रकट होता हूँ)। साधूनाम् = साधकानाम् (साधना करने वालों की)। विनाशाय = नाशनाय (नाश करने के लिये)। धर्मसंस्थापनार्थाय = धर्म स्थापयितुं युगे युगे। (धर्मस्थापना के लिए हर युग में)।

हिन्दी-अनुवाद–(हे अर्जुन) साधुओं की रक्षा करने के लिये, दुष्कर्मियों का नाश करने के लिये और धर्म की स्थापना के लिये (मैं) प्रत्येक युग में पैदा होता हूँ। सप्रसङ्ग

संस्कृत-व्याख्याः-प्रस्तुतश्लोकः अस्माकं ‘सरसा इति पाठ्यपुस्तकस्य ‘गीतामृतम्’ नाम्नः पाठात् अवतरितः अस्ति। अस्मिन् श्लोके भगवान् श्रीकृष्णः कथयति यत् “हे अर्जुन! अहम् प्रत्येकयुगे धर्मस्य स्थापनार्थम् जन्म गृणामि।” कुरुक्षेत्रे कौरवाः पाण्डवाश्च युद्धाय उपस्थिताः सन्ति। कुन्तीपुत्रः अर्जुनः मोहग्रस्तो जायते। सः युद्धात् विरतोभूत्वा निराशो भवति भगवान् श्रीकृष्णः तम् कथयति-हे अर्जुन! त्वं निराशो मा भूः। अहं स्वयमेव पापा मारयितुम् अस्मिन् संसारे अवतरामि। अस्मिन् युद्धे सर्वान् अत्याचारिणः नाशयितुम् त्वया सह वर्तमानः अस्मि। त्वम् निमित्तमात्राय उत्तिष्ठ। अयम् युद्ध: एक: धार्मिक: युद्धः अस्ति। अतएव अहम् सज्जनान् रक्षयितुं दुष्टानाम् विनाशयितुम् च अहम् त्वाम् आदिशामि। त्वम् युद्धम् कुरु।

♦ व्याकरणिक-बिन्दवः-

1. सम्भवामि-सम् + भू भ्वा० परस्मैपदी-इति सम्भवामि पदं सिध्यते।
2. विनाशाय- वि + नश् + ल्यप्

All Chapter RBSE Solutions For Class 9 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 9 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 9 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published.