RBSE Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश pdf Download करे| RBSE solutions for Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश

(क) हिमालयो नाम पर्वतः भारतदेशस्य उत्तरस्यां दिशि वर्तते। अस्य शिखरभागाः सदैव हिमाच्छादिताः सन्ति। अतएव सः हिमस्य आलयः अर्थात् ‘हिमालयः’ कथ्यते। सः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः। अत एव सः ‘नगाधिराजः’ इत्यपि ज्ञायते। पर्वतोऽयं भगवतः शिवस्य ‘क्रीडास्थली, भगवत्याः पार्वत्याः उत्पत्तिस्थलमपि, विविधकिन्नर-गन्धर्व-साधु-सुरादीनां वसतिरपि।
प्रश्ना:
(क) उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत।
(ख) हिमालयः भारतस्य कस्यां दिशि वर्तते?
(ग) हिमालयः कस्य क्रीडास्थली अस्ति?
(घ) कः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः?
(ङ) “नगाधिराजः कस्य अपर नाम?
(च) हिमालयः पदस्य समासविग्रहः कः अस्ति?
उत्तर:
(क) हिमालयः।
(ख) हिमालयः भारतस्य उत्तरस्यां दिशि वर्तते।
(ग) हिमालयः भगवतः शिवस्य क्रीडास्थली अस्ति।
(घ) हिमालयः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः।
(ङ) हिमालस्य अपर नाम।
(च) हिमस्य आलयः।

(ख) संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे भारतीयाः संस्कृतभाषायां एवं व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति।

प्रश्नाः
(क) उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत।
(ख) अस्माकं देशस्य प्राचीनतमा भाषा का?
(ग) सर्वे वेदग्रन्थाः कस्यां भाषायां सन्ति?
(घ) भारतराष्ट्रस्य एकतायाः आधारः कः?
(ङ) संस्कृतभाषायाः व्यवहारं कदा कुर्वन्ति स्म?
(च) ‘अद्यापि’ शब्दस्य सन्धिविच्छेदः कः भवति?
उत्तर:
(क) संस्कृतभाषायाः महत्त्वम्।
(ख) संस्कृतभाषा प्राचीनतमा भाषा।
(ग) सर्वे वेदग्रन्थाः संस्कृतभाषायां सन्ति।
(घ) संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः।
(ङ) प्राचीनकाले सर्वे संस्कृतभाषायाः व्यवहारं कुर्वन्ति स्म।
(च) अद्य + अपि।

(ग) विद्या सर्वेषां श्रेष्ठं धनमस्ति। तेन एव मनुष्यो भवति अन्यथा विद्यारहितो पशुः अस्ति। इदं धनं चौराश्चोरयितुं बान्धवाश्च विभाजयितुं न शक्नुवन्ति। व्यये कृते इदं धनं सर्वदा वर्धते। विदेशगमने विद्या परमसहायिका भवति।.

प्रश्ना:
(क) उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत।
(ख) किं धनम् श्रेष्ठम् अस्ति?
(ग) व्यय कृते किं वर्धते?
(घ) विद्या कुत्र परमसहायिका भवति?
(ङ) कां चौराश्चोरयितुं न शक्नुवन्ति?
उत्तर:
(क) विद्यायाः महत्त्वम्।
(ख) विद्याधनं श्रेष्ठम् अस्ति।
(ग) व्यये कृते विद्याधनं वर्धते।
(घ) विद्या विदेशगमने परमसहायिका भवति।
(ङ) विद्याधनं चौराश्चोरयितुं न शक्नुवन्ति।

(घ) भारतीयधर्मस्य मूलाधारः अहिंसा एव अस्ति। गीतायां श्रीकृष्णेन देवी-सम्पत्सु अहिंसायाः गणना प्रथमे स्थाने कृती। बौद्धधर्मः, जैनधर्मः च उभौ अहिंसाप्रधान एव। महात्मागाँधी अपि अहिंसायाः पालने बलं दत्तवान्। तस्य अयं विश्वासः आसीत् यद् अहिंसकस्य सम्मुखे हिंसकः अपि स्वस्य हिंसावृत्तिं परित्यजति।

प्रश्ना:
(क) उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत।
(ख) कस्य मूलाधारः अहिंसा भवति?
(ग) कौ अहिंसाप्रधानौ धमौ स्तः?
(घ) अहिंसा मार्गः केन महापुरुषेण स्वीकृतः?
(ङ) कुत्र अहिंसायाः गणना प्रथम स्थाने कृता?
उत्तर:
(क) अहिंसायाः महत्त्वम्।
(ख) भारतीयधर्मस्य मूलाधारः अहिंसा भवति।
(ग) बौद्धधर्म: जैनधर्मः च उभौ अहिंसाप्रधानौ धर्मों स्तः।
(घ) अहिंसामार्ग: ‘महात्मागाँधीमहापुरुषेण स्वीकृतः।
(ङ) गीतायाम् देवी-सम्पत्सु अहिंसायाः गणना प्रथम स्थाने कृता।

(ङ) कस्मिंश्चिन्नगरे एकं महत् मन्दिरमासीत्। तत्र एको महात्मा निवसति स्म। स सदा वेदशास्त्राभ्यासम् अकरोत्। लोकानां कल्याणाय शास्त्रकथाश्चाश्रावयत्। तत्र अनेके महिलापुरुषाः कथा श्रोतुं सङ्घीभूय प्रतिदिनं प्रयान्ति स्म। देवप्रतिमां च पूजयन्ति स्म।

प्रश्नाः
(क) उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत।
(ख) मन्दिरं कुत्र आसीत्?।
(ग) मन्दिरे कः निवसति स्म?
(घ) महात्मा सदा किं अकरोत्?
(ङ) महिलापुरुषाः प्रतिदिनं किमर्थं प्रयान्ति स्म?
(च) निवसति पदे उपसर्ग-धातु-लकार पुरुष-वचनं किम् अस्ति?
उत्तर:
(क) महत् मन्दिरम्।
(ख) एकस्मिन् नगरे मन्दिरम् आसीत्।
(ग) मन्दिरे एको महात्मा निवसति स्म।
(घ) महात्मा सदा वेदशास्त्राभ्यासम् अकरोत्।
(ङ) महिलापुरुषाः प्रतिदिनं कथां श्रोतुं प्रयान्ति स्म।
(च) नि उपसर्गः, वस् धातुः, लट्लकारः, प्रथमपुरुषः, एकवचनम्।

अन्य महत्त्वपूर्ण अपठित-गद्यांश निर्देशः-अधोलिखितगद्यांशान् पठित्वा एतदाधारितप्रश्नानाम् उत्तर: यथानिर्देशं लिखत
(1)
भारतीय-संस्कृतौ होलिकोत्सवस्य विशिष्टं महत्त्वं वर्तते। हिरण्यकशिपोः भगिन्याः होलिकायाः दहनेन अयम् उत्सवः सम्बद्धः अस्ति। सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म। अतएव हिरण्यकशिपोः निर्देशेन सा प्रह्लादम् अङ्के उपवेश्य अग्नौ उपविष्टवती। परन्तु प्रह्लादस्य भक्त्या प्रसन्नो भूत्वा नारायणः प्रह्लादं रक्षितवान्। प्रज्वलितेन अग्निना सी स्वयमेव दग्धी। तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्ष फाल्गुन-पूर्णिमावसरे होलिकोत्सवः। भवति। अस्मिन् अवसरे जनाः परस्परं प्रेम्णा मिलन्ति। एतेन तेषां प्रीतिः वर्धते।
प्रश्नाः
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) होलिका कस्य भगिनी आसीत्?
(ग) होलिका कम् अङ्के उपावेश्य अग्नौ उपविष्टवती?
(घ) होलिकोत्सवः कदा आयोजितः भवति?
(ङ) “सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म।” अस्मिन् वाक्ये रेखांकितसर्वनामपदस्थाने संज्ञापदं किम्?
(च) “अस्मिन् अवसरे जनाः परस्परं प्रेम्णा मिलन्ति।’ उपर्युक्तवाक्ये कर्तृपदं किमस्ति?
(छ) ‘प्रज्वलितेन अग्निना’ इत्यनयोः पद्योः विशेष्यपदं किम्?
उत्तर:
(क) होलिकोत्सवः।
(ख) होलिका हिरण्यकशिपोः भगिनी आसीत्।
(ग) होलिका प्रह्लादम् अङ्के उपावेश्य अग्नौ उपविष्टवती।
(घ) होलिकोत्सवः प्रतिवर्ष फाल्गुन-पूर्णिमावसरे आयोजितः भवति।
(ङ) होलिका। 1
(च) जनाः।
(छ) अग्निना।

(2)
अस्माकं पुस्तकालयः नगरस्य रमणीय स्थाने वर्तते। अस्य भवनं विशालं सुन्दरं चास्ति। अस्मिन् पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति तथा च अत्र विविध पत्रपत्रिकादयः प्रतिदिनं आयान्ति। बहवः जनाः, छात्राः, युवतयश्च अत्र आगत्य स्वाध्यायं कुर्वन्ति। अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका वर्तते।
प्रश्नाः
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) अस्माकं पुस्तकालये कति पुस्तकानि सन्ति?
(ग) अस्माकं पुस्तकालये के आगत्य स्वाध्यायं कुर्वन्ति?
(घ) अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च केषां महती भूमिका वर्तते?
(ङ) “अस्य भवनं विशालं सुन्दरं चास्ति।” उपर्युक्त वाक्ये सर्वनामपद’ अस्य’ स्थाने संज्ञापदं किमस्ति?
(च) ‘दशसहस्राणि पुस्तकानि” इत्यत्र विशेषणपदं किम्?
(छ) “जनाः अत्र आगत्य स्वाध्यायं कुर्वन्ति।” उपर्युक्त वाक्ये क्रियापदं किम्?
उत्तर:
(क) अस्माकं पुस्तकालयः।
(ख)दशसहस्राणि पुस्तकानि सन्ति।
(ग) अस्माकं पुस्तकालये बहवः जनाः, छात्राः, युवतयश्च आगत्य स्वाध्यायं कुर्वन्ति।
(घ) अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका वर्तते।
(ङ) पुस्तकालयस्य।
(च) दशसहस्राणि।
(छ) कुर्वन्ति।

(3)
यत् परितः अस्मान् आवृणोति तत् पर्यावरणं कथ्यते। पृथ्वीजलाकाशवनस्पतयः जीवश्च पर्यावरणसर्जकाः
सन्ति। वर्तमानकाले प्राकृतिकसंसाधनानां असन्तुलितदोहनेन औद्योगिक-विस्तारेण च पर्यावरण प्रदूषितं जातम्। अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दुःखमयं सञ्जातम्। अद्य मानवसभ्यतायाः संरक्षणार्थ स्वास्थ्य संवर्द्धनार्थञ्च पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यक वर्तते।
प्रश्नाः
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) पृथ्वीजलाकाशवनस्पतयः जीवाश्च कस्य सर्जकाः सन्ति?
(ग) वर्तमानकाले केन कारणेन पर्यावरण प्रदूषितं जातम्?
(घ) किमर्थं पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यक वर्तते?
(ङ) “यत् परित: अस्मान् आवृणोति”-इति वाक्ये क्रियापदं किम्?
(च) उपर्युक्त अनुच्छेदे ‘सुखमयम्’ इति पदस्य विलोमशब्दः। कः?
(छ) “पर्यावरण प्रदूषितं जातम्”-इत्यत्र कर्तृपदं किम्?
उत्तर:
(क) पर्यावरणम्।
(ख) पर्यावरणस्य।
(ग) वर्तमानकाले प्राकृतिकसंसाधनानां असन्तुलितदोहनेन औद्योगिक विस्तारेण च पर्यावरण प्रदूषितं जातम्।
(घ) मानवसभ्यतायाः संरक्षणार्थं स्वास्थ्य-संवर्द्धनार्थञ्च पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यकं वर्तते।
(ङ) आवृणोति।
(च) दु:खमयम्।
(छ) पर्यावरणम्।

(4)
अस्माकं भारतवर्षः प्राकृतिक सुषमायाः भण्डारो वर्तते। अत्र प्रकृति नटी प्रतिक्षणं नव्यं भव्यं च नाटयति। अत्र एकस्मिन् वर्षे षड्ऋत्वो भवन्ति–वसन्तः, ग्रीष्मः, वर्षाः, शरतु, शिशिर, हेमन्तश्च। एषु वसन्तस्यैव प्राधान्यं वर्तते। समागमे वसन्ते नातिशीतं नात्युष्णं भवति। साधुः एष ऋतुः ऋतुषु ऋतुराज इति कथ्यते। अस्मिन् ऋतौ वसुन्धरा सुसज्जितं मनोरम रूपं धारयति। सर्वमपि चारुतरं प्रतिभाति।

प्रश्नाः
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) कस्मिन् समागमे नातिशीतं नात्युष्णं भवति?
(ग) कः प्राकृतिकसुषमाया: भण्डारो वर्तते?
(घ) कदा वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति?
(ङ) “एष ऋतुः ऋतुराज इति कथ्यते”-इत्यत्र सर्वनामपदं ‘एषः’ स्थाने संज्ञापदं किमस्ति?।
(च) “अत्र प्रकृतिनटी प्रतिक्षणं नव्यं भव्यं च नाटयति।” उपर्युक्तवाक्ये क्रियापदं किम्?
(छ) ‘एकस्मिन् वर्षे’-इत्यत्र विशेषष्यपदं किम्?
उत्तर:
(क) वसन्त ऋतुः।
(ख) वसन्ते।
(ग) भारतवर्षः प्राकृतिकसुषमायाः भण्डारो वर्तते।
(घ) वसन्त-ऋतौ वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति।
(ङ) वसन्तः।
(च) नाटयति।
(छ) वर्षे।

(5)
आँग्लदेशीयाः पूर्वम् भारतदेशे शासनम् अकुर्वन्। स्वाधीनतायै अनेकानि आन्दोलनानि अभवन्। लक्ष्मीबाई एका प्रमुख सेनानायिका आसीत्। तस्याः जनकः जननी च बिठूरराज्ये अवसताम्। लक्ष्मीबाई शस्त्रज्ञाने अस्वारोहणे च निपुणा आसीत्। तस्याः विवाहः गंगाधरेण सह अभवत्। गंगाधरस्य असमर्थ एवं मृत्युः अभवत्। आँग्लसेनानायकः ह्यरोजः अकथयत्-‘राज्ञी आत्मसमर्पणं करोतु’ इति। लक्ष्मीबाई अवदत्-‘झाँसीराज्यं मम अस्ति। अहं झाँसीराज्यं न दास्यामि’ इति। सा आँग्लैः सह भीषणं युद्धम् अकरोत्। अन्ते सा प्राणान् अत्यजत्।

प्रश्नाः
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) आँग्लदेशीयाः पूर्वम् कुत्र शासनम् अकुर्वन्?
(ग) लक्ष्मीबाई कस्मिन् निपुणा आसीत्?।
(घ) लक्ष्मीबाई’ इत्यस्याः विवाह: केन सह अभवत्?
(ङ) “सा अँग्लैः सह भीषणं युद्धम् अकरोत्।” उपर्युक्तवाक्ये सर्वनामपदं ‘सा’ स्थाने संज्ञापदं किम्?
(च) “एका प्रमुखा’-इत्यत्र विशेषणपदं किम्?
(छ) “अन्ते सा प्राणान्:…………………।” रिक्तस्थाने पूरणीयक्रियापदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) लक्ष्मीबाई।
(ख) भारतदेशे।
(ग) लक्ष्मीबाई शस्त्रज्ञाने अस्वारोहणे च निपुणा आसीत्।
(घ) ‘लक्ष्मीबाई’ इत्यस्याः विवाहः गंगाधरेण सह अभवत्।
(ङ) लक्ष्मीबाई।
(च) एका।
(छ) अत्यजत्।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published. Required fields are marked *