RBSE Class 8 Sanskrit परिशिष्टम् निबन्धा:

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit परिशिष्टम् निबन्धा: सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit परिशिष्टम् निबन्धा: pdf Download करे| RBSE solutions for Class 8 Sanskrit परिशिष्टम् निबन्धा: notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् निबन्धा:

1. भारतदेशः
भारतवर्षः अस्माकं देशः अस्ति। अयं अस्माकं जन्मभूमिः। अस्य भूमिः विविध-रत्नानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षालयति। भारतवर्ष: अखिलविश्वस्य गुरुरस्ति। अनेकाः पवित्रतमा: नद्यः अत्र वहन्ति। गङ्गा, गोदावरी, सरस्वती, यमुना प्रभृत्यः नद्य अस्य शोभा वर्धयन्ति। अयं देशः सर्वासां विद्यानां केन्द्रम् अस्ति। अयम् अनेकप्रदेशेषु विभक्तः। अत्र विविध-धर्मावलम्बिनः सम्प्रदायिनः जनाः निवसन्ति। अस्य संस्कृति: धर्मपरम्परा च श्रेष्ठा अस्ति। इयं भूः स्वर्गः अपि वर्तते। ईश्वरस्य अवताराः अस्मिन् देशे सञ्जाताः। वयं स्वदेशोपरि गर्वान्विताः स्मः।

2. संस्कृतभाषायाः
महत्त्वम्। संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्व भारतीयाः संस्कृतभाषायाः व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीया: भाषा: प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। संस्कृतम् सर्वत्र देशे समानरूपेण आद्रियते। संस्कृतभाषायाः यत् स्वरूपं अद्य प्राप्यते तदेव अद्यतः सहस्रवर्षपूर्वमेव आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिकम् अस्ति। अस्य व्याकरणं पूर्णतः तर्कसम्मतं च। आचार्य दण्डिना सम्यगेवोक्तम्‘‘भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती’

3. अनुशासनम्।
समाजे नियमानां पालनम् अनुशासनं भवति। जीवने अनुशासनस्य विशेष महत्त्वं भवति। प्रत्येकस्मिन् पदे अनुशासनम् आवश्यकं भवति। अनुशासनं विना किमपि कार्य सफलं न भवति। छात्रेभ्यः अनुशासन व्यवस्थायै परमावश्यकम् अस्ति। अनुशासितः सर्वे भ्य: प्रियः भवति। सामाजिकव्यवस्थायै अनुशासनम् अत्यन्तम् आवश्यकम् अस्ति। यस्मिन् समाजे अनुशासनं न भवति तत्र सदैव कलहः भवति। शिक्षकस्य अनुशासने छात्रोः निरन्तर उन्नतिपथे गच्छन्ति। प्रकृतिः अपि ईश्वरस्य अनुशासने तिष्ठति। यः नरः पूर्णतया अनुशासनं पालयति सः स्वजीवने सदा सफलः भवति। अतः अनुशासनस्य पालनं जीवने बहु आवश्यकं भवति।

4. अस्माकं विद्यालयः
अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति। एषः एकः आदर्शविद्यालयः अस्ति। अहम् अत्र पठामि। विद्यालयं गत्वा सर्वे बालकाः शिक्षकान् प्रणमन्ति। ततः प्रार्थनां कृत्वा पाठे पठन्ति। मध्याह्नकाले अस्माकं भोजनावकाशः भवति। तदा सर्वे छात्राः मिलित्वा भोजनं कुर्वन्ति। ततः पुनः सर्वे अध्ययनं कुर्वन्ति। अस्माकं विद्यालये विद्याध्ययनस्य वातावरणं विद्यते। अस्य भवन सुन्दरम् अस्ति। भवनं परितः एकं रमणीयम् उद्यानम् अस्ति। अस्माकं विद्यालये विशति अध्यापकाः पञ्चशतं छात्राः च सन्ति। सर्वे अध्यापकाः स्व स्व विषयेषु विद्वांसः सन्ति। ते छात्रान्। मनसा ध्यानेन च पाठयन्ति। अस्माकं प्रधानाचार्यः अतीव योग्यः, अनुशासनप्रियः, विद्वान् च अस्ति। अस्माकं विद्यालयः क्रीडाक्षेत्रेऽपि अग्रगण्यः अस्ति। अत्र एकं रमणीयम् उद्यानम् एका महती प्रयोगशाला, एकः पुस्तकालयः, एकः वाचनालयः, एकः सङ्गणक-कक्षः एकः क्रीडाकक्षः च अस्ति एवम् अस्माकं विद्यालयः सर्वगुणोपेतं विद्यामन्दिरं नूनम्। अस्माकम् एतद् कर्त्तव्यं यत् वयम् अस्य कीर्तिं सर्वासु दिक्षु विस्तारयेम।

5. परोपकारः
परेषाम् उपकारः परोपकारः कथ्यते। यत्कार्यं नि:स्वार्थभावनया क्रियते तदैव परोपकारः। संसारे द्विविधा मनुष्याः सन्ति। तेषु केचन् सज्जनाः भवन्ति। तेषां सम्पूर्ण जीवनं परहितार्थं समर्पित भवति। वृक्षाः परहिताय स्वफलानि छायां च यच्छन्ति। नद्यः परेषां पिपासां शान्तयितुं अनवरतं प्रवहन्ति। मेघाः जलं वर्षित्वा संसारं हरितं कुर्वन्ति। प्रकृतिः निरन्तरं परकल्याणरता वर्तते। परम् इयं कदापि प्रत्युपकारं न वाञ्छति। प्रकृतेः सदृशः परोपकारिणः स्वशरीरम् अपि परोपकारायैव मन्यते। अस्माकं देशे दधीचिः, शिविः इत्यादयः अनेके महापुरुषाः स्वशरीरं दत्वा अपि परोपकारं अकुर्वन्। अतः वयमपि परोपकारिणः ॐ भवेम। उक्तं च-

अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम् ॥

6. शिक्षकः
यः शिक्षयति सः शिक्षकः। शिक्षकः छात्राणाम् अज्ञानान्धकार दूरीकरोति। प्राचीनकाले गुरुकुले शिक्षकाः छात्रान् शिक्षयन्ति स्म। छात्राः तान् गुरुः इति अकथयन्। शिक्षकः बालकान्। दुष्प्रवृत्ते: वारयति। सः संयमानुशासनं ज्ञानं च शिक्षयति। सः बालकेषु परोपकारस्य, सेवायाः, त्यागस्य भावनां पूरयति। एतादृशः शिक्षकस्य स्थानं समाजे अपि महत्वपूर्णम् अस्ति। अस्माकं देशे प्रतिवर्षे सितम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकदिवसः” आयोज्यते। अस्माकं राष्ट्रपतिमहोदया: शिक्षकानां सम्मानं कुर्वन्ति। वयं सर्वदा शिक्षकस्य सम्मान कुर्याम, तस्य आज्ञा शिरोधार्यं कुर्याम च। शिक्षकः राष्ट्रनिर्माता इत्यपि कथ्यते। शिक्षकः एव सन्नागरिकस्य देशभक्तस्य च निर्माणं करोति।

अन्य महत्त्वपूर्ण निबन्ध-लेखनम्
प्रश्न 1.
निर्देशानुसार पदानि स्वीकृत्य विद्यालयम्” निबन्ध लेखनम् कुरुत( अस्माकम्, छात्र-छात्राश्च, अध्यापकाः, अष्टम् केक्षा, द्विशतं छात्राः)।
उत्तर:
विद्यालयम्
अस्माकं विद्यालयः जयपुरनगरस्य मध्ये रमणीय स्थाने स्थितः। अयम् उच्चमाध्यमिकविद्यालयः अस्ति। अहम् अस्मिन् विद्यालये अष्टमी कक्षायां पठामि। अस्मिन् विद्यालये छात्रछात्राश्च सहैव पठन्ति। अस्माकं विद्यालये पञ्चदश अध्यापकाः सन्ति। अत्र द्विशतं छात्राः पठन्ति। अस्य विद्यालयस्य भवनं। द्विभूमिकं विस्तृतं भव्यं सुसज्जितम् चास्ति। अस्य पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति, विविधाः पत्र-पत्रिकाः च समायान्ति। अयं विद्यालयः पठन-पाठनदृष्ट्या सुव्यवस्थितः सुशासितश्च वर्तते। अत्रत्याः छात्रा: योग्यतमाः सन्ति। अयम् आदर्शविद्यालयः अस्ति।

प्रश्न 2.
निर्देशानुसार पदानि स्वीकृत्य ‘उद्यानम्’ विषये निबन्धलेखनं कुरुत(विद्यालयस्य समीपे, वक्षाः, खगाः, पुष्पाणि, भ्रमणाय)।
उत्तर:
उद्यानम्
अस्माकं विद्यालयस्य समीपे एकं रम्यम् उद्यानम् अस्ति। इदम् उद्यानम् अतीव विशालं सुन्दरं चास्ति। अस्मिन् उद्याने विविधाः वृक्षाः पादपाः लताश्च सन्ति। पादपेषु विविधानि पुष्पाणि विकसितानि सन्ति। वृक्षेषु विविधाः खगाः कलरवं कुर्वन्ति। जनाः प्रातः सायं चात्र भ्रमणाय प्रतिदिनं आगच्छन्ति। अस्मिन् उद्याने बालकाः बालिकाश्च क्रीडन्ति। उद्यनिस्य वातावरणं स्वच्छं वर्तते।

प्रश्न 3.
निर्देशानुसार पदानि स्वीकृत्य ‘शिक्षकः’ इति विषये निबन्धलेखनं कुरुत(शिक्षयति, अज्ञानान्धकार, पशुतुल्यः मनुष्यस्य, गुरुकुले, वारयति, संयमानुशासनं ज्ञानं च, त्यागस्य भावना)।
उत्तर:
शिक्षकः
यः. शिक्षयति सः शिक्षकः। शिक्षकः छात्राणाम् अज्ञानान्धकार दूरीकरोति। अशिक्षितः मानवः पशुतुल्यः भवति। शिक्षकः। मनुष्यस्य बाल्यकालादेव तस्य मनः मस्तिष्कं च शिक्षयति। शिक्षितं कृत्वा जनं मनुष्यं करोति। प्राचीनकाले गुरुकुले शिक्षकः छात्रेभ्यः शिक्षयन्ति स्म। छात्राः तान् गुरुः इति अकथयन्। शिक्षकः बालकान् दुष्प्रवृत्ते: वारयति। सः संयमानुशासनं ज्ञानं च शिक्षयति। सः बालकेषु परोपकारस्य, सेवायाः, त्यागस्य भावनां पूरयति। एतादृशः शिक्षकस्य स्थानं समाजे अपि महत्वपूर्णम् अस्ति। अस्माकं देशे प्रतिवर्षे सितम्बरमासस्य पञ्चमे दिनाङ्के ”शिक्षकदिवसः” आयोज्यते।

प्रश्न 4. निर्देशानुसारं पदानि स्वीकृत्य ‘परोपकारः’ इति। विषये निबन्धलेखनं कुरुत( कथ्यते, निःस्वार्थ भावनया, सज्जनाः, परहिताय, प्रवहन्ति, वर्षित्वा, परकल्याणरता, प्रत्युपकारम्)।
उत्तर:
परोपकारः
परेषाम् उपकारः परोपकारः कथ्यते। यत्कार्यं नि:स्वार्थभावनाया क्रियते तदैव परोपकारः। संसारे द्विविधा मनुष्याः सन्ति। तेषु केचन् सज्जनाः भवन्ति। तेषां सम्पूर्ण जीवनं परहितार्थं समर्पित भवति। वृक्षाः परहिताय स्वफलानि छायां च यच्छन्ति। नद्यः परेषां पिपासां शान्तयितुं अनवरतं प्रवहन्ति। मेघाः जलं वर्षित्वा संसारं हरितं कुर्वन्ति। प्रकृतिः निरन्तरं परकल्याणरता वर्तते। परम् इयं कदापि प्रत्युपकारं न वाञ्छति। प्रकृतेः सदृशः। परोपकारिणः स्वशरीरम् अपि परोपकारायैव मन्यते।

प्रश्न 5. निर्देशानुसारं पदानि स्वीकृत्य ‘भारतदेशः’ विषये निबन्धलेखनं कुरुत(जन्मभूमिः, विविध-रत्नानां, अनुपमा, हिमालयः, सागरः, गुरुरस्ति, नद्यः, जनाः)।
उत्तर:
भारतदेशः
भारतवर्षः अस्माकं देशः अस्ति। अयं अस्माकं जन्मभूमिः। अस्य भूमिः विविध-रत्नानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षालयति। भारतवर्षः अखिलविश्वस्य गुरुरस्ति। अनेकाः पवित्रतमाः नद्यः अत्र वहन्ति। गङ्गा, गोदावरी, सरस्वती, यमुना प्रभृत्यः नद्य अस्य शोभां वर्धयन्ति। अयं देशः सर्वासां विद्यानां केन्द्रम् अस्ति। अयम् अनेकप्रदेशेषु विभक्तः। अत्र विविध-धर्मावलम्बिनः सम्प्रदायिनः जनाः निवसन्ति। अस्य संस्कृतिः धर्मपरम्परा च |श्रेष्ठा अस्ति। इयं भूः स्वर्गः अपि वर्तते। ईश्वरस्य अवताराः
अस्मिन् देशे सजाताः। वयं स्वदेशोपरि गर्वान्विताः स्मः।

प्रश्न 6.
निर्देशानुसारं पदानि स्वीकृत्य संस्कृतभाषायाः महत्त्वम्’ विषये निबन्धलेखनं कुरुत– ( प्राचीनतमा भाषा, प्राचीनकाले, कालान्तरे, प्राचीनग्रन्थाः एकतायाः आधारः, वैज्ञानिकम्)।
उत्तर:
संस्कृतभाषायाः महत्त्वम्
संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे भारतीयाः संस्कृतभाषायाः व्यवहारं कुर्वन्ति |स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। संस्कृतम् सर्वत्र देशे समानरूपेण आद्रियते। संस्कृतभाषायाः यत् स्वरूपं अद्य प्राप्यते तदेव अद्यतः सहस्रवर्षपूर्वमेव आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिकम् अस्ति। अस्य व्याकरणं पूर्णतः तर्कसम्मतं च।

प्रश्न 7.
निर्देसानुसारं पदानि स्वीकृत्य ‘अनुशासनम्’ इति विषये निबन्धलेखनं कुरुत(नियमानां, महत्त्वं, प्रत्येकस्मिन्, सफल, छात्रेभ्यः, प्रियः, अत्यन्तं, कलहः)
उत्तर:
अनुशासनम्
समाजे नियमानां पालनम् अनुशासनं भवति। जीवने अनुशासनस्य विशेष महत्त्वं भवति। प्रत्येकस्मिन् पदे अनुशासनम् आवश्यकं भवति। अनुशासनं विना किमपि कार्य सफल न भवति। छात्रेभ्यः अनुशासन व्यवस्थायै परमावश्यकम्। अस्ति। अनुशासितः सर्वे भ्यः प्रियः भवति। सामाजिकव्यवस्थायै अनुशासनम् अत्यन्तम् आवश्यकम् अस्ति। यस्मिन् समाजे अनुशासनं न भवति तत्र सदैव कलहः भवति। शिक्षकस्य अनुशासने छात्रोः निरन्तरं उन्नतिपथे गच्छन्ति। प्रकृतिः अपि ईश्वरस्य अनुशासने तिष्ठति। यः नरः पूर्णतया अनुशासनं पालयति सः स्वजीवने सदा सफलः भवति। अतः अनुशासनस्य पालनं जीवने बहु आवश्यकं भवति।

प्रश्न 8.
निर्देशानुसारं पदानि स्वीकृत्य ‘हिमालयः’ विषये निबन्धलेखनं कुरुत (उत्तरस्यां दिशि, हिमाच्छादिताः, हिमस्य, उन्नततमः, नगाधिराजः, शिवस्य, पार्वत्याः, अपि)
उत्तर:
हिमालयः
हिमालयो नाम पर्वतः भारतदेशस्य उत्तरस्यां दिशि वर्तते। अस्य शिखरभागाः सदैव हिमाच्छादिताः सन्ति। अतएव सः हिमस्य आलयः अर्थात् ‘हिमालयः’ कथ्यते। सः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः। अतः एव सः ‘नगाधिराजः’ इत्यपि ज्ञायते। पर्वतोऽयं भगवतः शिवस्य क्रीडास्थली, भगवत्याः पार्वत्याः उत्पत्तिस्थलमपि, विविधकिन्नर-गन्धर्व साधु-सुरादीनां वसतिरपि।

प्रश्न 9.
मंजूषातः पदानि चित्वा सड़कसुरक्षाविषये निबन्धलेखनं कुरुत( सड़कसुरक्षार्थम्, यातायातस्य नियमाः, ‘दुर्घटना न भवेत्’, चतुष्पथेषु, मद्यपानं, नियन्त्रिता, पालनं, सुरक्षाकवच)।
उत्तर:
सड़क-सुरक्षा

  1. सड़कसुरक्षार्थं नियमानां अधिकाधिकं प्रचार-प्रसारं करणीयम्।
  2. वाहनस्य गतिनियमानां पालनं करणीयम्।
  3. वाहनस्य गतिः नियन्त्रिता भवेत्।
  4. मद्यपानं कृत्वा वाहनचालनं न स्यात्।
  5. सड़क सुरक्षार्थं यातायातस्य नियमाः पालनीयाः।
  6. ‘दुर्घटना न भवेत्’ इत्यस्य प्रसारः भवेत्।
  7. चतुष्पथेषु सावधानतया गन्तव्यम्।
  8. वाहनचालनसमये सुरक्षाकवचस्योपयोगः कर्त्तव्यः।

प्रश्न 10.
निर्देशानुसारं पदानि स्वीकृत्य ‘धेनोः महत्त्वम्। विषये निबन्धलेखनं कुरुत ( पूजनीया, धेनवः, कपिलायाः, बलवर्धकं, गोमूत्रम्, गोमयेन, पञ्चगव्यस्य, रक्षां)।
उत्तर:
धेनोः महत्त्वम्

  1. भारतदेश धेनुः मातृवत् पूजनीया अस्ति।
  2. भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति।
  3. कपिलायाः, धेनोः महत्त्वम् अधिकमस्ति।
  4. धेनुदुग्धं सुपाच्यं पौष्टिकं बलवर्धकं च भवति।
  5. गोमूत्रम् अनेकासु औषधिषु प्रयुक्तं भवति।
  6. गोमयेन वयं स्वगृहान् पवित्रीकुर्मः।
  7. पञ्चगव्यस्य उपयोगः विविधरोगाणां निवारणाय भवति।
  8. धेनुः अस्माकं मातृवत् रक्षां करोति।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published.