RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 15 स्वच्छ भारतम्

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit रञ्जिनी Chapter 15 स्वच्छ भारतम् सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 15 स्वच्छ भारतम् pdf Download करे| RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 15 स्वच्छ भारतम् notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी 15 स्वच्छ भारतम्

RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 मौखिक प्रश्न

प्रश्न 1.
अधोलिखितानां शब्दानाम् उच्चारणं कुरुत
स्वच्छता
संस्मरणम्
श्रावयन्तु
प्रबुद्धाः
सर्वकारः
अवकरपात्राणि
प्रभृतिः
इतस्तत:
उद्बोधितवान्
उत्तरम्:
[नोट–उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि वदत
(क) विद्यालये कः कार्यक्रमः आसीत्?
उत्तरम्:
स्वच्छताकार्यक्रमः

(ख) अस्माकं प्रधानाचार्यः किम् उद्बोधितवान्?
उत्तरम्:
स्वच्छताविषये उद्बोधितवान्

(ग) समूहे कुत्र गत्वा छात्राः स्वच्छतां कृतवन्तः?
उत्तरम्:
विद्यालयात् बहिः गत्वा सार्वजनिकस्थलेषु

(घ) केन प्रेरिताः सर्वे नेतारः स्वच्छताकार्ये प्रवृत्ताः सन्ति?
उत्तरम्:
अस्माकं प्रधानमन्त्रिमहोदयेन प्रेरिताः

(ङ) अस्माकं देशे किम् अभियानं प्रचलति?
उत्तरम्:
अस्माकं देशे स्वच्छताभियानं प्रचलति

RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 लिखितप्रश्नाः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) के प्रबुद्धाः अभवन्?
उत्तरम्:
बालकाः

(ख) निर्धनानां शौचालयनिर्माणार्थं कः आर्थिक सहयोगंकरोति?
उत्तरम्:
सर्वकारः

(ग) छात्राः कुत्र परिश्रमं कृत्वा आगतवन्त:?
उत्तरम्:
विद्यालये

(घ) चायं पीत्वा जनाः अवकरं कुत्र क्षिपन्ति?
उत्तरम्:
इतस्ततः

(ङ) बालकाः गृहकार्येषु किं करिष्यन्ति?
उत्तरम्:
साहाय्यम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) चायं पीत्वा अवकरं कुत्र स्थापनीयम्?
उत्तरम्:
चायं पीत्वा अवकरम् अवकरपात्रेषु स्थापनीयम्

(ख) महात्मागान्धी: कुत्र स्वच्छताकार्यं करोति स्म?
उत्तरम्:
महात्मागान्धीः साबरमती आश्रमे स्वच्छताकार्यं करोति स्म

(ग) अस्माकं परिवेशः कथं स्वच्छ भविष्यति?
उत्तरम्:
यदि वयं सर्वे स्वच्छताविषये प्रतिज्ञां कुर्मः तदा अस्माकं परिवेशः स्वच्छं भविष्यति

(घ) देशस्य नागरिकाः स्वस्थाः कथं भवेयुः?
उत्तरम्:
सर्वत्र स्वच्छता स्यात् तदा देशस्य नागरिकाः स्वस्थाः भवेयुः

(ङ) सार्वजनिकेषु स्थानेषु स्वच्छता करणाय के समूह कृतवन्तः?
उत्तरम्:
सार्वजनिकेषु स्थानेषु स्वच्छता करणाय छात्रा: समूहं कृतवन्तः

प्रश्न 3.
मजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
प्रधानाचार्यः, सर्वकारः, मम, कर्मकरेषु, प्रबुद्धा, स्वच्छताप्रत्ययः
उत्तरम्:
(क) एषः मम मित्रं कौस्तुभ:
(ख) अद्य विद्यालये स्वच्छता कार्यक्रमः आसीत्
(ग) अस्माकं प्रधानाचार्यः उद्बोधितवान्
(घ) तेषां कृते सर्वकारः आर्थिकसहयोगं करोति
(ङ) कर्मकरेषु आश्रितः न आसीत्

प्रश्न 4.
रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) मम मित्रं कौस्तुभम्
(ख) विद्यालयस्य स्वच्छताविषयकं संस्मरणं श्रावयन्ति
(ग) तेन प्रेरिताः सर्वे नेतारः
(घ) सर्वकारः आर्थिकसहयोगं करोति
(ङ) चायचषकान् मह्यं ददतु
उत्तरम्:
प्रश्ननिर्माणम्
(क) कस्य मित्रं कौस्तुभम्?
(ख) कस्य स्वच्छताविषयकं संस्मरणं श्रावयन्ति?
(ग) केन प्रेरिताः सर्वे नेतारः?
(घ) कः आर्थिकसहयोगं करोति?
(ङ) कान् मह्यं ददतु?

प्रश्न 5.
अधोलिखितानां पदानां प्रकृतिप्रत्ययं पृथक् कुरुत
उत्तरम्:
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 15 स्वच्छ भारतम् - 1
प्रश्न 6.
अधोलिखितानां पदानां मूलशब्दं विभक्तिं वचनं च लिखत
उत्तरम्:
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 15 स्वच्छ भारतम् - 2

RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः
1.’स्वच्छ भारतम्’ इति पाठस्य क्रमास्ति
(क) प्रथमः
(ख) दशमः
(ग) पञ्चदशः
(घ) एकादशः

2. “शुचिश्रीशौ विद्यालयात् गृहम् आगच्छतः” रेखांकितपदे समासः विद्यते
(क) द्विगुः
(ख) द्वन्द्वः
(ग) तत्पुरुषः
(घ) अव्ययीभावः

3.“विद्यालयात् बहिः अपि स्वच्छतां कृतवन्तः” रेखांकितपदे विभक्तिः वर्तते
(क) तृतीया
(ख) चतुर्थी
(ग) पञ्चमी
(घ) सप्तमी

4.”अहमपि श्रोतुम् इच्छामि”–रेखांकितपदे प्रत्ययःअस्ति
(क) तुमुन्
(ख) तव्यत्
(ग) क्तवतु
(घ) क्त्वा

5 अस्माकं देशे स्वच्छताभियानम् प्रचलति अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) अस्माकं
(ख) देशे
(ग) स्वच्छताभियानम्
(घ) प्रचलति

6. ‘स्वच्छ भारतम्’ पाठानुसारेण गृहस्वामी कः?
(क) लोकेशः
(ख) संध्या
(ग) शुचिः
(घ) श्रीश

7. ‘स्वच्छ भारतम्’ पाठानुसारेण श्रीशस्य मित्रं कः?
(क) यशवर्धनः
(ख) लोकेशः
(ग) कौस्तुभः
(घ) उत्कर्षः

8.अस्माभिः अवकरं कुत्र स्थापनीयम्?
(क) गृहेषु
(ख) अवकरपात्रेषु
(ग) सार्वजनिकस्थलेषु
(घ) उपवनेषु
उत्तराणि:
1. (ग)
2. (ख)
3. (ग)
4. (क)
5. (क)
6. (क)
7. (ग)
8. (ख)

मञ्जूषात् पदानि चित्वा रिक्तस्थानानि पूरयते
अभवन्, सर्वान्, अल्पाहारेण, सर्वकारः
1. प्रधानाचार्य: ………..छात्रान् प्रेरितवान्
2. बालकाः प्रबुद्धाः ………..।
3……….आर्थिकसहयोगं करोति
4. ……….::सह वार्तालापं कुर्वन्तु
उत्तराणि:
1. सर्वान्
2. अभवन्
3. सर्वकारः
4. अल्पाहारेण

RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 अतिलघूत्तरात्मकप्रश्नाः

(एकपदेन उत्तरत)
प्रश्न 1.
बालकाः कीदृशं संस्मरणं श्रावयन्ति स्म?
उत्तरम्:
स्वच्छताविषयकम्

प्रश्न 2.
लोकेशः कस्य पुत्रः अस्ति?
उत्तरम्:
यशवर्धनस्य

प्रश्न 3.
रचनाया: विद्यालये केषां निर्माणम् अभवत्?
उत्तरम्:
शौचालयानाम्

प्रश्न 4.
वयम् अवकरम् कुत्र न क्षिपाम?
उत्तरम्:
इतस्ततः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 मौखिक प्रश्न लघूत्तरात्मकप्रश्नाः

(पूर्णवाक्येन उत्तरत)
प्रश्न 1.
शुचिश्रीशौ काभ्यां सहं गृहम् आगच्छतः?
उत्तरम्:
शुचिश्रीशौ स्वमित्राभ्यां रचनाकौस्तुभाभ्यां सह गृहम् आगच्छतः

प्रश्न 2.
बालकाः समूहरूपेण कुत्र स्वच्छतां कृतवन्तः?
उत्तरम्:
बालकाः समूहरूपेण विद्यालयात् बहिः सार्वजनिकेषु स्थानेषु स्वच्छतां कृतवन्तः

प्रश्न 3.
बालकाः विद्यालये कां प्रतिज्ञां कृतवन्तः?
उत्तरम्:
बालकाः विद्यालये प्रतिज्ञां कृतवन्तः यत् अस्माकं परिवेशं स्वच्छं करिष्यामः

प्रश्न 4.
स्वच्छताविषये कः अस्माकं प्रेरणापुरुषः अस्ति?
उत्तरम्:
स्वच्छताविषये राष्ट्रपितामहात्मागान्धीः अस्माकं प्रेरणापुरुषः अस्ति

प्रश्नः5.
रेखाङ्कितपदानि आधृत्य प्रश्न-निर्माणं कुरुत
(i) शुचिश्रीशौ विद्यालयात् गृहम् आगच्छतः
(ii) यशवर्धनः आसन्दे उपविष्टः
(iii) एषा रचना मम सखी वर्तते
(iv) विद्यालये शौचालयानां निर्माणम् अभवत्
(v) प्रधानाचार्य: छात्रान् उद्बोधितवान्
(vi) अस्माकं देशे स्वच्छताभियानं प्रचलति
(vii) वयम् अवकरम् इतस्ततः न क्षिपाम
उत्तरम्:
प्रश्न-निर्माणम्
(i) कौ विद्यालयात् गृहम् आगच्छतः?
(ii) यशवर्धनः कुत्र उपविष्ट:?
(iii) एषा का मम सखी वर्तते?
(iv) विद्यालये केषां निर्माणम् अभवत्?
(v) प्रधानाचार्यः कान् उद्बोधितवान्?
(vi) अस्माकं देशे किं प्रचलति?
(vii) वयम् किम् इतस्ततः न क्षिपाम?

प्रश्नः6.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत
(क) छात्राणां समूहं निर्माय स्वच्छतां कृतवन्तः। (केस्य/केषां)
(ख) बालकाः प्रबुद्धाः अभवन् ।  (का:/के)
(ग) तेषां कृते सर्वकारः सहयोगं करोति ।  (क:/कम्)
(घ) अवकरम् अवकरपात्रेषुस्थापनीयम्। (कासु/केष
(ङ)इदानीं सार्वजनिकस्थलानि स्वच्छं करवाम। (कानि/के)
उत्तरम्:
प्रश्ननिर्माणम्
(क) केषां समूहं निर्माय स्वच्छतां कृतवन्तः?
(ख) के प्रबुद्धाः अभवन्?
(ग) तेषां कृते कः सहयोगं करोति?
(घ) अवकरम् केषु स्थापनीयम्?
(ङ) इदानीं कानि स्वच्छं करवाम?

प्रश्न:7.
समानार्थकानि पदानि मेलयत
(i) पितृव्यः     –   बोधिताः
(ii) प्रबुद्धाः     –   पितुः भ्राता।
(iii) प्रेरिताः    –    प्रावारकवस्त्रम्
(iv) अवकरम् –    चायपात्रम्
(v) चषकम्    –    जागरूकाः
(vi) परिवेशम्  –   अपशिष्टम्
(vii) जवनिका –   वातावरणम्
उत्तरम्:
(i)पितृव्यः         –  पितृः भ्राता
(ii) प्रबुद्धाः       –  जागरूकाः
(iii) प्रेरिताः       –  बोधिताः
(iv) अवकरम्   –  अपशिष्टम्
(v) चषकम्      –  चायपात्रम्।
(vi) परिवेशम्   –  वातावरणम्
(vii) जवनिका  –  प्रावारकवस्त्रम्

पाठ -परिचय

प्रस्तुत पाठ में एक नाट्यांश के माध्यम से स्वच्छता के महत्त्व आदि के बारे में बतलाते हुए भारत सरकार के द्वारा संचालित स्वच्छता अभियान में योगदान करते हुए अपने – अपने घरों में तथा सार्वजनिक स्थलों में स्वच्छता बनाये रखने की प्रेरणा दी गई है।

पाठ के कठिन

शब्दार्थ – आलिन्दे (कक्षात् बहि: आच्छादितः भागः) = बरामदा। उद्बोधितवान् (विज्ञापितवान्) = बताया। दायित्वम् (कर्तव्यम्) = कर्त्तव्य। पितृव्यः (पितुः भ्राता) = काका, ताऊ। प्रबुद्धाः (जागरुकाः) = सचेत। प्रेरिताः (बोधिताः) = प्रेरित किये गये। प्रवृत्ताः (संलग्नाः) = लग गये। अवकरम् (अपशिष्टम्) = कचरा। आपणम् (वस्तूनां क्रयविक्रय स्थानम्) = बाजार दुकान। चषकम् (चायपात्रम्) = प्याला। कर्मकरेषु (कर्मचारिषु) = कर्मचारियों पर। परिवेशम् (वातावरणम्) = वातावरण। जवनिका (प्रावारकवस्त्रम्) = पर्दा।

पाठ का हिन्दी – अनुवाद एवं पठितावबोधनम्

(1)
(स्वमित्राभ्यां रचनाकौस्तुभाभ्यां सह शुचिश्रीशौ विद्यालयात् गृहम् आगच्छतः। आलिन्दे यशवर्धनः आसन्दे उपविष्टः)
शुचिश्रीशौ – प्रणमावः पितामह! (सर्वे प्रणमन्ति)
यशवर्धनः – आयुष्मान् भव।(रचनाकौस्तुभौ प्रति) एतौ कौ ?
श्रीशः एषः मम मित्रं कौस्तुभः।
शुचिः – एषा च मम सखी रचना।
वन्दना – (प्रविश्य) भोः! विद्यालयात् विलम्बः किमर्थम् ?
श्रीशः – अद्य विद्यालये स्वच्छताकार्यक्रमः आसीत्।
यशवर्धनः प्रतिदिवसं विद्यालये स्वच्छता न भवति किम् ?
कौस्तुभः – भवति, किन्तु अद्य अभियानरूपेण विद्यालयात् बहिः अपि सार्वजनिकेषु स्थानेषु छात्राणां समूहं निर्माय स्वच्छतां कृतवन्तः।

हिन्दी – अनुवाद – (अपने दोनों मित्रों रचना और कौस्तुभ के साथ शुचि और श्रीश विद्यालय से घर आते हैं। बरामदे में यशवर्धन कुर्सी पर बैठा हुआ है।)
शुचि एवं श्रीश – दादाजी ! हम दोनों प्रणाम करते हैं। (सभी प्रणाम करते हैं।)।
यशवर्धन – आयुष्मान् (लम्बी आयु वाले) होवो। (रचना और कौस्तुभ की ओर) ये दोनों कौन। हैं?
श्रीश – यह मेरा मित्र कौस्तुभ है।
शुचि – और यह मेरी सहेली रचना हैं।
वन्दना – (प्रवेश करके) अरे ! विद्यालय से विलम्ब किसलिए हुआ?
श्रीश – आज विद्यालय में स्वच्छता कार्यक्रम था।
यशवर्धन – क्या प्रतिदिन विद्यालय में स्वच्छता नहीं होती हैं?
कौस्तुभ – होती है, किन्तु आज अभियान के रूप में विद्यालय से बाहर भी सार्वजनिक स्थानों पर छात्रों के समूह बनाकर स्वच्छता की गई।

♦ पठितावबोधनम्

निर्देशः – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) शुचिश्रीशौ कुतः गृहम् आगच्छतः?
(ख) यशवर्धनः कुत्र उपविष्ट:?
(ग) श्रीशस्य मित्रं कः?
(घ) विद्यालये कई कार्यक्रमः आसीत्?
(ङ) ‘निर्माय’ पदे क; उपसर्ग : क: प्रत्यय:
(च) अभियानरूपेण छात्राः कुत्र स्वच्छतां कृतवन्तः।
उत्तर:
(क) शुचिश्रीशौं विद्यालयात् गृहम् आगच्छतः।
(ख) यशवर्धनः आलिन्दे आसन्दे उपविष्टः।
(ग) श्रीशस्य मित्रं कौस्तुभः।
(घ) विद्यालये स्वच्छताकार्यक्रमः आसीत्।
(ङ) ‘निर्’ उपसर्गः, ‘ल्यप् प्रत्ययः।
(च) अभियानरूपेण छात्रा: सार्वजनिकेषु स्थानेषु स्वच्छतां कृतवन्तः।

(2)
वन्दना – अस्मिन् विषये सर्वान् छात्रान् कः प्रेरितवान् ?
रचना – अस्माकं प्रधानाचार्यः उद्बोधितवान् ?
लोकेशः – (प्रविश्य) अरे किं प्रचलति अत्र?
यशवर्धनः – (विहस्य) विद्यालयस्य स्वच्छताविषयकं संस्मरणं आवयन्ति।
लोकेशः – (आसन्दे उपविश्य) अहमपि ओतुम् इच्छामि, श्रावयन्तु।
कौस्तुभः – पितृव्य! प्रधानाचार्यः बोधितवान् यत् अस्माकं देशे ”स्वच्छताभियानम्” प्रचलति।
शुचिः – अपि च सः उक्तवान् यद् अस्माकं गृहस्य स्वच्छता तु करणीया एवं सार्वजनिकस्थानेषु बसस्थाने, उद्याने, चिकित्सालये अपि स्वच्छतायाः अस्माकं दायित्वम्।
लोकेशः – केवलं दायित्वं वा आचरणीयम् ?
श्रीशः – भोः पितः। अद्य तु वयं समूहे तत्र गत्वा स्वच्छतां कृतवन्तः।

हिन्दी – अनुवाद
वन्दना – इस विषय में सभी छात्रों को किसने प्रेरित किया?
रचना वन्दना – हमारे प्रधानाचार्य ने बताया। लोकेश (प्रवेश करके) अरे! यहाँ क्या चल रहा हैं?
यशवर्धन – (हँसकर) विद्यालय के स्वच्छता विषयक संस्मरण सुना रहे हैं।
लोकेश – (कुर्सी पर बैठकर) मैं भी सुनना चाहता हूँ, सुनाइए।
कौस्तुभ – ताऊजी ! प्रधानाचार्य ने बताया कि हमारे देश में स्वच्छता – अभियान’ चल रहा है।
शुचि – और उन्होंने कहा कि हमारे घर की स्वच्छता तो करनी ही चाहिए, सार्वजनिक स्थानों बस स्टेण्डे, उद्यान, चिकित्सालय आदि पर भी स्वच्छता का दायित्व हमारा है।
लोकेश – क्या केवल दायित्व का ही आचरण करना चाहिए?
श्रीश – हे पिताजी ! आज तो हम सबने समूह में वहाँ जाकर स्वच्छता की है।

♦ पठितावबोधनम्

निर्देशः – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) श्रीशस्य पितामहः कः आसीत्?
(ख) श्रीशस्य पितुः किन्नाम?
(ग) छात्रान् कः उद्बोधितवान्?
(घ) छात्राः किं श्रावयन्ति स्म?
(ङ) “श्रावयन्तु’ पदे कः लकार:? किं वचनम्?
(च) अस्माकं देशे अधुना किं प्रचलति?
उत्तर:
(क) श्रीशस्य पितामह: यशवर्धनः आसीत्।
(ख) श्रीशस्य पितुः नाम लोकेश:।
(ग) छात्रान् प्रधानाचार्य: उद्बोधितवान्।
(घ) छात्रा: विद्यालयस्य स्वच्छताविषयकं संस्मरणं श्रावयन्ति स्म।
(ङ) लोट्लकार:, बहुवचनम्।
(च) अस्माकं देशे अधुना स्वच्छताभियानम्” प्रचलति।

(3)
यशवर्धनः – (हसन्) लोकेश! बालकाः प्रबुद्धाः अभवन्।
वन्दना – अरे एतत् तु अस्माकं प्रधानमन्त्रिमहोदयस्य चमत्कारोऽस्ति।
लोकेशः – आम्! तेन प्रेरिताः सर्वे नेतारः अधिकारिणः नागरिकाश्च एतस्मिन् कार्ये प्रवृत्ताः सन्ति। मम कार्यालयेऽपि सर्वे…………..।
शुचिः – (मध्ये एव) दूरदर्शने अपि शौचालयनिर्माणविषये विज्ञापनम् आगच्छति।
कौस्तुभ: – ये निर्धनाः सन्ति ते स्वगृहे शौचालयनिर्माणं कथं करिष्यन्ति।
लोकेशः – तेषां कृते सर्वकारः आर्थिकसहयोगं करोति।
रचना – अस्मिन् वर्षे अस्माकं विद्यालयेऽपि शौचालयानां निर्माणम् अभवत्।
सन्ध्या – (अल्पाहारम् आदाय प्रविश्य) विद्यालये परिश्रमं कृत्वा आगतवन्तः अतः अल्पाहारेण सह वार्तालापं कुर्वन्तु।

हिन्दी – अनुवाद
यशवर्धन – (हँसते हुए) लोकेश ! बालक जागरूक हो गये हैं।
वन्दना – अरे, यह तो हमारे प्रधानमन्त्री महोदय का चमत्कार हैं।
लोकेश – हाँ! उनसे प्रेरित होकर सभी नेता, अधिकारी और नागरिक इस कार्य में लग गये हैं। मेरे कार्यालय में भी सभी………..।
शुचि – (बीच में ही) दूरदर्शन पर भी शौचालय निर्माण के विषय में विज्ञापन आता है।
कौस्तुभ – जो गरीब हैं, वे अपने घर में शौचालय का निर्माण कैसे करेंगे?
लोकेश – उनके लिए सरकार आर्थिक सहयोग करती हैं।
रचना – इस वर्ष हमारे विद्यालय में भी शौचालयों का निर्माण हुआ है।
सन्ध्या – (अल्पाहार/नाश्ता लेकर प्रवेश करके) विद्यालय में परिश्रम करके आये हो, इसलिए अल्पाहार के साथ बातचीत करो।

♦ पठितावबोधनम्

निर्देशः – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्न: –
(क) बालकाः कीदृशाः अभवन्?
(ख) एतत् कस्य चमत्कारोऽस्ति?
(ग) निर्धनेभ्यः शौचालयनिर्माणाय कः आर्थिकसहयोगं करोति?।
(घ) अल्पाहारमादाय का आगच्छति?
(ङ) ‘नेतारः’ पदे का विभक्तिः ? किं वचनम्?
(च) शौचालयनिर्माणविषये दूरदर्शने किम् आगच्छति?
उत्तर:
(क) बालकाः प्रबुद्धाः अभवन्।
(ख) एतत् अस्माकं प्रधानमन्त्रिमहोदयस्य चमत्कारोऽस्ति।
(ग) निर्धनेभ्यः शौचालयनिर्माणाय सर्वकारः आर्थिकसहयोगं करोति।
(घ) अल्पाहारमादाय सन्ध्या आगच्छति।
(ङ) प्रथमा, बहुवचनम्।
(च) शौचालयनिर्माणविषये दूरदर्शने विज्ञापनम् आगच्छति।

(4)
शुचिः – (अल्पाहारं कुर्वन्) आपणे पूर्व सर्वे चायं पीत्वा अवकरम् इतस्ततः क्षिपन्ति स्म, किन्तु इदानीं सर्वकारेण अवकरपात्राणि स्थापितानि तत्र अबकरपात्रेषु अवकर स्थापनीयम्।
श्रीशः – इदानीं तु चायचषकान् मह्यं ददतु। अहमेव मार्जयामि।
सन्ध्या – (आश्चर्येण) अहो! शोभनम् शोभनम्।
वन्दना – सन्ध्ये! अद्य प्रभृतिः एते बालकाः गृहकार्येषु अपि साहाय्यं करिष्यन्ति इति चिन्तयामि।
शुचिः – आम् पितामहि! अस्माकं प्रधानाचार्या अपि स्वगृहे स्वच्छतादीनि कार्याणि करोति।

हिन्दी – अनुवाद
शुचि – (अल्पाहार करती हुई) बाजार में पहले सभी चाय पीकर कचरे को इधर – उधर फेंकते थे,
किन्तु अब सरकार के द्वारा कचरा – पात्र रखवा दिये गये हैं, अतः कचरा – पात्रों में ही कचरा डालना चाहिए।
श्रीश – इस समय तो चाय का प्याला मुझे दीजिए। मैं ही साफ करता है।
सन्ध्या – (आश्चर्य से) अहो! सुन्दर, सुन्दर।
वन्दना – सन्ध्या! आज से ये बालक घर के कार्यों में भी सहयोग करेंगे ऐसा मैं सोचती हूँ।
शचि – हाँ दादीजी ! हमारी प्रधानाचार्या भी अपने घर में स्वच्छता आदि कार्य करती है।

♦ पठितावबोधनम्

निर्देशः – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – – प्रश्नाः
(क) आपणे पूर्व सर्वे अवकरं कुत्र क्षिपन्ति स्म?
(ख) इदानीं सर्वकारेण कानि स्थापितानि?
(ग) केषु एव अवकरं स्थापनीयम्?
(घ) अद्य प्रभृति: बालका: केषु साहाय्यं करिष्यन्ति?
(छ) ‘इतस्ततः’ पदस्य सन्धिविच्छेदं कुरुत।
(च) प्रधानाचार्या स्वगृहे कानि कार्याणि करोति?
उत्तर:
(क) आपणे पूर्वं सर्वे अवकरम् इतस्तत: क्षिपन्ति स्म।
(घ) इदानीं सर्वकारेण अवकरपात्राणि स्थापितानि।
(ग) अवकरपात्रेषु एव अवकरं स्थापनीयम्।
(घ) अद्य प्रभृति: बालका: गृहकार्येषु साहाय्यं करिष्यन्ति।
(ङ) इत; + तत:।
(च) प्रधानाचार्या स्वगृहे स्वच्छतादीनि कार्याणि करोति।

(5)
यशवर्धनः – भवत्याः प्रधानाचार्या एव न अस्माकं राष्ट्रपितामहात्मागान्धीः अपि साबरमती आश्रमे स्वयमेव स्वच्छताकार्यं करोति स्म। कर्मकरेषु आश्रितः नासीत्।
लोकेशः – सः तु अस्माकं प्रेरणापुरुषः अस्ति।
रचना – वयम् अपि विद्यालये प्रतिज्ञां कृतवन्तः यत् अस्माकं परिवेशं स्वच्छं करिष्यामः।
सन्ध्या – वयं गृहजनाः अपि प्रतिज्ञां करवाम यत् वयम् अस्माकं गृहं, कार्यालयं, चिकित्सालयं, धार्मिकस्थलानि, उद्यानानि, सार्वजनिकस्थलानि च स्वच्छ करवाम्। तत्र अवकरम् इतस्ततः न क्षिपाम। येन अस्माकं देशः सुन्दरः नागरिकाः च स्वस्थाः भवन्तु।
सर्वे – आम्। सर्वे प्रतिज्ञां करवाम।

(सर्वे प्रतिज्ञां कुर्वन्ति)
(जवनिकापातः)

हिन्दी – अनुवाद
यशवर्धन – आपकी प्रधानाचार्या ही नहीं, हमारे राष्ट्रपिता महात्मा गाँधी भी साबरमती के आश्रम में स्वयं ही स्वच्छता – कार्य करते थे। वे कर्मचारियों पर आश्रित नहीं थे।
लोकेश – वह तो हमारे प्रेरणा – पुरुष हैं।
रचना – हम सबने भी विद्यालय में प्रतिज्ञा की है कि हमारे वातावरण को स्वच्छ करेंगे।
सन्ध्या – हम सब घर के लोग भी प्रतिज्ञा करें कि हम हमारे घर, कार्यालय, चिकित्सालय, धार्मिक स्थान, उद्यान और सार्वजनिक स्थलों को स्वच्छ करें। वहाँ कचरे को इधर – उधर नहीं फेंकें। जिससे हमारा देश सुन्दर और नागरिक स्वस्थ होवें।

(सभी प्रतिज्ञा करते हैं।)
(परदा गिरता है।)

♦ पठितावबोधनम्

निर्देश: – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) महात्मागान्धीः अपि कुत्र स्वयमेव स्वच्छताकार्य करोति स्म?
(ख) स: केषु आश्रितः नासीत्?
(ग) कः अस्माकं प्रेरणापुरुष: अस्ति?
(घ) वयं अस्माकं परिवेशं कीदृशं करवाम?
(ङ) ‘चिकित्सालयम्’ पदस्य सन्धिविच्छेदं कुरुत।
(च) सर्वे गृहजनाः किं कुर्वन्ति?
उत्तर:
(क) महात्मागान्धीः अपि साबरमती आश्रमे स्वयमेव स्वच्छताकार्यं करोति स्म।
(ख) सः कर्मकरेषु आश्रितः नासीत्।
(ग) महात्मागान्धी: अस्माकं प्रेरणापुरुषः अस्ति।
(घ) वयं अस्माकं परिवेशं स्वच्छं करवाम।
(ङ) चिकित्सा + आलयम्।
(च) सर्वे गृहजनाः प्रतिज्ञा कुर्वन्ति।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published.