RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना pdf Download करे| RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना

RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 मौखिक प्रश्न

प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुरुत

  1. शक्नोति
  2. विद्वांसः
  3. संवत्सराः
  4. विक्रमसंवत्
  5. ईसवीयसंवत्
  6. प्रयुज्यते
  7. सपादद्वि
  8. माङ्गलिकाः
  9. तर्पणादिकृत्यं
  10. पुष्यनक्षत्रस्य
  11. सङ्क्रान्तिः

उत्तरम्:
[नोट-उपर्युक्त पदों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि वदत
(क)एकस्मिन् वर्षे कति मासाः भवन्ति?
उत्तरम्:
द्वादशः

(ख) वसन्तपञ्चमी कस्मिन् मासे भवति?
उत्तरम्:
माघमासे

(ग) एकस्मिन् वर्षे कति ऋतवः भवन्ति?
उत्तरम्:
षड्
(घ) एकस्मिन् वर्षे सूर्य: कति नक्षत्रेषु परिभ्रमति?
उत्तरम्:
सप्तविंशतिः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 लिखितप्रश्नाः

प्रश्न 1.
लघूत्तरात्मक प्रश्नाः
(क) कालः कीदृशः अस्ति?
उत्तरम्:
काल: परिवर्तनशीलः सततं चलायमानः चास्ति

(ख) वर्षशब्दस्य वाचकाः अन्ये शब्दा: के?
उत्तरम्:
संवत्, संवत्सरः, वर्षं चेति शब्दाः

(ग) नक्षत्राणां संख्या कति सन्ति?.
उत्तरम्:
नक्षत्राणां संख्या सप्तविंशतिः सन्ति

(घ) भारतीयमासानां पक्षयोः नामनी लिखत
उत्तरम्:
क्लपक्ष: कृष्णपक्षश्च

प्रश्न 2.
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 14  भारतीय कालगणना
उत्तरम्:
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना - 2

प्रश्न 3.
मजूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत
राष्ट्रिय, गणना, त्रिंशद्, प्रचलति, सपादद्वि
उत्तरम्:
(क) कालविषयिनी गणना वैदिकालात् प्रचलिता अस्ति
(ख) कालचक्रं सततं प्रचलति
(ग) तत्र शकसंवत् अस्माकं राष्ट्रिय संवत् विद्यते
(घ) सपादद्वि नक्षत्राणां मेलनं कृत्वा एकस्याः राशेः निर्माण भवति
(ङ) एकस्मिन् मासे त्रिंशद् दिवसाः भवन्ति

प्रश्न 4.
निम्नलिखितशब्दानां पर्यायवाची शब्दान् लिखत
उत्तरम्:
(क) संवत्सरः                 –    संवत्, वर्षम्
(ख) सूर्यः                      –    रविः, आदित्यः
(ग) वसन्तः                    –    मधुमासः, ऋतुराजः
(घ) माहः                       –    मासः
(ङ) चन्द्रः                      –    इन्दुः

प्रश्न 5.
भारतीयमासानां तिथीनां च नामानि लिखत
उत्तरम्:
मासाः-चैत्रः, वैशाखः, ज्येष्ठः, आषाढः, श्रावणः, भाद्रपदः, आश्विनः, कार्तिकः, मार्गशीर्षः, पौषः, माघः, फाल्गुनश्चेति
तिथयः-प्रतिपदा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी, पूर्णिमा, अमावस्या चेति।

प्रश्न 6.
ऋतूणां नामानि लिखत
उत्तरम्:
वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरश्चेति

योग्यता-विस्तारः
(१) द्वादशराशीणां नामानि
१. मेषः
२. वृषभः
३. मिथुनः
४. कर्कः
५. सिंहः
६. कन्या
७. तुला
८. वृश्चिकः
९. धनुः
१०. मकरः
११. कुम्भः
१२. मीनः
४. शरद्
३. मङ्गलवासरः
६. शुक्रवासरः

(२) भारतीयाः षड्ऋतवः
१. वसन्तः
२. ग्रीष्मः
३. वर्षा
५. हेमन्तः
६. शिशिरः

(३) सेप्ताहस्य सप्तदिवसाः
१. रविवासरः
२. सोमवासरः
४. बुधवसरः
५. गुरुवासरः
७. शनिवासरः

(४) द्वौ पक्षी
१. कृष्णपक्षः
२. शुक्लपक्षः

(५) द्वे अयने
१.उत्तरायणम्
२. दक्षिणायनम्

(६) सप्तविंशति नक्षत्रानि
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना - 3

क्रमवाचक शब्द २१ से ५० तक ( मूलरूपम् )
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना - 4
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना - 5

RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 अन्य महत्त्वपूर्ण प्रश्नोत्त

वस्तुनिष्ठ
प्रश्नाः1.
एकस्मिन् वर्षे ऋतवः भवन्ति
(क) षड्:
(ख) तिस्रः
(ग) चतस्रः
(घ) द्वादशः

2.नक्षत्राणि भवन्ति
(क) द्वादश
(ख) पञ्चदश
(ग) सप्तविंशतिः
(घ) चतुर्विंशति

3.निर्जला-एकादशीव्रतं भवति
(क) चैत्रमासे
(ख) ज्येष्ठमासे
(ग) कार्तिकमासे
(घ) माघमासे

4.सरस्वत्याः पूजनं माघमासे तिथौ भवत
(क) पूर्णिमायां
(ख) अमावस्यायां
(ग) वसन्तनवम्यां
(घ), वसन्तपञ्चम्यां

5.’तत्र शकसंवत् अस्माकं राष्ट्रियसंवत् विद्यते’ अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) विद्यते
(ख) शकसंवत्
(ग) अस्माकं
(घ) तत्र

6.शरदपूर्णिमा………अस्मिन् मासे भवति अत्र उचितं अव्ययं किम्?
(क) अपि
(ख) यदा
(ग) एव
(घ) अद्य

7.रक्षाबंधनं कस्मिन् मासे आयोज्यते?
(क) चैत्रमासे
(ख) कार्तिकमासे
(ग) फाल्गुनमासे
(घ) श्रावणमासे

8.मकरसंक्रान्ति-पर्व कस्मिन् मासे भवति?
(क) माघमासे
(ख) पौषमासे
(ग) आश्विनमासे
(घ) ज्येष्ठमासे
उत्तराणि:
1. (क)
2. (ग)
3. (ख)
4. (घ)
5. (ग)
6. (क)
7. (घ)
8. (ख)

मञ्जूषात् समुचितपदं चित्वा रिक्तस्थानानि पूरयत
(एकस्मिन्, सततम्, फाल्गुनमासे, चैत्रमासे)
1. कालचक्रं………..:प्रचलति
2. सूर्यः एकमासे…………राशौ भ्रमति
3. चैत्रीचन्द्रः…………आगच्छति
4. होलिकादहनं……..भवति
उत्तराणि:
1. सततम्,
2. एकस्मिन्,
3. चैत्रमासे,
4. फाल्गुनमासे

RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 अतिलघूत्तरात्मकप्रश्नाः

(एकपदेन उत्तरत)
प्रश्न 1.
प्राचीनकालात् लोकव्यवहारे किम् संवत् प्रचलति?
उत्तरम्:
विक्रमसंवत्

प्रश्न 2.
कति नक्षत्राणां मेलनं कृत्वा एकस्याः राशेः निर्माणं भवति?
उत्तरम्:
सपादद्विनक्षत्राणाम्

प्रश्न 3.
वैशाखमासस्य नाम कस्य नक्षत्रस्योपरि वर्तते?
उत्तरम्:
विशाखानक्षत्रस्य

प्रश्न 4.
देवशयनी एकादशी कस्मिन् मासे भवति?
उत्तरम्:
आषाढमासे

प्रश्न 5.
आश्विनमासस्य द्वितीये पक्षे कस्याः पूजा सर्वत्र भवति?
उत्तरम्:
दुर्गादेव्याः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 लघूत्तरात्मकप्रश्नाः

(पूर्णवाक्येन उत्तरत)
प्रश्न 1.
अद्यत्वे व्यवहारे के संवत्सराः प्रमुखाः सन्ति?
उत्तरम्:
अद्यत्वे व्यवहारे विक्रमसंवत्, शालिवाहन, शकसंवत्, ईसवीयसंवत् चेति संवत्सरा: प्रमुखाः सन्ति

प्रश्न 2.
एकस्मिन् वर्षे कति ऋतवः भवन्ति? नामानि हैं लिखत
उत्तरम्:
एकस्मिन् वर्षे षड् ऋतवः भवन्ति–वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरश्च

प्रश्न 3.
द्वादशानां नक्षत्राणां पूर्णिमातिथेः अनुसारं केषां नामकरणं जातम्?
उत्तरम्:
द्वादशानां नक्षत्राणां पूर्णिमातिथे: अनुसारं द्वादशमासानां नामकरणं जातम्

प्रश्न 4.
पूर्णिमा अमावस्या च कदा-कदा भवति?
उत्तरम्:
प्रत्येकस्मिन् मासे शुक्लपक्षान्ते पूर्णिमा कृष्णपक्षान्ते च अमावस्या भवति

प्रश्न 5.
रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(i) एकस्मिन् मासे त्रिंशद् दिवसाः भवन्ति
(ii) चतुर्युगानामेकः महायुग: भवति
(iii) द्विसप्ततिः महायुगानाम् एकः मन्वन्तरः भवति
(iv) अधुना वैवस्वतमन्वन्तरस्य अष्टाविंशतितमो महायुगो प्रचलति
(v) प्रत्येकं पक्षे पञ्चदश तिथयो भवन्ति
(vi) एकस्मिन् वर्षे द्वादश मासाः भवन्ति
उत्तरम्:
प्रश्ननिर्माणम्
(i) एकस्मिन् मासे कति दिवसाः भवन्ति?
(ii) चतुर्युगानामेकः कः भवति?
(iii) कति महायुगानाम् एकः मन्वन्तरः भवति?
(iv) अधुना वैवस्वतमन्वन्तरस्य कीदृशः महायुगो प्रचलति?
(v) प्रत्येकं पक्षे कति तिथयो भवन्ति?
(vi) एकस्मिन् वर्षे कति मासाः भवन्ति

प्रश्न 6.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत
(क) कालचक्रं सततं प्रचलति। (काम्/किम्)
(ख) अत्र विभिन्नाः संवत्सराः प्रचलिताः। (कानि/के)
(ग) विक्रमसंवत् लोकव्यवहारे प्रचलति। (किम्/कम्)
(घ) वसन्तपञ्चम्यां सरस्वत्याः पूजनं भवति। (कस्य/कस्याः)
(ङ) एकस्मिन् मासे द्वौ पक्षौ भवतः। (कौ/कयो:)
उत्तरम्:
प्रश्ननिर्माणम्
(क) किम् सततं प्रचलति?
(ख) अत्र विभिन्ना: के प्रचलिता:?
(ग) किं लोकव्यवहारे प्रचलति?
(घ) वसन्तपञ्चम्यां कस्याः पूजनं भवति?
(ङ) एकस्मिन् मासे द्वौ कौ भवत:?

पाठ-परिचय
प्रस्तुत पाठ में भारतीय समयानुसार काल-गणना का परिचय देते हुए वैदिक काल से प्रचलित विभिन्न संवत्, वर्ष, ऋतुओं, नक्षत्रों, राशियों, महीनों, पक्षों, तिथियों एवं वारों की संख्या एवं उनके नामकरण के बारे में बतलाया गया है। साथ ही इसमें संस्कृत भाषा में क्रमवाची संख्याओं का भी ज्ञान कराया गया है।

पाठ के कठिन
शब्दार्थ-सततम् (निरन्तरम्) = लगातार। व्यापकः (सर्वत्र) = सब स्थानों पर। अद्यत्वे (सम्प्रति) = आजकल। सपादद्वि (पादसहितं द्वि) = सवा दो। आश्रित्य (अवधृत्य) = आधार पर।

पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्-

(1) कालचक्रं सततं प्रचलति। भारते कालविषयिनी गणना वैदिककालात् प्रचलिता अस्ति। अत्र विभिन्नाः संवत्सराः प्रचलिताः अभवन्। परम् अद्यत्वे व्यवहारे विक्रमसंवत्, शालिवाहन, शकसंवत्, ईसवीयसंवत् चेति संवत्सराः प्रमुखाः सन्ति। तत्र शकसंवत् अस्माकं राष्ट्रियसंवत् विद्यते। विक्रमसंवत्। प्राचीनकालाद-विशेषतः लोकव्यवहारे प्रचलति। ईसवीयसंवत् च अद्यत्वे राजकार्ये प्रायेण प्रयुज्यते। संवत्, संवत्सरः, वर्ष चेति शब्दाः पर्यायवाचनः सन्ति। एकस्मिन् वर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरश्चेति षड्ऋतवः भवन्ति।

हिन्दी-अनुवाद-समय-चक्र निरन्तर चलता रहता है। भारत में समय (काल) विषयक गणना वैदिक काल से प्रचलित है। यहाँ विभिन्न संवत्सर प्रचलित हुए हैं। परन्तु आजकल व्यवहार में विक्रम संवत्, शालिवाहन, शक संवत्, ईसवीय संवत्-ये संवत्सर प्रमुख हैं। उनमें शक संवत् हमारा राष्ट्रीय संवत् है। विक्रम संवत् प्राचीन काल से विशेष रूप से लोक-व्यवहार में प्रचलित है और ईसवीय संवत् (वर्ष) आजकल राजकार्य में प्रायः प्रयुक्त होता है। संवत्, संवत्सर और वर्ष शब्द पर्यायवाची हैं। एक वर्ष में वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त और शिशिर ये छः ऋतुएँ होती हैं।

♦ पठितावबोधनम्

निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) किम् अस्माकं राष्ट्रियसंवत् विद्यते?
(ग) अद्यत्वे राजकार्ये प्रायेण किम् संवत् प्रयुज्यते?
(घ) के शब्दा: पर्यायवाचनः सन्ति?
(ङ) ‘शिशिरश्चेति’ पदस्य सन्धिविच्छेदं कुरुत।
(च) एकस्मिन् वर्षे कति ऋतवः भवन्ति?
उत्तर:
(क) भारतीय कालगणना।
(ख) शकसंवत् अस्माकं राष्ट्रियसंवत् विद्यते।
(ग) अद्यत्वे राजकार्ये प्रायेण ईसवीयसंवत् प्रयुज्यते।
(घ) संवत्, संवत्सरः, वर्ष चेति शब्दा: पर्यायवाचनः सन्ति।
(ङ) शिशिरः + च + इति।
(च) एकस्मिन् वर्षे षड्ऋतवः भवन्ति।

(2) एकस्मिन् वर्षे सूर्यः सप्तविंशति (27) नक्षत्रेषु परिभ्रमति। एतदनुसारमेव भारतीय वर्षस्य निर्माणम् भवति। द्वादशानां नक्षत्राणां पूर्णिमातिथेः अनुसारं द्वादशानां मासानां नामकरणं जातम्। सपादद्वि नक्षत्राणां मेलनं कृत्वा एकस्या राशेः निर्माणं भवति। सूर्यः एकमासे एकस्मिन् राशौ भ्रमति। द्वादशमासानां नामकरणं पूर्णिमातिथौ आगतस्य चान्द्रनक्षत्रस्य उपरि जातम्। यथा-चैत्र-चित्राम्, वैशाख-विशाखाम्, ज्येष्ठः-ज्येष्ठाम् आषाढ:-पूर्वाषाढाम्, श्रावणः-श्रवणं, भाद्रपदः-भाद्रपदम्, आश्विन:-अश्विनी, कार्तिकः कृतिका, मार्गशीर्षः-मृगशिरा, पौषः-पुष्यं, फाल्गुनः-फाल्गुनीमाश्रित्य विख्याताः।

हिन्दी-अनुवाद–एक वर्ष में सूर्य 27 नक्षत्रों में भ्रमण करता है। इसी के अनुसार ही भारतीय वर्ष का निर्माण होता है। यह नक्षत्रों की पूर्णिमा तिथि के अनुसार बारह महीनों का नामकरण हुआ है। सवा दो नक्षत्रों को मिलाकर एक राशि का निर्माण होता है। सूर्य एक महीने में एक राशि में भ्रमण करता है। बारह महीनों का नामकरण पूर्णिमा तिथि को आये हुए चान्द्र नक्षत्र के ऊपर हुआ है। जैसे–चैत्र-चित्रा नक्षत्र पर, वैशाख-विशाखा नक्षत्र पर, ज्येष्ठज्येष्ठा पर, आषाढ पूर्वाषाढ़ पर, श्रावण- श्रवण पर, भाद्रपद-भाद्रपद पर, आश्विन-अश्विनी पर, कार्तिक-कृतिका। पर, मार्गशीर्ष मृगशिरा पर, पौष पुष्य पर तथा फाल्गुन माह-फाल्गुनी नक्षत्र पर आश्रित होकर प्रसिद्ध हैं।

♦ पठितावबोधनम्

निर्देश- उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) एकस्मिन् वर्षे सूर्य: कति नक्षत्रेषु परिभ्रमति?
(ख) सपादद्वि नक्षत्राणां मेलनं कृत्वा कस्याः निर्माणं भवति?
(ग) कः एकमासे एकस्मिन् राशौ भ्रमति?
(घ) द्वादशमासानां नामकरणं कस्य उपरि जातम्?
(ङ) कार्तिकमासस्य नाम कम् नक्षत्रमाश्रित्य जातम्?
(च) ‘राश’ पदे का विभक्तिः? किं वचनम्?।
उत्तर:
(क) एकस्मिन् वर्षे सूर्यः सप्तविंशति: नक्षत्रेषु परिभ्रमति।
(ख) संपादहि नक्षत्राणां मेलनं कृत्वा एकस्याः राशेः निर्माणं भवति।
(ग) सूर्य : एकमासे एकस्मिन् राशौ भ्रमति।
(घ) द्वादशमासानां नामकरणं पूर्णिमातिथौ आगतस्य चान्द्रनक्षत्रस्य उपरि जातम्।
(ङ) कार्तिकमासस्य नाम कृतिकानक्षत्रमाश्रित्य जातम्।
(च) सप्तमी, एकवचनम्।

(3)
१. चैत्रमासः – अस्मात् मासाद् एव विक्रमसम्वत् प्रारभ्यते। भगवतीदुर्गायाः उपासना, चैत्री चन्द्रः (सिन्धी समाजस्यपर्वः) भगवतः श्री रामचन्द्रस्य जन्मोत्सव अस्मिन्नेव मासे आगच्छति।
२. वैशाखमासः- अस्मिन् मासे अक्षयतृतीया, बुद्धपूर्णिमा च आयातः। बहूनि माङ्गलिक कार्याणि अप्यस्मिन् मासे भवन्ति।
३. ज्येष्ठमासः – अस्मिन् मासे निर्जला-एकादशी, वटसावित्री-व्रतपूजनम् अन्ये च माङ्गलिकाः उत्सवाः भवन्ति।
४, आषाढमासः- अस्मिन् मासे देवशयनी एकादशी, गुरुपूर्णिमा, भगवतः जगन्नाथस्य रथ यात्रादयः व्रतोत्सवाः भवन्ति।

हिन्दी-अनुवाद-
1, चैत्र माह-इसी माह से ही विक्रम सम्वत् प्रारम्भ होता है। भगवती दुर्गा की उपासना (नवरात्रा), चेटीचण्ड (सिन्धी समाज का पर्व) और भगवान् श्रीरामचन्द्र का जन्मोत्सव (रामनवमी) इसी महीने में आता है।
2. वैशाख माह-इस महीने में अक्षय तृतीया (आखा तीज) और बुद्ध-पूर्णिमा आते हैं। बहुत से मांगलिक कार्य भी इस महीने में होते हैं।
3. ज्येष्ठ माह-इस माह में निर्जला एकादशी, वट सावित्री-व्रत पूजन और अन्य माँगलिक उत्सव होते हैं।
4. आषाढ़ माह-इस माह में देवशयनी एकादशी, गुरु पूर्णिमा, भगवान जगन्नाथ की रथ-यात्रा आदि व्रत एवं उत्सव होते हैं।

♦ पठितावबोधनम्

निर्देश:-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) कस्मात् मासाद् विक्रमसम्वत् प्रारभ्यते?
(ख) अक्षयतृतीया बुद्धपूर्णिमा च कस्मिन् मासे आयात?
(ग) निर्जला एकादशी कस्मिन् मासे भवति?
(घ) भगवतः जगन्नाथस्य रथयात्रा कस्मिन् मासे भवति?
(ङ) भगवती दुर्गायाः उपासना (नवरात्रा) कस्मिन् मासे भवति?
(च) ‘अप्यस्मिन्’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) चैत्रमासाद् विक्रमसम्वत् प्रारभ्यते।
(ख) अक्षयतृतीया बुद्धपूर्णिमा च वैशाखमासे आयातः।
(ग) निर्जला एकादशी ज्येष्ठमासे भवति।
(घ) भगवतः जगन्नाथस्य रथयात्रा आषाढमासे भवति।
(ङ) भगवती दुर्गायाः उपासना (नवरात्रा) चैत्रमासे भवति।
(च) अपि + अस्मिन्।

(4)
५. श्रावणमासः – अस्मिन् मासे बहूनि-धार्मिकपर्वाणि यथा-हरियाली अमावस्या, श्रावणी तृतीया, श्रावणीकर्म रक्षाबन्धनं च आयोज्यन्ते।
६. भाद्रपदमासः- अस्मिन् मासे भगवतः श्रीकृष्णस्य जन्मोत्सवपर्वणः, वत्सद्वादश्याः, ऋषिपञ्चम्याः, गणेशोत्सवस्य, अनन्तचतुर्दश्याः आयोजनं भवति।
७, आश्विनमासः = अस्य मासस्य प्रथमपक्षे पितृणां तर्पणादिकृत्यं भवति। द्वितीये पक्षे च दुर्गा देव्याः पूजा सर्वत्र भवति। क्षत्रियाणां शस्त्रादि पूजनार्थं विजयदशमी पर्वः, शरदपूर्णिमा अपि अस्मिन् मासे भवति।
८, कार्तिकमासः- अस्मिन् मासे कर्कचतुर्थी, अहोई अष्टमी, धनत्रयोदशी, दीपावलीमहोत्सवः, गोवर्धनपूजा, भ्रातृद्वितीया, देवोत्थायी एकादशी, कार्तिकपूर्णिमादीनि पर्वाणि समायान्ति।

हिन्दी-अनुवाद-
5, श्रावण माह-इस माह में बहुत से धार्मिक पर्व आयोजित होते हैं, जैसे-हरियाली। अमावस्या, श्रावणी तृतीया, श्रावणी कर्म और रक्षाबन्धन।
6, भाद्रपद माह इस माह में भगवान् श्रीकृष्ण का जन्मोत्सव पर्व, वत्स द्वादशी, ऋषि-पंचमी, गणेश-उत्सव। तथा अनन्त चतुर्दशी का आयोजन होता है।
7. आश्विन माह-इस माह के प्रथम पक्ष में पितरों का तर्पण ( श्राद्ध पक्ष) आदि कार्य होता है, और दूसरे पक्ष में दुर्गा देवी की पूजा (नवरात्रा) सभी जगह होती है। क्षत्रियों के शस्त्र आदि पूजन के लिए विजय दशमी (दशहरा) पर्व तथा शरद पूर्णिमा भी इस माह में होती है।
8, कार्तिक माह-इस माह में कर्क चतुर्थी (करवा चौथ), अहोई अष्टमी, धन-त्रयोदशी (धनतेरस), दीपावली महोत्सव, गोवर्धन पूजा, भाई-दोज, देव उठनी एकादशी, कार्तिक पूर्णिमा आदि पर्व आते हैं।

♦ पठितावबोधनम्

निर्देशः–उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) रक्षाबन्धन कस्मिन् मासे आयोज्यते?
(ख) श्रीकृष्णजन्मोत्सवस्य गणेशोत्सवस्य च आयोजनं कस्मिन् मासे भवति?
(ग) पितृणां तर्पणादिकृत्यं कदा भवति?।
(घ) कस्मिन् मासे विजयदशमी पर्व: भवति?
(ङ) दीपावलीमहोत्सवः कस्मिन् मासे समायाति?
(च) ‘महोत्सव:’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) रक्षाबन्धनं श्रावणमासे आयोज्यते।
(ख) श्रीकृष्णजन्मोत्सवस्य गणेशोत्सवस्य च आयोजनं भाद्रपदमासे भवति।
(ग) पितृणां तर्पणादिकृत्यं आश्विनमासस्य प्रथमपक्षे भवति।
(घ) आश्विनमासे विजयदशमी पर्व: भवति।
(ङ) दीपावलीमहोत्सव: कार्तिकमासे समायाति।
(च) महा + उत्सवः।

(5)
९. मार्गशीर्षमासः – अस्मिन् मासे मोक्षप्रदा एकादशीव्रतमायाति।
१०, पौषमासः अस्मिन् मासे पुत्रदा एकादशी, मकरसङक्रान्तिः केरलादिप्रदेशस्य पोइल इत्यादीनि पर्वाणि च भवन्ति।
११. माघमासः अस्मिन् मासे वसन्तपञ्चम्यां तिथौ विद्यादेव्याः सरस्वत्याः पूजनं महाकवि माघस्य जयन्ती माघ पूर्णिमा च भवन्ति।
१२, फाल्गुनमासः – अस्मिन् मासे होलिकादहनम्, धूलिवन्दनं सम्वत्सरावसानं च भवति।

हिन्दी-अनुवाद-
9. मार्गशीर्ष माह-इस माह में मोक्षप्रदा एकादशी का व्रत आता है।
10. पौष माह-इस माह में पुत्रदा एकादशी, मकर संक्रान्ति, केरल आदि प्रदेश का पोंगल आदि पर्व होते हैं।
11. माघ माह-इस माह में वसन्त पंचमी तिथि को विद्या की देवी सरस्वती का पूजन, महाकवि माघ की जयन्ती और माघ-पूर्णिमा होते हैं।
12, फाल्गुन माह-इस माह में होलिका दहन, धूलण्डी और वर्ष का समापन होता है।

♦ पठितावबोधनम्

निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) कस्मिन् मासे मोक्षप्रदा एकादशीव्रतमायाति?
(ख) मकरसंक्रान्तिपर्वः कस्मिन् मासे भवति?
(ग) सरस्वत्याः पूजनं मुख्यत: कदा भवति?
(घ) होलिकोत्सवः कस्मिन् मासे समायाति?
(ङ) महाकविमाघस्य जयन्ती कस्मिन् मासे भवति?
(च) ‘सरस्वत्याः’ पदे का विभक्तिः? किं वचनम्?
उत्तर:
(क) मार्गशीर्षमासे मोक्षप्रदा एकादशीव्रतमायाति।
(ख) मकरसंक्रान्तिपर्वः पौषमासे भवति।
(ग) सरस्वत्याः पूजनं मुख्यत: माघमासे वसन्तपञ्सम्यां तिथौ भवति।
(घ) होलिकोत्सव: फाल्गुनमासे समायाति।
(ङ) महाकविमाघस्य जयन्ती माघमासे भवति।
(च) षष्ठी, एकवचनम्।

(6) एकस्मिन् मासे त्रिंशद् दिवसाः द्वौ पक्षौ च भवतः-शुक्लः कृष्णश्च। तत्र प्रत्येकं पक्षे पञ्चदश तिथयो भवन्ति। तत्र शुक्लपक्षान्ते पूर्णिमा कृष्णपक्षान्ते च अमावस्या भवति। तिथिनां नामानि एवं बोध्यानि प्रतिपदा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी, पूर्णिमा, अमावस्या चेति। एवं बृहस्पतिमाश्रित्य षष्टि संवत्सराणां चक्रः प्रवर्तते। चतुर्युगानामेकः महायुगः भवति। द्विसप्तति महायुगानाम् एकः मन्वन्तरः भवति। अधुना वैवस्वत मन्वन्तरस्य अष्टाविंशतितमो महायुगो प्रचलति।

हिन्दी-अनुवाद-एक माह में तीस दिन और दो पक्ष होते हैं। शुक्ल पक्ष और कृष्ण पक्ष। उनमें प्रत्येक पक्ष। में पन्द्रह तिथियाँ होती हैं। उनमें शुक्ल पक्ष के अन्त में पूर्णिमा और कृष्ण पक्ष के अन्त में अमावस्या होती है। तिथियों के नाम इस प्रकार से जानने चाहिए प्रतिपदा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी, पूर्णिमा और अमावस्या। इस प्रकार बृहस्पति पर आश्रित होकर साठ संवत्सरों का चक्र चलता है। चार युगों का एक महायुग होता है। बहत्तर महायुगों का एक मन्वन्तर होता है। इस समय वैवस्वत मन्वन्तर का 28वाँ महायुग चल रहा है।

♦ पठितावबोधनम्

निर्देशः–उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) एकस्मिन् मासे कति पक्षौ भवत:?
(ख) प्रत्येकं पक्षे कति तिथयः भवन्ति?
(ग) पूर्णिमा कदा भवति? अमावस्या के का?
(घ) चतुर्युगानामेकः कः भवति?
(ङ) कति महायुगानाम् एकः मन्वन्तर: भवति?
(च) ‘प्रत्येकम्’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) एकस्मिन् मासे द्वौ पक्ष भवतः।
(ख) प्रत्येकं पक्षे पञ्चदशतिथयो भवन्ति।
(ग) शुक्लपक्षान्ते पूर्णिमा कृष्णपक्षान्ते च अमावस्या भवन्ति।
(घ) चतुर्युगानामेकः महायुगः भवति।
(ङ) द्विसप्तति महायुगानाम् एकः मन्वन्तरः भवति।
(च) प्रति + एकम्।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published. Required fields are marked *