RBSE Class 8 Sanskrit परिशिष्टम् कथालेखनम्

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit परिशिष्टम् कथालेखनम् सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit परिशिष्टम् कथालेखनम् pdf Download करे| RBSE solutions for Class 8 Sanskrit परिशिष्टम् कथालेखनम् notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् कथालेखनम्

निर्देशः-मञ्जूषायां प्रदत्तशब्दानां सहायतया कथां पूरयित्वा लिखत-
1. बुद्धिमान् शिष्यः (पण्डितः, विद्याभ्यासार्थम्, परीक्षार्थम्, शिष्यः, अत्रैव, सर्वव्यापी, नास्ति, समाधानम्)
उत्तर:
काशीनगरे एकः पण्डितः अस्ति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदतिआचार्य! अहं विद्याभ्यासार्थम् आगतवान्! पण्डितः शिष्यबुद्धि परीक्षार्थम् पृच्छति-“वत्स! देवः कुत्र अस्ति?” शिष्यः वदति-गुरो! देवः कुत्र नास्ति। कृपया भवान् एवं वदतु। सन्तुष्टः गुरु वदति- देवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वम् बुद्धिमान्, अतः विद्याभ्यासार्थम् अत्रैव वस।

2. चतुरः काकः
(काकः, उपायं, उपरि, प्रस्तरखण्डान्, जलार्थं, पिबामि, बहुदूरं, जलं, घटं, सन्तोषः, स्वल्पम् पिबति, तृषितः)
उत्तर:
एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति। तदा ग्रीष्मकालः कुत्रापि जलं नास्ति। काकः बहुदूरं गच्छति। तत्र सः एकं घटं पश्यति। काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वल्पम् एव जलम् अस्ति। जलं कथं पिबामि? इति काकः चिन्तयति। सः एकम् उपायं करोति। प्रस्तरखण्डान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति। ततः गच्छति।

अथवा

(उपरि, प्रस्तरखण्डान्, जलार्थं, घटं, सन्तोषः, स्वल्पम्, पिबति, तृषित:) एकः काकः अस्ति। सः बहुः ……………………………………. “स ……………………………………. “भ्रमति। तदा ग्रीष्मकालः कुत्रापि जलं नास्ति। काकः जलमन्वेषणं गच्छति। तत्र सः एकं ……………………………………. “पश्चति। काकस्य अतीव ……………………………………. भवति। किन्तु घटे ……………………………………. एव जलम् अस्ति। जलं कथं पिबामि? इति काकः चिन्तयति। सः एकम् उपायं करोति। ……………………………………. आनयति। घटे पूरयति। जलम् ……………………………………. आगच्छति। काकः संतोषेण जलं ……………………………………. ततः गच्छति।
उत्तर:
एकः काकः अस्ति। सः बहु तृषितः, सः जलार्थं भ्रमति। तदा ग्रीष्मकालः कुत्रापि जलं नास्ति। काकः जलमन्वेषणं गच्छति। तत्र सः एकं घटं पश्चति। काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वल्पम् एव जलम् अस्ति। जलं कथं पिबामि? इति काकः चिन्तयति। सः एकम् उपायं करोति। प्रस्तरखण्डान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः संतोषेण जलं पिबति, ततः गच्छति।

3. दैवमेव परम्
(प्रदर्शनं, सर्पान्, पेटिकायां, दिनानि, कदाचित्, बभुक्षितः, आहारः, गमनाय, अक्ष्याणि, रन्ध्रम्, मूषकः, निश्चयम्, प्रवेशम्, मुखे, बहिः, अखादत्, सौभाग्यम्, दौर्भाग्यम्।)
उत्तर:
एकः अहितुण्डिकः आसीत्। सः सर्पान् गृहीत्वा जीवनं यापनं करोति स्म। एकदा सः एकं सर्पम् आनयति। सर्पम् पेटिकायां स्थापयति च। प्रतिदिनं सर्पस्य प्रदर्शनं करोति। जीवनं यापयति। कदाचित् अहितुण्डिकः अन्यं ग्रामम् अगच्छत्। तस्य पत्नी पुत्राः अपि अगच्छन्। सर्पः पेटिकायामेव बद्धः आसीत्। पञ्च दिनानि अभवन्। अहितुण्डिकः न आगच्छत्। सर्पस्य आहारः एव नास्ति। सः पेटिकात् बहिः गमनाय प्रयत्नम् अकरोत्। सः बुभुक्षितः आसीत्। अतः शक्तिः नास्ति। विफलः अभवत्। तदा पेटिका समीपे एकः मूषकः आगच्छत्। सः पेटिकाम् अपश्यत्। पेटिकायां अक्ष्याणि सन्ति। इति मूषकः अचिन्तयत्-रन्ध्रम् करोमि। इति सः निश्चयम् अकरोत्। अनन्तरं सेः रन्धं कृत्वा अन्तः प्रवेशम् अकरोत्। मूषकः सर्पस्य मुखे एव अपतत्। सर्पः मूषकम् अखादत्। तेन रन्ध्रेण एव बहिः आगच्छत। अहो सर्पस्य सौभाग्यम्, मूषकस्य दौर्भाग्यम्।

अन्य महत्त्वपूर्ण कथालेखनम्
प्रश्न 1.
मंजूषायां लिखितानां शब्दानां सहाय्येन कथा लिखत

विक्रेता, भूलोकम्, देवानां, विग्रहाः, देवेन्द्रः, गच्छन्, क्रीणाति, मूल्यं

कदाचित् देवराजः इन्द्रः ……………………………………. आगतवान्। भूलोके किमपि नगरं प्रविष्टः सः मार्गे ……………………………………. आसीत्। तत्र कश्चन् विक्रेता बहूनां ……………………………………. विग्रहान् संस्थाप्य विक्रयणं करोति स्म। देवेन्द्रः कुतूहलेन समीपं गत्वा दृष्टवान्। तत्र विष्णुः, शिवः, लक्ष्मी सरस्वती, गणेशः इत्यादीनां देवानां ……………………………………. आसन्। देवेन्द्रस्य विग्रहः अपि तत्र आसीत्। ……………………………………. एकैकस्यापि विग्रहस्य मूल्यं पृष्ट्वा-पृष्ट्वा ज्ञातवान्। अन्ते च कुतूहलेन तत्र स्थितस्य देवेन्द्रविग्रहस्य ……………………………………. पृष्टवान्। सः ……………………………………. उक्तवान्-यः कोऽपि कमपि विग्रहं ……………………………………. चेत् तस्मै एषः देवेन्द्र-विग्रहः निश्शुल्कं दीयते इति। तदा तु देवेन्द्रस्य स्थितिः शोचनीया एव आसीत्।
उत्तर:
कथा-कदाचित् देवराजः इन्द्रः भूलोकम् आगतवान्। भूलोके किमपि नगरं प्रविष्टः सः मार्गे गच्छन् आसीत्। तत्र कश्चन विक्रेता बहूनां देवानां विग्रहान् संस्थाप्य विक्रयणं करोति स्म। देवेन्द्रः कुतूहलेन समीपं गत्वा दृष्टवान्। तत्र विष्णुः, शिवः, लक्ष्मी सरस्वती, गणेशः इत्यादीनां देवानां विग्रहाः आसन्। देवेन्द्रस्य विग्रहः अपि तत्र आसीत्। देवेन्द्रः एकैकस्यापि विग्रहस्य मूल्यं पृष्ट्वा-पृष्ट्वा ज्ञातवान्। अन्ते च कुतूहलेन तत्र स्थितस्य देवेन्द्रविग्रहस्य मूल्यं पृष्टवान्। सः विक्रेता उक्तवान्-यः कोऽपि कमपि विग्रहं क्रीणाति चेत् तस्मै एषः देवेन्द्र-विग्रहः निश्शुल्कं दीयते इति। तदा तु देवेन्द्रस्य स्थितिः शोचनीया एव आसीत्।

प्रश्न 2.
मंजूषायां लिखितानां शब्दानां सहाय्येन कथा लिखत

चित्रग्रीवः, निभृतः, महिलारोप्य, कपोताः, तण्डुलान्, व्याधः, आकाशेः, व्यनाशयत्।

उत्तर:
कथा-दाक्षिणात्ये जनपदे महिलारोप्य नाम नगरम्। आसीत्। तस्य समीपे एकः वट-वृक्षः आसीत् तत्र एकः व्याधः आगच्छत्। सः वट-वृक्षस्य अध: जालम् प्रसारयत्। जालस्य उपरि तण्डुलान् अक्षिपत्। स पार्वे एव निभृतः अतिष्ठत्। अथ चित्रग्रीवः नाम कपोतराज: आकाशे उदपतत्। तस्य परिवारे शतम् कपोताः आसन्। ते तण्डुलान् भक्षयितुम् नीचैः आगच्छन् ते सर्वे जालेन बद्धाः। चित्रग्रीवः व्याधम् दृष्ट्वा कपोतान् अवदत्-यूयम् पाशम् नीत्वा शीघ्रम् उत्पतेत। सकलाः कपोता: जालेन सहिताः उदपतन्। व्याधः कपोतानाम् कृते जालम् अपि व्यनाशयत्।

प्रश्न 3.
मंजूषायां लिखितानां शब्दानां सहाय्येन कथा लिखत

अलसा, बीजानि, रुचिः, कृषकः क्षेत्रान्, पुत्राः, सुगुप्तं, मरणानन्तरं।

उत्तर:
कथा-कस्मिंश्चिद् ग्रामे एकः वृद्धः कृषकः अवसत्। सः परिश्रमी, दूरदर्शी तथा सरल स्वभावः आसीत्। तस्य चत्वारः पुत्राः आसन्, परं ते अलसी अभवन्। ते कृषिकायें पितुः सहयोगं न अकुर्वन्, न च तेषां कृषिकार्ये रुचिः आसीत्। अस्मात् कारणात् वृद्धकृषकः चिन्तितवान्। मरणासन्नावसरे वृद्धः कृषकः स्वपुत्रान् अकथयत् यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम् मरणानन्तरं क्षेत्रान् खनित्वा। सुगुप्तं धनं प्राप्नुयात। पुत्राः एतत् श्रुत्वा प्रासीदन्। निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्। परं सुगुप्तं धनं न लब्धम्। ते निराशाः संजाताः। अन्ते निजमातुः प्रेरणया, ते निजक्षेत्रेषु बीजानि अवपन्। परिणामस्वरूपम् प्रभूतं धान्यम् अभवत्। तस्य विक्रयैः ते समृद्धाः, धनिनः च संजाताः। अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्।

प्रश्न 4,
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत

अकुर्वन्, ग्रामे, ग्रीवायां, वृद्धः, श्रुत्वा, घण्टिकाबन्धनं, अभक्षत्, सभाम्।

उत्तर:
कथा-कश्चित् ग्रामे एका विडाली अवसत्। सा प्रतिदिनं बहून् मूषकान् अभक्षत्। एवं स्वविनाशं दृष्ट्वा मूषकाः स्वप्राणरक्षार्थं एकां सभाम् आयोजितवन्तः। सभायां मूषका: इंमं निर्णयम् अकुर्वन् यत् यदि विडाल्याः ग्रीवायां घण्टिकाबन्धनं भविष्यति तदा तस्याः नादं श्रुत्वा वयं स्वबिलं गमिष्यामः। एवं श्रुत्वा तेषु मूषकेषु एकः वृद्धः मूषकः किञ्चित् विचारयन् तान् अपृच्छत्-कः तस्याः ग्रीवायां घण्टिकाबन्धनं करिष्यति? तदानीम् एव विडाली आगता। तां दृष्ट्वैव सर्वे मूषकाः स्वबिलं पलायिताः।

प्रश्न 5.
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत

सरसि तटे, नलः, धृतवान्, अभयम्, करुणं, सञ्ज्ञाम्, दयार्द्रहृदयः, उपवने।

उत्तर:
कथा-निषधदेशे अतीव सुन्दरः सर्वगुणसम्पन्नः राजा नलः आसीत्। एकदा राजा नलः स्वस्य उपवने एकं विशालं सरः अपश्यत्। तत्र सरसि तटे हिरण्यमयं विचित्रं हंसं दृष्ट्वा राजा कुतूहलेन तं स्वपाणिना धृतवान्। करपञ्जरस्थितः हंसः स्वस्य दयनीय दशां वर्णयन् करुणं विलापं कृतवान्। राजा हंसस्य विलापं श्रुत्वा दयार्द्रहृदय अभवत्। तस्य नेत्राभ्याम् अश्रूणि अवहन्। अश्रुसेकं प्राप्य करमध्ये स्थितः सुवर्णहंसः संज्ञाम् अलभत्। ततः राजा अवदत्-‘तव ईदृशम् अपूर्व रूपं द्रष्टुम् एव अहं त्वां धृतवान्। अधुना तुभ्यम् अभयम् ददामि। यथेच्छं गच्छ।’ इत्युक्त्वा राजा नलः तं विलपन्तं हंसम् अमुञ्चत्।

प्रश्न 6.
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत-

उत्प्लुत्य, भ्रमन्ती, अम्लानि, द्राक्षालताम्, प्रत्यागच्छत्, लतायाम्, वने, सफला।

उत्तर:
कथा-एकस्मिन् वने एका लोमशा वसति स्म। एकदा सा भोजनस्य अभावे क्षुधापीडिता अभवत्। भोजनार्थ सा वने इतस्ततः भ्रमन्ती उद्यानम् आगच्छत्। तत्र एकां द्राक्षालताम्। अपश्यत्। तस्यां लतायाम् अनेकानि द्राक्षाफलानि आसन्। तानि दृष्ट्वा सा अतिप्रसन्ना अभवत्। सा। उत्प्लुत्य नैकवारं द्राक्षाफलानि खादितुं प्रयत्नम् अकरोत् किन्तु दूरस्थात् सा सफला न अभवत्। निराशां प्राप्य लोमशा प्रत्यागच्छत् अवदत् च– द्राक्षाफलानि अहं न खादामि तानि तु अम्लानि सन्ति।

प्रश्न 7,
मंजूषायां लिखितानां शब्दानां सहाय्येन कथा लिखत

प्रदर्शनं, सर्पान्, पेटिकायां, दिनानि, कदाचित्, बभुक्षितः, आहारः, गमनाय, अक्ष्याणि, रन्ध्रम्, मूषकः, निश्चयम्,। प्रवेशम्, मुखे, बहिः, अखादत्, सौभाग्यम्, दौर्भाग्यम्।

उत्तर:
कथा-एकः अहितुण्डिकः आसीत्। सः सर्पान्। गृहीत्वा जीवनं यापनं करोति स्म। एकदा सः एकं सर्पम्। आनयति। सर्पम् पेटिकायां स्थापयति च। प्रतिदिनं सर्पस्य प्रदर्शनं करोति जीवनं यापयति। कदाचित् अहितुण्डिकः अन्यं ग्रामम् अगच्छत्। तस्य पत्नी पुत्राः अपि अगच्छत्। सर्प: पेटिकायामेव बद्धः आसीत्। पञ्च दिनानि अभवन्। अहितुण्डिकः न आगच्छत्। सर्पस्य आहारः एव नास्ति। सः पेटिकात् बहिः गमनाय प्रयत्नम् अकरोत्। सः बुभुक्षितः आसीत्। अतः शक्तिः नास्ति। विफलः अभवत्। तदा पेटिका समीपे एकः मूषकः आगच्छत्। सः पेटिकाम् अपश्यत्। पेटिकायां अक्ष्याणि सन्ति। इति मूषकः अचिन्तयत्-रन्ध्रम् करोमि। इति स: निश्चयम् अकरोत्। अनन्तरं सः रन्धं कृत्वा अन्तः प्रवेशम् अकरोत्। मूषकः सर्पस्य मुखे एव अपतत्। सर्पः मूषकम् अखादत्। तेन रन्धेण एव बहिः आगच्छत। अहो सर्पस्य सौभाग्यम्, मूषकस्य दौर्भाग्यम्।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published.