परिश्रम का महत्व पर संस्कृत निबंध- Parishram Ka Mahatva Essay in Sanskrit

हेलो स्टूडेंट्स, यहां हमने परिश्रम का महत्व पर संस्कृत निबंध- Parishram Ka Mahatva Essay in Sanskrit के बारे में लिखा हैं। यह निबंध स्टूडेंट के परीक्षा में बहुत सहायक होंगे | इस निबंध को हिंदी मेडिअम के स्टूडेंट्स को ध्यान में रख कर बनाये है |

परिश्रम का महत्व पर संस्कृत निबंध- Parishram Ka Mahatva Essay in Sanskrit

सत्यमाह कविः-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।

इति – जन्मना कश्चित् कीदृशोऽपि महान् स्यात् परन्तु, यदि सः सर्वाणि कर्याणि परित्यज्य केवलमालस्यपरिगृहीत एव यापयति दिनानि, तदा स उन्नति नाप्नोति । तेन यत् पूर्वजेभ्यः प्राप्त तदपि शनैः-शनैः नश्यति । वनराजो मृगराजोऽपि यदि उद्यम विहाय वने तिष्ठेत्, तह अयमस्माकं राजेति विचार्य स्वयमेव कश्चित् पशुः तस्य मुखग्रासो भवितुं नार्हति ।

अत एवोच्यते ‘न परिश्रमसमो बन्धुर्न चालस्यसमो रिपुः’ इति । एतदाभाणकं शतशः सत्यमस्ति। यदि अस्माकं सर्वे बन्धवो वियुज्येरन्, पराङ्मुखा वा भवेयुः न कश्चित् साहाय्यं कुर्यात्, तदापि यदि परिश्रमं न वयं त्यजामस्र्ताह न केवलं लुप्तं धनं यशो वा प्राप्तुं समर्था अपितु नवमधिकं च धनं यशश्चार्जयितुं समर्थाः । मृत्पिण्डबुद्धिना बोपदेवेनापि परिश्रमद्वारैव महती विद्योपाजता, विद्वान् वैयाकरणोऽसौ जातः सम्मानितश्च लोके।

ये पुनः विभववन्तो जनास्ते हि बन्धुबान्धवयुता अपि यदि आलस्यपरिगृहीताः स्युः तदा सर्वस्तेषां विभवः पश्यतामेव नश्यति । कि वाऽभूत् आलस्यमूर्तेरग्निवर्णस्य ? तस्य इक्ष्वाकुवंशागतं राज्य परैरपहृतमालस्यकारणादेव । आलस्यकारणादेव च परवति, शासकैर्भारते मुगलसाम्राज्यमवपातितम् । परिश्रमेण पन अत्यल्पैरङ्ग लिगण्यैरपि आङ्गलैः निखिलविश्वे साम्राज्य स्थापितम्।

सर्वस्य इतिहासस्य कथैव परिश्रमकथा इति शक्यते वक्तुम् । न चेदभविष्यत् परिश्रमो गान्धितिलकसुभाषसदशानां नेतृणां कथनभविष्यत् भारतं स्वतन्त्रम् ! विद्यार्थिभिरपि सोद्यमैरेव न केवलं परीक्षायामपितु सकलजीवने एव साफल्यमधिगम्यते । प्रकृत्यामपि परिश्रमस्योदाहरणानि दृश्यन्ते । लघुपक्षिणोऽपि परिश्रमेण नीडानि निर्माय वर्षाकाले शीतकाले च सुखं वसन्ति ।

अतिलघ्वी पिपीलिका सर्वदा परिश्रमनिरता दृश्यते न सा कदापि विश्राम्यति । सा च सर्वेष कालेषु बिलेष सुख निभृता सती संगृहीतमन्न भक्ते न च क्षयं याति । अत एव साधूक्तं केनचित् कविता-‘आलस्यं हि ‘मनुष्याणां शरीरस्थो महान् रिपुः’ इति ।

वेदेषु प्रोच्यते–कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः इति । यः सपरिश्रम कार्यं करोति स एव जयति । तथैवोच्यते-इन्द्र इच्चरतः सखा इति । यो जनः चरति कार्यं वा करोति तमेव परमेश्वरः कामयते । परिश्रमेण श्रान्तेन जनेनैव लक्ष्मीः प्राप्यते इति ‘नानाश्रान्ताय श्रीरस्ति’ इत्यस्मिन् आभाणके उक्तं भवति । तथैव चाह ऋषिः-न ऋते श्रान्तस्य सख्याय देवाः इति ।

परमेश्वरोऽपि तस्य साहाय्यं करोति यः स्वयं परिश्रमशीलः स्यात् । सर्वेषु क्षेत्रषु परिश्रमः आवश्यकः । परिश्रमशीलो जनः किमपि काय गहतं न मन्यते । तस्य तु परिश्रमे एव निष्ठा च प्रतिष्ठा च।

5 Lines on Parishram Ka Mahatva Essay in Sanskrit:

1.परिश्रम जनानां उपकारः परोपकारः कथ्यन्ति।

2.नध्यः परिश्रम एव प्रवहन्ति।

3. वृक्षम परिश्रम एव फलन्ति।

4. धेनवः परिश्रम एव दुहन्ति।

5.अस्माकं शरीरम् अपि परिश्रम एव भवेत्।



हम आशा करते है कि यह Parishram Ka Mahatva Essay in Sanskrit आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |
आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है |

Leave a Comment

Your email address will not be published. Required fields are marked *