संस्कृत भाषा का महत्व पर निबंध संस्कृत में

हेलो स्टूडेंट्स, इस पोस्ट में हम आपको संस्कृत भाषा का महत्व पर निबंध संस्कृत में (Importance of Sanskrit Language in Sanskrit) साझा कर रहे है, ये संस्कृत भाषा पर निबंध छोटी कक्षा के विद्यार्थियों जैसे – Class 6, class 7, class 8, class 9, class 10 के लिए बहुत उपयोगी साबित होंगे |

विद्यार्थी इन्हे याद करके परीक्षा में अच्छे अंक अर्जित कर सकते है, Sanskrit me Importance of Sanskrit Language par nibandh को आप विस्तार से पढ़े |

Importance of Sanskrit Language in Sanskrit – संस्कृतभाषायाः महत्त्वम् निबंध

प्रस्तावना:

संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता भाषा संस्कृतभाषेति निगद्यते। सर्वविधदोषशून्यत्वादियं भाषा देवभाषा, गीर्वाणगी: इत्यादिभिः शब्दैः संबोध्यते। अतोऽन्या भाषा प्राकृतभाषापदवी प्राप्ता।

संस्कृतभाषाया उपयोगिता , महत्त्वं लाभाश्च:

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव ।

सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् , सर्वे जना : संस्कृतभाषाम् एव वदन्ति स्म । अत : ईसवीयसंवत्सरात्पूर्व प्रायः समग्रमपि साहित्यं संस्कृतभाषायामेव उपलभ्यते ।

संस्कृतभाषायाः सर्वे जनाः प्रयोगं कुर्वन्ति स्म , इति तु निरुक्तमहाभाष्यादिग्रन्थेभ्यः सर्वथा सिद्धमेव । आधुनिक भाषाविज्ञानमपि एतदेव सनिश्चयं प्रमाणयति ।

तत्साहित्यम:

संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति , येषां महत्त्वमद्यापि सर्वोपरि वर्तते । वेदेषु मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया निर्धारणं वर्तते । वेदानां । व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति ।

तदनन्तरम् अध्यात्मविषयप्रतिपादिका उपनिषदः सन्ति , यासां । महिमा पाश्चात्त्यैरपि नि : संकोचं गीयते । ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति , ये । विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति । ततश्च श्रौतसूत्राणां , गृह्यसूत्राणां , धर्मसूत्राणां , वेदस्य व्याख्यानभूतानां षडङ्गानां च गणना भवति ।

महर्षिवाल्मीकिकृतवाल्मीकीयरामायणस्य , महर्षिव्यासकृतमहाभारतस्य च रचना विश्वसाहित्येऽपूर्ण घटना आसीत् । सर्वप्रथमं विशदस्य कवित्वस्य , प्रकृतिसौन्दर्यस्य , नीतिशास्त्रस्य , अध्यात्मविद्यायाः तत्र दर्शनं भवति । तदनन्तरं । कौटिल्यसदृशाः अर्थशास्त्रकाराः भासकालिदासाश्वघोषभवभूतिदण्डिसुबन्धुबाणजयदेवप्रभूतयो ।

महाकवयो नाट्यकाराश्च पुरतः समायान्ति , येषां जन्मलाभेन न केवल भारतभूमिरेव , अपितु समस्तं विश्वमेतद् धन्यमस्ति । एतेषां कविवराणां गुणगणस्य वनि महाविद्वांसोऽपि असमर्थाः सन्ति , का गणना साधारणानां जनानाम् । भगवद्गीता , पुराणानि , स्मृतिग्रन्थाः अन्यद्विषयकं च सर्व साहित्य संस्कृतस्य माहात्म्यमेवोद्घोषयति ।

उपसंहार:

संस्कृतभाथैव भारतस्य प्राणभूता भाषाऽस्ति । एषैव समस्तं भारतवर्षभेकसूत्रे बध्नाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव कर्तव्यः ।

10 Lines on Importance of Sanskrit in Sanskrit

  1. संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।
  2. संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते।
  3. संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति।
  4. संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति।
  5. सर्वासामेताषा भाषाणाम इय जननी।
  6. संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति।
  7. वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।
  8. इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।
  9. संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।
  10. संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति।

5 lines essay on importance of Sanskrit in Sanskrit

  1. संस्कृत भाषा सर्वासु भाषासु प्राचीनतमा इत्यत्र नास्ति कोऽपि विवाद : ।
  2. संस्कृतभाषा अनेकासां भाषाणां जननी मता ।
  3. विज्ञानिका : कथयन्ति यत् संस्कृत संगणकस्य कृते सर्वोतम : भाषा अस्ति ।
  4. संस्कृतभाषायां एव ज्ञानविज्ञानयो : निधि सुरक्षितो अस्ति ।
  5. संस्कृत अस्माकं सन्मार्गम् उपरी प्रेरयति ।

संस्कृत भाषाया महत्त्वम् निबंध (100 Words)

संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतम् भारतस्य जगत: च भाषासु प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी।

संस्कृत भाषा पर निबंध संस्कृत में (200 Words)

संस्कृतम् भारतस्य विश्वस्य च पुरातनतमा भाषा। अन्यास भाषाणां तथा पुरातनं साहित्यमद्य नोपलभ्यते यथा पुरातनं संस्कृतसाहित्यम्। विश्वस्य पुरातनतमो ग्रन्थः ऋग्वेदः संस्कृतभाषयैव निबद्धः। इयमतीव वैज्ञानिकी भाषा, अस्या पाणिनिमुनिप्रणीतं व्याकरणमतीव वैज्ञानिकं यस्य साहाय्येन अद्यापि वयं तान् पुरातनग्रन्थान् अवबोधुं शक्नुमः।

संस्कृतमेव हि भारतम्। यदि वयं प्राचीन भारतमर्वाचीनं वापि भारतं ज्ञातुमिच्छामः तह नास्ति संस्कृतसमोऽन्य उपायः। भारतीयजनस्य अद्यापि यत् चिन्तनं तस्य मूलं प्राचीनसंस्कृतवाङ्मये दृश्यते। यदि च तत् चिन्तनं वयं नूतनविज्ञानाभिमुख कर्तुमिच्छामस्तह तस्य मूलं पृष्ठभूमि च अविज्ञाय विच्छिन्नरूपेण कतु न शक्नुमः। यदि वयमिच्छामो यत् भारतीयजनः परिवर्तनम् आत्मसात् कुर्यात् तदा तेन परिवर्तनेन आत्मरूपेण संस्कृतिमयेन संस्कृतमयेन च भाव्यम्।।

संस्कृतस्य शब्दाः सर्वासु भारतीयभाषासु कासुचित् वैदेशिकभाषासु च प्रयुज्यन्ते। अतः यदि वयं भारतीयजनानामेकीभावं, तेषां भाषागतम् अभेदं सौमनस्यं च इच्छामः तदा संस्कृतज्ञानेनैव तत सम्भाव्यते। संस्कृतं सर्वाः-भारतीयभाषाः सर्वं जनमानसं च एकसूत्रेण संयोजयति। प्राचीनभारतीयेतिहासस्य भूगोलस्य च समीचीनं चित्रं संस्कृताध्ययनं विना असम्भवम्।

संस्कृतसाहित्यम् अति समृद्धं विविधज्ञानमयं च वर्तते। अत्र वैदिकं ज्ञानमुपलभ्यते, यस्य क्वचिदपि साम्यं नास्ति। महाभारतं तु विश्वकोशरूपमस्ति। रामायणशिक्षाः दिशि दिशि प्रचरिताः। उपनिषद्भिर्वैदेशिकैरपि विद्वद्भिः शान्तिः प्राप्ता। कालिदासादीनां काव्यानाम् उत्कर्षस्य तु कथैव का।

चरकसुश्रतयोरायुर्वेदः, भारद्वाजस्य विमानशास्त्रम्, कणादस्य परमाणुविज्ञानम्, गौतमस्य तर्कविद्या, शुल्बसूत्राणां ज्यामितिविज्ञानम्, आर्यभटस्य खगोलशास्त्रम् इत्येवमादीनि अनेकानि विज्ञानानि शास्त्राणि च संस्कृतभाषोपनिबद्धान्येव। अद्यापि राजनीतिविषये शासनतन्त्रविषये च कौटिल्यस्य अर्थशास्त्रं मनुस्मृतिश्च मार्गप्रदर्शके स्तः।

वयं भारतीयाः। अस्माभिः स्वकीयं गौरवमयं वाङ्मयमधीत्यैव तदाधारे भविष्यनिर्माणं कर्तव्यं, तदैवात्मोत्कर्षः सम्भाव्यते। स च उत्कर्षः आत्माधिष्ठितो हृदयग्राही वास्तविकोन्नतिकारी भविष्यति। यानि राष्ट्राणि स्वगौरवं न विस्मरन्ति तान्येव सफलतायाश्चरमोत्कर्ष प्राप्नुवन्ति।

अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः। यतो हि-

कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति”

20 lines essay on importance of Sanskrit in Sanskrit Langauge

1.संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते ।

2.संस्कृतम् भारतस्य जगत : च भाषासु प्राचीनतमा ।

3.संस्कृता वाक् , भारती , सुरभारती , अमरभारती , अमरवाणी , सुरवाणी , गीर्वाणवाणी , गीर्वाणी , देववाणी , देवभाषा , दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा ।

4.भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः ।

5.संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः ।

6.तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति ।

7.व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति ।

8.अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा , वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति ।

9.संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति ।

10.संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति ।

11.वेद ,शास्त्र ,पुराण ,इतिहास ,काव्य, नाटक, दर्शनादिभिः ,अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् ।

12.न केवलं धर्म,  अर्थ,  काम ,मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक , नैतिक ,आध्यात्मिक, लौकिक , पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी ।

13.संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति

14.संस्‍कृतभाषामेव विश्‍वसाहित्‍य सर्वचाचीनग्रन्‍था: चत्‍वारो वेदा: संति येषा महत्‍वमघाति सर्वेअपरि वर्तते

15.संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते

16.संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति

17.प्राचीन समये संस्‍कृत भाषा एषैव भाषा सर्वसाधारणा आसीत

18.संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति

19.अव एव उच्‍यते संस्‍कृति: संस्‍कृताश्रिता

20.अश्‍वघेाष कालिदास दडि भवभुति जयदेव आदि कवि प्रभ्रतयो महाकवयो नाटकाराश्‍च संस्‍कृतभाषाया: अस्ति

हम आशा करते है कि यह sanskrit essay in Importance of Sanskrit Language आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |
आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है |

Leave a Comment

Your email address will not be published. Required fields are marked *