महर्षि वाल्मीकि पर संस्कृत निबंध | Essay on Valmiki in Sanskrit

हेलो स्टूडेंट्स, इस पोस्ट में हम आपको महर्षि वाल्मीकि पर संस्कृत निबंध (Essay on Valmiki in Sanskrit) साझा कर रहे है, ये संस्कृत भाषा पर निबंध छोटी कक्षा के विद्यार्थियों जैसे – Class 6, class 7, class 8, class 9, class 10 के लिए बहुत उपयोगी साबित होंगे |

विद्यार्थी इन्हे याद करके परीक्षा में अच्छे अंक अर्जित कर सकते है, Sanskrit me Valmiki par nibandh को आप विस्तार से पढ़े |

Essay on Valmiki in Sanskrit – महर्षि वाल्मीकि पर संस्कृत निबंध

Essay on Maharishi Valmiki in Sanskrit Language

सर्वस्मिन् विश्वे विख्यातस्य महाकाव्य रामायणस्य रचनाकारः महर्षिः वाल्मिकिः संस्कृतस्य आदिकविः मन्यते। एकदा सः ऋषि: शिष्यैः सह तमसानद्याः तीरे भ्रमति स्म। सहसा क्रौंच मिथुनयोः एक व्याघेन वध्यमानम् अवलोक्य, करुणार्द्र सः व्याधम् अवदत् ।  

‘मा निषाद् प्रतिष्ठा त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनदिकमवधीः काममोहितम्।‘ 

अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम। प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम। जन्मना अयं व्याधः आसीत्। रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म।

एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः। नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान्। रत्नाकरः यथार्थमवगच्छति। ज्ञानोदयः सञ्जायते।

रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता। तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत्। आश्रमे एव कुशलवयोः जननमभवत्। बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः।

अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ। एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत्। स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत्। तस्य मुखात् शापः श्लोकरूपेण निःसृतः।

हिन्दूसमाजे रामायणस्य महत्त्वम् अधिकम् अस्ति। अद्यपि प्रतिगृहे एतत्काव्यं पूज्यते। आदिकविना दत्तः अयम् अमूल्यः निधिः सर्वे: पूजनीयः। ‘रामरक्षास्तोत्रे उचितमुक्तम्-

‘कूजन्तं राम रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकि कोकिलम्।’

हम आशा करते है कि यह sanskrit essay आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |
आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है |

Leave a Comment

Your email address will not be published. Required fields are marked *