रामायण संस्कृत निबंध- Essay on Ramayana in Sanskrit

हेलो स्टूडेंट्स, यहां हमने रामायण संस्कृत निबंध- Essay on Ramayana in Sanskrit के बारे में लिखा हैं। यह निबंध स्टूडेंट के परीक्षा में बहुत सहायक होंगे | इस निबंध को हिंदी मेडिअम के स्टूडेंट्स को ध्यान में रख कर बनाये है |

रामायण संस्कृत निबंध- Essay on Ramayana in Sanskrit

महषिवाल्मीकिना विरचितं रामायणं भारतस्य अतीव महत्त्वपूर्णो ग्रन्थः। रामायणम् आदिकाव्यं वाल्मीकिश्च आदिकविः कथ्यते। अत्र दशरथात्मजस्य रामस्य कथा वणता। रामोऽत्र मर्यादापुरुषोत्तमरूपेण चित्रितः।

रामः सर्वगुणसम्पन्नः सर्वप्रियश्च आसीत् । तेन पृथिव्यामधर्मनाशो विहितः, धर्मश्च रक्षितः । दुष्टस्य सर्वदा नाशो भवति, सत्यं च जयति इति रामायणस्य सन्देशः । रामायणे वयमतीव मनोहरं काव्यं लभामहे । अत्र वन-नदी-पर्वत-सूर्योदय-चन्द्रोदय-षड़तु-समुद्रादीनां सुन्दरं प्राकृतिक वर्णनं दृश्यते । सीतासौन्दर्यवर्णनं, तारासौन्दर्यवर्णनं, रामगुणसंकीर्तनं च चित्तावर्जकम् अस्ति ।

वाल्मीकिना अयोध्याकिष्किन्धालङ्कादिनगराणां सजीव चित्रम् उपस्थापितम् । विविधात युद्धवर्णनानि वाल्मीके: वर्णनकौशलं प्रदर्शयन्ति। रामायणे सर्वेषां वीरादिरसानां सञ्चारः अनुभूयते । उदाहरणार्थ पम्पासरसः शोभावर्णनं दृश्यताम्-

(रामः) प्रहृष्टनानाशकुनां पादपैरुशोभिताम् । पुष्पिनोपवनोपेतां सालचम्पकशोभिताम् ॥

षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ।
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंयुताम् (पम्पां ददर्श) ।

एतदेव कारणं यत् सर्वस्मिन् जगति रामायणस्य भूयान् प्रचारः। भारतस्य सर्वासु भाषासु रामायणस्य अनुवादाः रूपान्तराणि चोपलभ्यन्ते । रामायणमुपजीव्यकाव्यमस्ति, अस्याधारेण कविभिः अनेकानि काव्यानि नाटकानि च विरचितानि । इण्डोनेशिया-कम्बुज-थाइलैण्डादिदेशानां भाषासु रामायणस्य रूपान्तराणि कृतानि । तत्र मन्दिराणां भित्तिषु रामकथादृश्यानि अङ्कितानि, साम्प्रतमपि च काले काले तत्र रामायणनाट्य प्रदर्श्यते ।

रामायणं पठित्वा जनस्य तृप्तिर्न भवति । पुनः पुनरपि रामायणस्य पाठे जनो नवं रसं प्राप्नोति । रामायणस्य अध्ययनेन वयं जानीमो यत् शोकविह्वलः कारुण्यमग्नः एव कविरुत्कृष्टं काव्यं रचयति, यथा व्याधेन कृतं क्रौञ्चवधं दृष्ट्वा वाल्मीके: मुखात् सहसैव इदं काव्यं जातम्-

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।

अतएव वाल्मीकिः कथयति-शोकः श्लोकत्वमागतः इति । रामायणस्य सार्वभौम सार्वकालिकं च महत्त्वं वीक्ष्यैवोच्यते–

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ।|

हम आशा करते है कि यह Essay on Ramayana in Sanskrit आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |
आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है |

Leave a Comment

Your email address will not be published. Required fields are marked *