श्रीमद्‍भगवद्‍गीता पर संस्कृत निबंध- Essay on Bhagavad Gita in Sanskrit

हेलो स्टूडेंट्स, यहां हमने श्रीमद्‍भगवद्‍गीता पर संस्कृत निबंध- Essay on Bhagavad Gita in Sanskrit के बारे में लिखा हैं। यह निबंध स्टूडेंट के परीक्षा में बहुत सहायक होंगे | इस निबंध को हिंदी मेडिअम के स्टूडेंट्स को ध्यान में रख कर बनाये है |

श्रीमद्‍भगवद्‍गीता पर संस्कृत निबंध- Essay on Bhagavad Gita in Sanskrit

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।।

पार्थो वत्सः सुधीभॊक्ता दुग्धं गीतामृतं महत् ।

श्रीमद्भगवद्गीता समस्तसंसारे विख्याता। संसारस्य अधिकांशभाषासु अस्या अनुवादाः सम्पन्नाः। सप्तशतश्लोकात्मके अस्मिन् लघुग्रन्थे सकलमानवतायै शान्तिसन्देशाः प्रदत्ताः । वस्तुतः गीतायां कृष्णार्जुनसंवादमाध्यमेन वेदानाम् । उपनिषदां च ज्ञानस्य सारः संगृहीतः । 

महाभारते यदा युद्धभूमौ अर्जुनः सम्मुखमेव रणाय समुद्यतानां धृतराष्ट्रपुत्राणां दुर्योधनादीनां सेनां पश्यति तदा तैः भ्रातृभिः अन्यैः सम्बन्धिभिश्च सह असौ योद्धं नेच्छति । तस्य मनसि मोहः जायते । तदा तस्य रथस्य सारथिरूपेण स्थितः महान् नीतिज्ञः योगीश्वरः श्रीकृष्णः तम् उद्बोधयति युद्धाय च प्रेरयति । सः कथयति यत् मनुष्येण फलस्य चिन्तां न कृत्वा कार्यं कर्तव्यम् ।

सर्वे जनाः एकस्मिन् दिवसे निश्चितम् आयुः यापयित्वा अवश्यमेव मरिष्यन्ति । परन्तु तदा केवलं तेषां शरीर नश्यति, आत्मा तु अजरः, अमरः अस्ति, स न नश्यति । अतः एतेषां बन्धूनां नाशविषये भयं न कर्तव्यम् । यैः शरीरैरेते भान उत्पीडयन्ति कपटाचरणं च कुर्वन्ति तेषां नाशः आवश्यकः अस्ति । अतः अस्मिन् युद्धे युद्ध कर्तव्यमेव । अनेन भगवतः कृष्णस्योपदेशेन अर्जुनः ज्ञानं प्राप्य मोहं त्यक्त्वा युद्धाय कृतनिश्चयः अभवत् ।

श्रीमद्भगवद्गीता निष्कामकर्मणः उपदेशं ददाति, निर्भीकतां च शिक्षयति । आत्मनः अजरत्वम् अमरत्वम्, व्याप्ति, सर्वभूतान्तर्यामित्वं च उपदिश्य मनुष्यं त्यागमार्ग दर्शयति । गीतायां संन्यासस्य, कर्मणः, ज्ञानस्य भक्तेश्चापूर्वः समन्वयः लक्ष्यते ।

अयं समन्वयः एव भारतीयसंस्कृतेः दर्शनस्य विचारधारायाश्च प्रतीकं वक्तुं शक्यते । गीतायाः सन्देशः विश्वबन्धुत्वस्य, विश्वशान्तेः सन्देशः, आदर्शमानवस्य च सन्देशः ।। गीतायाः ज्ञानेन किंकर्तव्यविमूढो जनो मार्ग लभते मानसिक शान्ति चाधिगच्छति । अतएव सर्वशास्त्राणां सारभूता गीता अमूल्यम् अप्रतिम ग्रन्थरत्नं कथ्यते ।

गीतायाः सारः अस्मिन् श्लोके वर्तते-

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गो ऽस्त्वकर्मणि

हम आशा करते है कि यह Essay on Bhagavad Gita in Sanskrit आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |
आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है |

Leave a Comment

Your email address will not be published.