टेलीविजन पर संस्कृत निबंध – Doordarshan par Nibandh in Sanskrit

हेलो स्टूडेंट्स, यहां हमने टेलीविजन पर संस्कृत निबंध – Doordarshan par Nibandh in Sanskrit के बारे में लिखा हैं। यह निबंध स्टूडेंट के परीक्षा में बहुत सहायक होंगे | इस निबंध को हिंदी मेडिअम के स्टूडेंट्स को ध्यान में रख कर बनाये है |

टेलीविजन पर संस्कृत निबंध- Essay on Television in Sanskrit

‘दूरदर्शनम्’ इति शब्दः सर्वान् परिचितः। न कोऽपि नरः यः दूरदर्शनम् न जानाति। सर्वेषाम् गृहे दूरदर्शनं भवति। दूरदर्शनं ज्ञानस्य प्रचारस्य च माध्यमं वर्तते। वयं विविधान् समाचारान् दूरदर्शनेन एवआकर्णयामहे। दूरदर्शनम् मनोरंजनस्यापि साधनं विद्यते । तदर्थं गानं, वादयवादन वा भवति। 

दर्शनयन्त्रं हि आधुनिकविज्ञानस्य आश्चर्यकरः चमत्कारः अस्ति। आश्चर्यमिव जनः अत्र क्वचिदप्युपविश्य दूरस्थानि चित्राणि स्वनेत्रयोः पुरतः तथैव पश्यति तथैव च शृणोति जगतानां जनानां वचांसि यथा महाभारते संजयेन दिव्य सर्व युद्धं दृष्ट्वा धृतराष्ट्रीय समकालमेव वणतम् ।

अयं हि विद्युत्तरङ्गाणां चमत्कारः । अस्य च आविष्कारको मलरूपेण नियकाऊमहोदयो मन्यते । बेयर्ड-फार्क्सवर्थ-ज्वोरिकिननामकैः वैज्ञानिकैः पुनः एतद् वर्तमानरूपं प्रापितम् । |

क्रमवीक्षणपद्धत्या किरणपुजैः विशिष्टापत्रः दूरदर्शनप्रेषकयन्त्रश्चित्राणि आकाशे विद्युत्तरङ्गमाध्यमेन प्रेष्यन्ते तानि च संग्राहियन्त्रैः गृहीत्वा चित्रपट प्रदश्यन्ते । अद्य शिक्षाज्ञानसंस्कृतिराजनीतिकलादिक्षेत्रेषु अस्य यन्त्रस्य महदुपयोगित्वम् ।

कामं जनः पुस्तकं पठित्वा वा भाषणादिकं श्रुत्वा वा विविधं ज्ञानमाप्नोति, परन्तु सजीवचित्रज्ञानं जनमनधीतविद्यमपि महतोऽर्थान् बोधयितुं सम्यग् आत्मसात् कारयितुं च प्रभवति । गृहे एव उपविष्टो जनः दूरदेशेषु किं भवति इति तत्क्षणमेव दूरदर्शनपटे सश्रवणं द्रष्टुं शक्नोति ।

मनोरमाणि नृत्यानि, रसमयानि रूपकाणि, प्रियनेतृणां वृत्तं चेत्येतत् सर्वं जनसम्मर्द परिहृत्य एकान्ते गृहे सुखासीनो जनः वीक्षितुं पारयति । अस्य माध्यमेन शासनं वा अन्यद्वा तन्त्रं स्वविचारान् दूरतरम् विशालतरजनसमूहं प्रति च प्रचारयितुं क्षमम् । छात्रा अपि दूरदर्शनद्वारा सचित्रमध्यापिताः स्वचक्षुषा पश्यन्त इव सम्यग् अवबुध्यन्ते विविधान् विषयान् ।

परन्तु प्रत्येक शुभपदार्थस्येवास्यापि केचन दोषाः अवलोक्यन्ते । प्रथमं तावदस्माभिः ‘अति सर्वत्र वर्जयेत्’ इति नियमः स्मर्तव्यः एव । दूरदर्शने चित्राणामतिशयितं वीक्षणं नेत्राभ्यां हानिकारक ज्योतिरपहारकं च परिणमति विशेषतश्च बालानाम् ।

अन्यच्च सर्वविधैर्जनैः कुटुम्बे वीक्षणार्हाणि वा अवीक्षणार्हाणि वा उभयविधानि चित्राणि दृश्यन्ते, तेषु चानपेक्षितानि दृष्ट्वा चित्तं सदाचारस्य प्रतिकूलतां याति । दीर्वकार्यक्रमैश्च समयोऽपि नश्यति छात्राणाम् । अस्मद्देशीयं वायुमण्डलं च दृष्ट्वा बहुकालं गृहम् प्रविश्योपवेशनं न चाल्पमपि भ्रमणं स्वास्थ्यविरुद्धं ननु।

दूरदर्शनेन पुनः सामाजिकता विच्छिन्ना व्यक्तिकेन्द्रिता च काचित् संस्कृतिः समुदेति यस्या अनुसारेणास्माकमन्योन्यसम्भाषणं वा मेलनं वा न्यूनतां याति समाजश्च विच्छिद्यते । नैतत् सामाजिकमनुष्याय शुभं चिह्न, व्यक्तित्वकलाया ह्रासस्याप्येतत् महत् कारणम् । तथापि सावधानं प्रयुज्यमानमेतत् यन्त्रं महते ख लूपकाराय कल्पते ।

हम आशा करते है कि यह Doordarshan par Nibandh in Sanskrit आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |
आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है |

Leave a Comment

Your email address will not be published. Required fields are marked *